| YouTube Channel

बाली (bAlI)

 
शब्दसागरः
English
बाली
f.
(-ली) A kind of ear-ring.
Apte
English
बाली [bālī], A kind of ear-ring.
Apte 1890
English
बाली A kind of ear ring.
Apte Hindi
Hindi
बाली
स्त्री*
- बालि + ङीष्
एक प्रकार की कान की वाली
बाली
स्त्री*
- -
एक प्रकार का कान का आभूषण-अश्व० २४।
L R Vaidya
English
bAlI {% f. %} A kind of ear-ring, बालीयुतश्रवणपालायुगाललितचूलीविराजिवकुला Asv.24.
शब्दकल्पद्रुमः
Sanskrit
बाली, [न्]
पुं,
(बालः केश उत्पत्तिस्थानत्वेनविद्यते यस्य बाल + इनिः नामनिरुक्तिश्चयथा, रामायणे ।“अमोघरेतसस्तस्य वासवस्य महात्मनः ।बालेषु पतितं बीजं बाली नाम बभूव सः
”)इन्द्रपुत्त्रवानरराजविशेषः तु श्रीरामचन्द्रेणहतः तस्योत्पत्तिर्यथा, --“मेरुर्नगवरः श्रीमान् जाम्बूनदमयः शुभः ।तस्य यन्मध्यमं शृङ्गं सर्व्वदैवतपूजितम्
तस्मिन् दिव्या सभा रम्या ब्रह्मणः शतयोजना ।तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः
योगमभ्यसतस्तस्य नेत्राभ्यां यदश्रु स्रवत् ।तद्गृहीतं भगवता पाणिना चर्च्चितश्च तत्
निःक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्त्तृणा ।तस्मिन्नश्रुकणे राम ! वानरः संबभूव
उत्तरं मेरुशिखरं गतस्तत्र दृष्टवान् ।नानाविहगसंघुष्टं प्रसन्नसलिलं सरः
आप्लुत्य चापतत्तस्मिन् ह्रदे वानरसत्तमः
उत्प्लुत्य तस्मात् ह्रदादुत्थितः प्लवगः पुनः
तस्मिन्नेव क्षणे राम ! स्त्रीत्वं प्राप वानरः
तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्य्यमात्मनः ।ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम्
अनासाद्यैव तां नारीं सन्निवृत्तमथाभवत् ।ततः सा वानरपतिं जज्ञे वानरमीश्वरम्
अमोघरेतसस्तस्य वासवस्य महात्मनः ।बालेषु पतितं बीजं बाली नाम बभूव
भास्करेणापि तस्यां वै कन्दर्पवशवर्त्तिना ।बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तत ।ग्रीवायां पतितं बीजं सुग्रीवः समजायत
”इति रामायणे उत्तरकाण्डे ३७ सर्गः
अपि ।“वानरेन्द्रं महेन्द्राभमिन्द्रो बालिनमात्मजम् ।सुग्रीवं जनयामास तपनस्तपतां वरः
”इति रामायणे बालकाण्डे १७ सर्गः
“ततः शरेणाभिहतो रामेण रणकर्कशः ।पपात सहसा बाली निकृत्त इव पादपः
”इति किष्किन्ध्याकाण्डे १७ सर्गः
(बालाः केशाः सन्त्यस्य ।) बालविशिष्टे, त्रि