| YouTube Channel

बडवानल (baDavAnala)

 
शब्दसागरः
English
बडवानल
m.
(-लः) Submarine fire
in mythology, a being consisting
of flame, but with the head of a mare, who sprang from the thighs
of OURVĀ, and was received by the ocean.
E.
बडवा a mare, and
अनल fire.
Yates
English
बडवा-नल (लः) 1.
m.
Idem
a being
of flame with the head of a mare.
Wilson
English
बडवानल
m.
(-लः) Submarine fire
in mythology, a being consisting
of flame, but with the head of a mare, who sprang from the thighs of ŪRVA, and
was received by the ocean.
E.
बडवा a mare, and अनल fire.
Shabdartha Kaustubha
Kannada
बडवानल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಮುದ್ರದಲ್ಲಿ ಕುದುರೆಯ ಮುಖದಿಂದ ಹೊರಟ ಅಗ್ನಿ /ಬಡಬಾಗ್ನಿ
व्युत्पत्तिः - > बडवायाः समुद्रस्थितायाः अश्वाया मुखस्थोऽनलः
प्रयोगाः - > "बडवानलधूमराजिरूक्षा"
उल्लेखाः - > याद० १५-१०१
शब्दकल्पद्रुमः
Sanskrit
ब(व)डवानलः,
पुं,
(बडवाया अनलः ।) बडवाग्निः ।तत्पर्य्यायः सलिलेन्धनः बडवामुखः काक-ध्वजः बाणिजः स्कन्दाग्निः तृणधुक् ७काष्ठधुक् इति त्रिकाण्डशेषः
और्व्वः९ बाडवः १० इत्यमरः ५९
उर्व्वस्यऋषेरपत्यम् और्व्वः ष्णः बडवायां विद्यमानोबाडवः ष्णः बडवाया अनलो बडवानलः ।आधाराधेयभावसम्बन्धः पुरा किल उर्व्वेणमुनिना अयोनिजं पुत्त्रमिच्छता वक्षो मथितंतत्र ज्वालामयः पुरुषो जातः समुद्रेबडवामुखे अवस्थापितः इति पौराणिकाः
इति तट्टीकायां भरतः
*
तस्य विवरणंयथा, --“और्व्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ।ममन्थैकेन दर्भेण सुतस्य व्रतधारिणम्
तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्दनः ।जगतो दहनाकाङ्क्षी पुत्त्रोऽग्निः समपद्यत
और्व्वस्योरुं विनिर्भिद्य और्व्वो नामान्तको-ऽनलः ।दिधक्षन्निव लोकांस्त्रीन् जज्ञे परमकोपनः
उत्पन्नमात्रश्चोवाच पितरन्दीनया गिरा ।क्षुधा मे वाधते तात ! जगद्भक्षे त्यजस्व माम्
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।निर्दहन् सर्व्वभूतानि ववृधे सोऽन्तकोऽनलः
एतस्मिन्नन्तरे ब्रह्मा मुनिमौर्व्वं समागतः ।उवाच वार्य्यतां पुत्त्रो जगतस्त्वं दयां कुरु
अस्यापत्यस्य ते विप्र ! करिष्ये स्थानमुत्तमम् ।तथ्यमेतन्मंम वचः शृणु त्वं वदतांवर !
और्व्व उषाच ।धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवान्शिशोः ।मतिमेतान्ददातीह परमानुग्रहाय वै
प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे ।भगवंस्तर्पितः पुत्त्रः कैर्हव्यैः प्राप्स्यते सुखम्
कुत्र वास्य निवासः स्याद्भोजनन्तु किमात्मकम् ।विधास्यतीह भगवान् वीर्य्यतुल्यं महौजसः
ब्रह्मोवाच ।बडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति ।मम योनिर्जलं विप्र ! तत्र मे तोयदं मुखम्
अत्राहमासे नियतं पिबन् वारिमयं हविः ।तद्धविस्तव पुत्त्रस्य विसृजन्नानयंश्च तम्
ततो युगान्ते भूतानां मेघवाहञ्च पुत्त्रक ! ।सहितौ विचरिष्यावो निष्पुराणकराविह
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।दहनः सर्व्वभूतानां सदेवासुररक्षसाम्
एवमस्त्विति तं सोऽग्निः संवृतज्वालमण्डलः ।प्रविवेशार्णवमुखं विप्रनष्टान्तरप्रभम्
”इति मात्स्ये १५० अध्यायः
(मदनदहनाय हरनेत्रसमुद्भूतोऽग्निरपि बडवा-नलः अस्य प्रमाणादिकं बडवाशब्दे द्रष्टव्यम्
)लङ्काया दक्षिणे पृथिव्याश्चतुर्थभागरूपस्थान-विशेषः इति सिद्धान्तशिरोमणिः
(वटि-कौषधविशेषः यथा, --“शुद्धताम्रस्य भागैकं मरिचस्य तथैव ।विषं तत्तु ल्यकं दद्यात् तत्सर्व्वं श्लक्ष्णचूर्णितम्
लाङ्गलीरससंयुक्तं तत्सर्व्वं पुटके पचेत् ।रक्तिकाद्वितयं वापि त्रितयं वा प्रकल्पते
दोषे व्योषसमायुक्तस्त्रिदोषशमनो भवेत् ।भक्षयेत् पवने चोग्रे बडवानलसंज्ञितम्
इति बडवानलो रसः
”इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे
)