| YouTube Channel

बालं (bAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
बालं,
क्ली,
पुं,
(बलतीति बल + णः ।)गग्धद्रव्यविशेषः बाला इति ख्यातम् इतिमेदिनी
तत्पर्य्यायः ह्रीवेरम् बर्हिष्ठम् ३उदीच्यम् केशनामकम् अम्बुनामकम् ।इत्यमरः १२२
ह्रिवेरम् वर्हि-ष्ठम् इति भरतः
बालकम् बारिदम् १०इति शब्दरत्नावली
वरम् ११ ह्रीवेरकम् १२केश्यम् १३ वज्रम् १४ पिङ्गम् १५ ललना-प्रियम् १६ कुन्तलोशीरम् १७ कचामोदम् १८ ।अस्य गुणाः शीतलत्वम् तिक्तत्वम् पित्त-वान्तितृषाज्वरकुष्ठातिसारश्वासव्रणनाशित्वम् ।केशहितत्वञ्च इति राजनिर्घण्टः
अपि ।“बाला वाट्यालिका वाट्या सैव वाद्यालिका-पि ।महाबला पीतपुष्पा सहदेवी सा स्मृता
ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह ।गाङ्गेरुकी नागबला झसा ह्रस्वा गवेधुका
अस्य गुणाः ।बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् ।स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम्
बालाचतुष्टयविशेषगुणाः ।बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् ।मूत्रातिसारं हरति दुष्टमेतन्न संशयः
हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी ।हन्यादतिबला मोहं पयसा सितया सह
”इति भावप्रकाशः