बन्धकं (bandhakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritबन्धकं, (बध्नातीति । बन्ध + ण्वुल् ।) ऋणायस्थापितं वस्तु । बाँधा इति भाषा । इतिआधिशब्दनानार्थे अमरः ॥
इदानीमाधि-र्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरिविश्वासार्थमधमर्णेनोत्तमर्णेऽधिक्रियते आधी-यत इत्याधिः । स च द्विधैव । कृतकालो-ऽकृतकालश्च । पुनश्चैकैकशो द्बिविधः गोप्योभोग्यश्च । यथाह नारदः ।“अधिक्रियत इत्याधिः स विज्ञेयो द्बिलक्षणः ।कृतकालापनेयश्च यावद्देयोद्यतस्तथा ॥
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव चेति ॥
”कृते काले आधानकाल एवामुस्मिन् कालेदीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवै-वाधिर्भविष्यतीत्येवं निरूपिते कालेऽपनेयःआत्मसमीपे नेतव्यो मोचनीय इत्यर्थः देयं दानंदेयमनतिक्रम्य यावद्देयम् उद्यतो नियतःस्थापित इत्यर्थः । यावद्देयम् उद्यतो यावद्देयो-द्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकालइत्यर्थः । गोप्यो रक्षणीयः । एवञ्चतुर्विधस्या-धेर्विशेषमाह ।“आधिः प्रणश्येत् द्बिगुणे धने यदि न मोच्यते ।काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥
”प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्बिगुणी-भूते यद्याधिरधमर्णेन द्रव्यदानेन मोच्यते तदानश्यत्यधमर्णस्य धनं प्रयोक्तुः स्वम्भवति । काल-कृतः कृतकालः आहिताग्न्यादिषु पाठात् काल-शब्दस्य पूर्व्वनिपातः स तु काले निरूपिते प्राप्तेनश्येत् द्वैगुण्यात् प्रागूर्द्ध्वं वा । फलभोग्यः फलंभोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स नकदाचिदपि नश्यति । कृतकालस्य गोप्यस्यभोग्यस्य च तत्कालातिक्रमे नाश उक्तः । कालेकालकृतो नश्येदिति । अकृतकालस्य भोग्यस्यनाशाभाव उक्तः फलभोग्यो न नश्यतीतिपारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्या-धिविषयमवतिष्ठते द्वैगुण्यातिक्रमेण निरूपित-कालातिक्रमेण च विनाशे चतुर्द्दशदिवसप्रती-क्षणं कर्त्तव्यं बृहस्पतिवचनात् ।“हिरण्ये द्बिगुणीभूते पूर्णे काले कृतावधौ ।बन्धकस्य धनी स्वामी द्बिसप्ताहं प्रतीक्ष्य च ।तदन्तराधनं दत्त्वा ऋणी बन्धमवाप्नुयादिति ॥
”किञ्च ।“गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते ।नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥
”गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति ।अल्पेऽप्युपभोगे महत्यपि वृद्धिर्हातव्या सम-यातिक्रमात् तथा सोपकारे उपकारकारिणिबलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धिकेहापिते हानिं व्यवहाराक्षमत्वं गमिते नोवृद्धिरिति सम्बन्धः । नष्टो विकृतिं गतस्ताम्र-कटाहादिश्छिद्रभेदादिना पूर्व्ववत्कृत्वा देयः तत्रगोप्याधिर्नष्टश्चेत् पूर्व्ववत् कृत्वा देयः । उपभुक्तो-ऽपि चेत् वृद्धिरपि हातव्या भोग्याधिर्यदि नष्ट-स्तदा पूर्व्ववत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर्वाहातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपिदेयो मूल्यादिद्वारेण तद्दाने सवृद्धिकं मूल्यं लभतेयदि न ददाति तदा मूलनाशः । ‘विनष्टे मूल-नाशः स्याद्दैवराजकृतादृते ।’ इति नारदवच-नात् । दैवराजकृतादृते । दैवमग्न्युदकदेशो-पप्लवादि । दैवकृताद्बिनाशाद्विना । तथा स्वाप-राधरहिताद्राजकृतात् । दैवराजकृते तु विनाशेसवृद्धिकं मूल्यं दातव्यमधमर्णेनाध्यन्तरं वायथाह ।“स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।आधिरन्योऽथ कर्त्तव्यो देयं वा धनिने धनमिति ॥
”तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ।अपि च ।“आधेः स्वीकरणात् सिद्धी रक्ष्यमाणोऽप्यसार-ताम् ।यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥
आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपभोगा-दाधिग्रहणसिद्धिर्न साक्षिलिखनमात्रेण नाप्यु-द्देशमात्रेण यथाह नारदः ।“आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा ।सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥
”अस्य च फलम् ।“आधौ प्रतिग्रहे क्रीते पूर्व्वा तु बलवत्तरेति ।”या स्वीकारान्ता क्रिया सा पूर्व्वा बलवतीस्वीकाररहिता तु पूर्व्वापि न बलवतीति सचाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्य-सारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्य्याप्ततांगतस्तदाधिरन्यः कर्त्तव्यः । धनिने वा धनं देयंरक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रय-त्नेन रक्षणीयो धनिनेति ज्ञापितम् । आधिःप्रणश्येद्द्विगुण इत्यस्यापवादमाह ।“चरित्रबन्धककृतं सवृद्ध्या दापयेद्धनम् ।सत्यङ्कारकृतं द्रव्यं द्बिगुणं प्रतिदापयेत् ॥
”चरित्रं शोभनाचरितम् । चरित्रेण बन्धकंचरित्रबन्धकम् । तेन यत् द्रव्यमात्मसात् कृतंपराधीनं वा कृतम् । एतदुक्तं भवति धनिनःस्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्या-धमर्णेनाल्पमेव द्रव्यमात्मसात् कृतम् । यदि वाध-मर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वाबहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति तद्धनंनृपो वृद्ब्या सह दापयेत् अयमाशयः एवंरूपंबन्धकं द्बिगुणीभूतेऽपि द्रव्ये न नश्यति किन्तुद्रव्यमेव द्बिगुणं दातत्वमिति । तथा सत्यङ्कार-कृतं करणं कारः भावे घज् सत्यस्य कारःसत्यङ्कारः कारे सत्यागदस्येति मुम् सत्यङ्कारेणकृतं सत्यङ्कारकृतम् । अयमभिसन्धिः । यदाबन्धकार्पणसमय एव इत्थं परिभाषितं द्विगुणी-भूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यम् ।नाधिनाश इति तदा तद्द्विगुणं दापयेदिति ।अन्योऽर्थः । चरित्रशब्देन गङ्गास्नानाग्नि-होत्रादिजनितमपूर्व्वमुच्यते यत्र तदेवाधी-कृत्य यत् द्रव्यमात्मसात् कृतम् । तत्र तदेवद्बिगुणीभूतं दातव्यं नाधिनाश इति । आधि-प्रसङ्गादन्यदुच्यते । सत्यङ्कारकृतमिति क्रय-विक्रयादिव्यवस्थानिर्व्वाहणाय यद्यङ्गुलीयकादि-परहस्ते कृतं तद्ब्यवस्थातिक्रमे द्विगुणं दातव्यंतत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद्ब्यव-स्थातिवर्त्ती तेन तदेव हातव्यम् । इतरश्चेद्व्यव-स्थातिवर्त्ती तदा तदेवाङ्गुलीयकादिद्बिगुणं प्रति-दापयेदिति । किञ्च ।“उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथाभवेत् ।प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात् ॥
”धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्योधनिना वृद्धिलोभेन न स्थापयितव्यः । अन्यथाअमोक्षणे स्तेनश्चौरवद्दण्ड्यो भवेत् असन्निहितेपुनःप्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनंनिधायाधमर्णः स्वीयं बन्धकं गृह्णीयात् । अथप्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य ग्रहीतारोन सन्ति यदि वा असन्निहिते प्रयोक्तरि आधि-विक्रयेण धनदित्साधमर्णस्य तत्र किं कर्त्तव्य-मित्यपेक्षित आह ।“तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।”तस्मिन् काले यत्तस्याधेर्मूल्यं तत् परिकल्प्यतत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेन्न ततऊर्द्ध्वं धनं वर्द्धते यावद्धनी धनं गृहीत्वा तमाधिंमुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने प्रवेशयति ।यदा तु द्बिगुणीभूतेऽपि धने द्बिगुणं घनमेवग्रहीतव्यं न त्वाधिनाश इति विचारितमृण-ग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असन्नि-हिते वाधमर्णे धनिना किं कर्त्तव्यमित्यत आह ।“विनाधारणकाद्वापि विक्रीणीत ससाक्षिकम् ।”धारणकादधमर्णाद्विना अधमर्णे असन्निहितेसाक्षिभिस्तदाप्तैश्च सह तमाधिं विक्रीय तद्धनंगृह्णीयाद्धनी वाशब्दो व्यवस्थितविकल्पार्थः ।यदर्णग्रहणकाले द्बिगुणीभूतेऽपि धने धनमेवग्रहीतव्यं न त्वाधिनाश इति न विचारितम् ।तदा आधिः प्रणश्येद्द्विगुण इत्यस्याधिनाशः ।विचारिते त्वयं पक्ष इति ॥
* ॥
भोग्याधौविशेषमाह ।“यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥
”यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्बिगुणीभूतंतदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्बिगुणे धनिनःप्रविष्टे धनिनाधिर्मोक्तव्यः । यदि वादावेवाधादत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परि-भाषया कारणान्तरेण वा भोगाभावेन तदाद्विगुणीभूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टेतदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधि-कोपभोगे तदपि देयम् । सर्व्वथा सवृद्धिकमूल्य-र्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् ।तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तुवृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्रद्वैगुण्यातिक्रमेऽपि यावन्मूल्यदानं तावदुप-भुड्क्ते एवाधिम् एतदेव स्पष्टीकृतं बृहस्पतिना“ -- ऋणी बन्धमवाप्नु यात् ।फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् ॥
यदि प्रकर्षितं तत् स्यात्तदा न धनभाग्धनी ।ऋणी च न लभेद् बन्धं परस्परमतं विना ॥
”अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यो बन्धआधिः स च द्बिविधः सवृद्विकमूल्यापाकरणार्थोवृद्धिमात्रापाकरणार्थश्च तत्र च वृद्धिमूल्यापा-करणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौपूर्णकालस्तमाप्नु यादृणी । यदा सवृद्धिकं मूल्यंफलद्बारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नुयादि-त्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकंदत्त्वाप्नुयादृणी । समं मूल्यं सममेव सामकम् ।अस्यापवादमाह । यदि प्रकर्षितं तत् स्यात्त-द्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलंयदि स्यात्तदा न धनभाग्धनी । सामकं नलभेद्बन्धं मूल्यमदत्त्वैवर्णी बन्धमवाप्नुयादितियावत् । अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्य-पर्य्याप्तन्तदा सामकं दत्त्वापि बन्धं लभेताधमर्णःवृद्धिशेषमदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्राप-वादमाह । परस्परमतं विना उत्तमर्णाध-मर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितंइत्याद्युक्तम् । परस्परानुमतौ तूत्कृष्टमपिबन्धकं यावन्मूल्यदानन्तावदुपभुङ्क्ते धनी निकृ-ष्टमपि मूलमात्रदाने नैवाधमर्णो लभते । इति-मिताक्षरा ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
