| YouTube Channel

प्रेतशौचं (pretazaucaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेतशौचं,
क्ली,
(प्रेते सति प्रेतस्य वा शौचम् ।)मृतसंस्कारादि यथा, --याज्ञवल्क्य उवाच ।“प्रेतशौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः ।ऊनद्बिवर्षं निखनेन्न कुर्य्यादुदकन्ततः
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः ।यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना
दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् ।सप्तमाद्दशमाद्वापि ज्ञातयो ह्युपयन्त्यपः
अप नः शोशुचदघमनेन पितृदिङ्मुखाः ।एवं मातामहाचार्य्यप्रेतानाञ्चोदकक्रियाः
कामोदकाः सखिपुत्त्रस्वस्रीयश्वशुरर्त्विजः ।नामगोत्रेण ह्युदकं सकृत् सिञ्चन्ति वाग्यताः
पाषण्डपतितस्तेना कुर्य्युरुदकक्रियाम् ।न ब्रह्मचारिणो व्रात्या योषितः कामगास्तथा
सुरापास्त्वात्मघातिन्यो नाशौचोदकभाजनाः ।अतो रोदितव्यं हि त्वनित्या जीवसंसृतिः
क्रिया कार्य्या यथाशक्ति ततो गच्छेद्गृहान्प्रति ।विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः
प्रवेशनादिकं कर्म्म प्रेतसंस्पर्शिनामपि ।ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात्
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक् ।पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम्
जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये ।वैतालोपासनाः कार्य्याः क्रियाश्च श्रुतिचोदिताः
आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता ।त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम्
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ।अन्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति
दश द्वादश वर्णानां तथा पञ्चदशैव ।त्रिंशद्दिनानि तथा भवति प्रेतसूतकम्
अहस्त्वदत्तकन्यासु बालेषु विशोधनम् ।गुर्व्वन्ते वास्यानूचानमातुलश्रोत्रियेषु
अनौरसेषु पुत्त्रेषु भार्य्यास्वन्यगतासु ।निवासराजनि तथा तदहः शुद्धिकारणम्
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ।विषाद्यैश्च हतानाञ्च नाशौचं पृथिवीपते
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ।दाने विवाहे यज्ञे संग्रामे देशविप्लवे ।आपद्यपि हि कष्टायां सद्यःशौचं विधीयते
कालोऽग्निः कर्म्ममृद्बायुर्म्मनो ज्ञानं तपो जलम् ।पश्चात्तपो निराहारः सर्व्वेषां शुद्धिहेतवः
”इति गारुडे १०६ अध्यायः