| YouTube Channel

प्लुष्टः (pluSTaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्लुष्टः, त्रि, (प्लुष् + क्तः “यस्य विभाषा ।” ।२ १५ इति इट् ।) दग्धः इत्यमरः ।३ ९९
(यथा, ऋतुसंहारे २२ ।“पटुतरवनदाहात् प्लुष्टशष्पप्ररोहाःपरुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः
”अस्य लक्षणं यथा, --“तत्र यद्बिवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टम्
चिकित्सास्य यथा, --“दग्धस्योपशमार्थाय चिकित्सां संप्रचक्षते ।प्लुष्टस्याग्निप्रतपनं कार्य्यमुष्णन्तथौषधम्
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम्
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम्
तस्मात् सुखयति ह्यष्णं नतु शीतं कथञ्चन
”इति सुश्रुते सूत्रस्थाने द्बादशेऽध्याये
)