| YouTube Channel

बुधिँर् (budhi~r)

 
धातुप्रदीपः
Sanskrit
बुधिर् बोधने
- बोधति बोधते अबोधिष्ट ।अबोधीत् अबुधत् पूर्वत्र पाठोऽस्य कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदार्थः ।। 879 ।।
क्षीरतरङ्गिणी
Sanskrit
बुध[बुधिर्?] बोधने
- बोधते, बोधति बुधिर् इति नन्दी-अबुधत्, अबोधीत् बोधिता पूर्वस्य (1597) बोद्धा 846
धातुवृत्तिः
Sanskrit
बुधिर् (अर्थः) बोधने
( बोधयति बुबोध बोधिता अबुधत् अबोधीत् ) "इरितो वा'' इत्यडविकल्पेन ( बोधते बुबुधे ) इत्यादि क्षीरस्वामी तु बुधेत्यनिरितं पपाठ बोधतीति ज्वलादिः परस्मैपदी अवगमने गतः अस्य तशब्दे "दीपजन'' इति चिण् नेति अबोधिष्टं इत्येव भवति अत्र दैवादिकेर्न वात्मनेपदिभिरकर्मकैः साहचर्यात् तादृश एव बुधिगृह्मते तथा "बुधयु इत्यत्र युधनशजनैरकर्मकैः साहचर्यान्नास्य संग्रहः स्पष्टं चैतत् तत्र वृत्तौ तेन (बोधयति बोधयते इति भवति ) 860