| YouTube Channel

बिदि (bidi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
बिन्द्
मूलधातुः:
बिदि
धात्वर्थः:
अवयवे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
बिन्दति
धातुप्रदीपः
Sanskrit
बिदिँ बिदि अवयवे
- बिन्दति बिविन्द अस्यापि विन्दुरिच्छुः (3/2/169) इति निपातनमिच्छन्ति जयादित्यस्तु विद ज्ञान इत्यस्यैव तन्निपातनमाह (23) ।। 63 ।।
क्षीरतरङ्गिणी
Sanskrit
बिदिँ बिदि अवयवे
(अर्थविवरणम्) एकदेशगतक्रियायाम्
बिन्दति बिन्दुः, बाहुलकाद् उः विन्दुरिच्छुः (32169) इति वेत्तेर् (257) निपातनम् 62
धातुवृत्तिः
Sanskrit
बिदिँ बिदि (अर्थः) अवयवे
(अर्थविवरणम्) अवयव इति अवयवक्रियोच्यते
बशादिः ( बिन्दति बिबिन्द बिन्दितेत्यादि ) ( किन्दुः ) बाहुलकादुप्रत्ययः अत्र मैत्रेयः "बिन्दुरिच्छुः'' इति सूत्रं बशादिं पठन् बिन्दुशब्दं व्युदपादयत्. वृत्तौ तु वेतेरेव तत्र पाठः अत्र सम्मतायां भिदि अवयवे भिन्दति यद्यभिधानमस्ति भिन्दुरिति दृश्यत इति 64
कृदन्तरूपमाला
Sanskrit
1 {@“बिदि अवयवे”@} 2 ‘अवयवे = एकदेशगतक्रियायाम्।’ इति क्षीरस्वामी।
‘भिदि--’ इति सम्मताकारः।
बिन्दकः-न्दिका, बिन्दकः-न्दिका, बिबिन्दिषकः-षिका, बेबिन्दकः-न्दिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 3 ज्ञेयानि।
4 बिन्दुः 5।
प्रासङ्गिक्यः
01
=>
(१११४)
02
=>
(१-भ्वादिः-६४। अक। सेट्। पर।)
03
=>
(१६३)
04
=>
[[२। बाहुलकादौणादिके उप्रत्यये रूपम्। मैत्रेयस्तु ‘बिन्दुरिच्छुः’ (३-२-१६९) इति सूत्रे निपातनादुकारप्रत्ययान्तत्वं मेने। तदप्रामाणिकम्। यतः, काशिकादिषु “वेत्तेर्नुमि उप्रत्यये निपातनम् विन्दुः वेदनशीलः” इत्युक्तत्वात्। एतेन, ‘यद्यभिधानमस्ति--भिन्दुरिति दृश्यते।’ इति भिदिधातुमत्रावयवार्थे पठन्, तस्योप्रत्ययान्ते भिन्दुरिति साधयंश्च सम्मताकारोऽपि प्रतिबोधित इति ज्ञेयम्।]]
05
=>
[[B। ‘श्रुतान्दुकैश्चित्तगजेन्द्ररोधिनस्तुष्यन्तु सन्तो गुणबिन्दुलोलुपाः।।’ धा। का। १। ९।]]