| YouTube Channel

बन्ध्यः (bandhyaH)

 
शब्दकल्पद्रुमः
Sanskrit
बन्ध्यः, त्रि, (बन्ध + यक् ।) ऋतुप्राप्तावधिफल-रहितवृक्षादिः (यथा, रघुः ७० ।“सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमपादपम्
”)तत्पर्य्यायः अफलः अवकेशी इत्यमरः ।२
विफलः निष्फलः इतिराजनिर्घण्टः
बन्धनीयः इति बन्धधातोःकर्म्मणि यप्रत्ययः
(यथा, याज्ञवल्क्यः २४६ ।“अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति
”पुं, निवर्त्तितवारिः सेतुः यथा, मिताक्षरायाम् ।“सेतुश्च द्बिविधो ज्ञेयः खेयो बन्ध्यस्तथैव ।तोयप्रवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात्
”)