| YouTube Channel

बधूः (badhUH)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)धूः,
स्त्री,
(बध्नाति प्रेम्णा या बन्ध + ऊःनलोपश्च अन्तःस्थवादौ तु वहति संसारभारंउह्यते भर्त्त्रादिभिरिति वा वह + “वहेर्धश्च ।”उणा० ८५ इति ऊः धश्चान्तादेशः ।)नारी स्नुषा पृक्का इत्यमरः १०१, १३३
(अस्याः पर्य्यायो यथा, --“पृक्का स्याद्ब्राह्मणी देवी मरुन्माला लतालघुः ।समुद्रान्ता बधूः कोटिवर्षालङ्कापिकेत्यपि
”इति भावप्रकाशस्य पूर्व्वखण्डे भागे
)शारिवौषधिः शटी (अस्याः पर्य्यायो यथा, “शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका ।गन्धारिका गन्धबधूर्बधूः पृथुपलाशिका
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)नवोढा (यथा, रघुः ।“वरः बध्वा सह राजमार्गंप्राप ध्वजच्छायनिवारितोष्णम्
”)भार्य्या इति मेदिनी धे, १४
भरतेनअमरकोषटीकायां पवर्गीयबकारादिबन्धधातुनानिष्पादितोऽयम् मेदिनीकारेण तु अन्तःस्थ-वकारादिशब्दमध्ये संगृहीतः
अथ नवबध्वाद्विरागमनयात्रा तत्राष्टमदशमद्बादशषष्ठचतुर्थ-वर्षाणि निषिद्धानि मासाः मार्गशीर्षफाल्गुन-वैशाखा विहिताः पक्षः शुक्लः पुष्यस्वातीहस्ताधनिष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपद्-रेवतीमृगशिरोरोहिणीपुनर्व्वसुपूर्व्वाषाढा ए-तानि नक्षत्राणि विहितानि सोमबुधबृह-स्पतिशुक्राणां वाराः विहिताः तिथयो यात्रा-प्रकरणोक्ताः चन्द्रताराशुद्धौ कालशुद्धौ त्र्यह-स्पर्शवारवेलादिक्शूलादीन् परित्यज्य कर्त्तव्या ।इति ज्योतिषम्
“वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति ।पुनरागमनं बध्वास्तद्द्विरागमनं विदुः
विवाहमासि प्रथमं बध्वा नागमनं यदि ।तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः
भुक्त्वा पितृगृहे नारी भुङ्क्ते स्वामिगृहेयदि ।दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः
”इति ज्योतिस्तत्त्वम्