| YouTube Channel

फणी (phaNI)

 
Monier Williams Cologne
English
फणी
f.
N.
of a river,
Cat.
Monier Williams 1872
English
फणी फणी, f., N. of a river.
Wordnet
Sanskrit
Synonyms:
नागः, भुजङ्गः, फणी
noun
सर्पविशेषः, तीव्रविषयुक्तः, फणालाङ्गुलयुक्तः सर्पः।
"नागः चन्दनतरौ वसति।"
Synonyms:
सर्पः, भुजगः, भुजङ्गः, अहिः, भुजङ्गम्, उरगः, पृदाकुः, आशीविषः, विषधरः, चक्री, व्यालः, सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवा, काकोदरः, फणी, दर्वीकरः, दीर्घपृष्ठः, दन्दशूकः, विलेशयः, उरगः, पन्नगः, भोगौ, जिह्नगः, पवनाशनः, विलशयः, कुम्भीनसः, द्विरसनः, भेकभुक्, श्वसनोत्सुकः, फणाधरः, फणधरः, फणावान्, फणवान्, फणाकरः, फणकरः, समकोलः, व्याडः, दंष्ट्री, विषास्यः, गोकर्णः, उरङ्गमः, गूढपादः, विलवासी, दर्विभृत्, हरिः, प्रचालकी, द्विजिह्वः, जलरुण्डः, कञ्चुकी, चिकुरः, भुजः
noun
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
"सर्पाः शून्यागारे वसन्ति।"
Synonyms:
फणी
noun
एका नदी
"फण्याः उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
फणी, [न्]
पुं,
(फणास्त्यस्येति फणा + “ब्रीह्या-दिभ्यश्च ।” ११६ इति इनिः ।) सर्पः ।इत्यमरः
(यथाच सुश्रुते कल्पस्थाने अध्याये ।“ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः ।मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः
”तद्दंशनप्रतीकारविधिर्यथा, --“फणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक्
नस्यकर्म्माञ्जने युञ्ज्यात्तृतीये विषनाशने ।वान्तं चतुर्थे पूर्व्वोक्तां यवागूमथ दापयेत्
शीतोपचारं कृत्वादौ भिषक्पञ्चमषष्ठयोः ।दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम्
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् ।तीक्ष्णमेवाञ्जनं दद्यात्तीक्ष्णशस्त्रेण मूर्द्ध्नि
कुर्य्यात्काकपदं चर्म्म सासृग्वा पिशितं क्षिपेत्
”इति सुश्रुते कल्पस्थाने पञ्चमेऽध्याये
)सर्पिणीनामकौषधिः इति राजनिर्घण्टः
(केतुः यथा, ग्रहभावप्रकाशे ।“कविरत्यन्तधवलः फणी कृष्णः शनिस्तथा
”सीसकं अस्य विषयो यथा, --“रसो गन्धष्टङ्गणः सोषणोऽयंफणी पिप्पलीत्येष धुस्तूरपिष्ठःजयेत् सन्निपातं द्बिगुञ्जकानुपानंभवेदर्कमूलाम्बु सव्योषचूर्णम्
”इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे पञ्च-वक्त्ररसे
मरुवकनामौषधं यथा, --“मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः ।फणी फणिज्झकश्चापि प्रस्थप्रष्पः समीरणः
”इति भावप्रकाशस्य पूर्व्वखण्डे भागे
)