| YouTube Channel

प्रेतः (pretaH)

 
Apte Hindi
Hindi
प्रेतः
पुं*
- प्र + + क्त
"दिवंगत आत्मा, और्ध्वदेहिक क्रिया किये जाने से पूर्व जीव की अवस्था"
प्रेतः
पुं*
- प्र + + क्त
"भूत, पिशाच"
प्रेतः
पुं*
- प्र+इ+क्त
नरक में रहने वाला
प्रेतः
पुं*
- प्र+इ+क्त
"इस संसार से गया हुआ, मृत"
प्रेतः
पुं*
- प्र+इ+क्त
पितर
Wordnet
Sanskrit
Synonyms:
प्रेतः, प्रेतनरः, प्रेतिकः, परेतः, नारकः, नरकवासी, नरकामयः, परेतः, निशाटः, ब्रह्मराक्षसः, भूतः, मलिनमुखः, रहाटः, श्मशाननिवासी, श्मशानवेश्मा, सत्त्व
noun
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
"आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं स्वीकुर्वन्ति।"
Synonyms:
परासुः, प्राप्तपञ्चत्वः, परेतः, प्रेतः, संस्थितः, प्रमीतः
adjective
यः गतप्राणः।
"सः मृतः शावकः अस्ति।"
Tamil
Tamil
ப்ரேத: : பிணம், பூதம், பிசாசு.
शब्दकल्पद्रुमः
Sanskrit
प्रेतः,
पुं,
(प्र + गतौ + क्तः ।) नरकस्थप्राणी ।इत्यमरः ५९
भूतभेदः मृते, त्रि ।इति मेदिनी ते, ३७
(यथा, मनुः २४७ ।“आचार्य्ये तु खलु प्रेते गुरुपुत्त्रे गुणान्विते ।गुरुदारे सपिण्डे वा गुरुवत् वृत्तिमाचरेत्
”)वैदिकविधानेन और्द्धदेहिकाभावात् विष्णुद्बेषाच्चबहुनरकभोगान्ते प्रेतशरीरं भवति यथा, --लोमश उवाच ।“ततो बहुतिथे काले राजा पञ्चतां गतः ।वैदिकेन विधानेन लेभे सौर्द्धदेहिकम्
विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम् ।भुक्त्वा यातनां यामीं निस्तीर्णनरको नृपः
समया गिरिराजन्तु पिशाचोऽभूत्तदामहान्
”तस्य रूपं यथा, --“देवद्युतिरधीयानः शुश्राव करुणामयः ।समागत्य ततस्तत्र तं पिशाचं ददर्श सः
विकरालमुखं दीनं पिशङ्गनयनं भृशम् ।ऊर्द्ध्वमूर्द्धजकृष्णाङ्गं यमदूतमिवापरम्
चलज्जिह्वञ्च लम्बोष्ठं दीर्घजङ्घशिराकुलम् ।दीर्घाङ्घ्रिं शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्जरम्
”इति पाद्मोत्तरखण्डे १६ अध्यायः
*
प्रेतत्यादि जनककर्म्माणि यथा, --“हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये ।लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये
सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् ।आर्त्तेभ्यो प्रयच्छन्ति सर्व्वे सुकृतदारकाः
ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये ।बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः
नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः ।बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः
अग्निदा गरदा ये ये चान्ये कूटसाक्षिणः ।अगम्यागानिनः सर्व्वे ये चान्ये ग्रामयाजिनः
व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्ज्जिताः ।देवोपदेवदनुजरक्षोयक्षादिसेविनः
सर्व्वदा मादकद्रव्यपानमत्ता हरिद्बिषः ।देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः
असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः ।पाषण्डधर्म्मचरणाः पुरोधोवृत्तिजीविनः
पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये ।ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः
त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् ।गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः
महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये ।परद्रोहरता ये तथा ये प्राणिहिंसकाः
परापवादिनः पापा देवतागुरुनिन्दकाः ।कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः
प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु ।न तेषां सुखलेशोऽस्ति इह लोके परत्र
”इति पाद्मोत्तरखण्डे १८ अध्यायः
*
पञ्चप्रेतोपाख्यानं यथा, --ब्राह्मण उवाच ।“प्रेतानां नाम जातीनां युष्माकं सम्भवः कथम् ।किन्तत् कारणमुद्दिश्य यूयमीदृशनामकाः
प्रेता ऊचुः ।अहं स्वादु सदा भुक्त्वा दद्यां पर्य्युषितं सदा ।एतत्कारणमुद्दिश्य नाम पर्य्युषितं मम
सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः ।एतत् कारणमुद्दिश्य सूचीमुखमिमं विदुः
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।पश्चाद्भुङ्क्ते द्विजः शिष्टमेष शीघ्रक उच्यते
गृहोपरि सदा भुङ्क्ते स्वादु द्विजभयेन हि ।द्विजाय कुत्सितं दत्त्वा एष रोहक उच्यते
मौनेनापि स्थिरो नित्यं याचितो विलिखेन्महीम् ।अस्माकमवि पापिष्ठो लेखको नाम एष वै
मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः ।शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्
”प्रेतानामाहारो यथा, --द्विज उवाच ।“ये जीवा भुवि तिष्ठन्ति सर्व्वे आहारमूलकाः ।युष्माकमपि आहारं ओतुमिच्छामि तत्त्वतः
प्रेता ऊचुः ।शृणु आहारमस्माकं सर्व्वसत्त्वविगर्हितम् ।श्लेष्ममूत्रपुरीषेण योवितान्तु मलेन
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै
स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि ।मलेनातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै
भयलज्जाविहीनानि पतितैः सेवितानि ।अन्योन्यदस्युयुक्तानि प्रेता भुञ्जन्ति तत्र वै
कलहान्वितशोकानि त्यक्तशोभानि मण्डनैः ।सवर्च्चस्कानि भाण्डानि प्रेता भुञ्जन्ति तत्र वै
वलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु ।नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै
गुरवो नैव पूज्यन्ते स्त्रीजितानि मलानि ।सक्रोधान्यपवित्राणि प्रेता भुञ्जन्ति तत्र वै
भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादारहितेषु ।अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भुञ्जते
सकेशमाक्षिकोच्छिष्टं पूतिपर्य्युषितं तथा ।सक्रोधञ्च सशोकञ्च तच्च प्रेतेषु भोजनम्
सनग्नं भोजनं यच्च नोत्तरीयं पदासनम् ।सोष्णीषं सासुरीकक्षं तच्च प्रेतेषु भोजनम्
अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं पतितं तथा ।दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम्
सौतिकं मृतकञ्चैव रजसं कलुषीकृतम् ।निर्द्दीपं कृमिवच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत्
एतत्ते कथितं सर्व्वं यत् प्रेतेष्वेव भोजनम् ।निर्व्विण्णाः प्रेतजात्या वै पृच्छामस्त्वां द्विजो-त्तम !
*
प्रेतत्वाभावकारणं यथा, --“न प्रेतो जायते येन येन चैवेह जायते ।एतत् सर्व्वं समासेन प्रब्रूहि वदतां वर !
ब्राह्मण उवाच ।एकरात्रं त्रिरात्रं वा कृच्छं चान्द्रायणादिकम् ।व्रतेष्वप्युषियो यस्तु प्रेतो जायते नरः
मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः ।देवपूजाकरो नित्यं प्रेतो जायते नरः
त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः ।सर्व्वभूतदयापन्नो प्रेतो जायते नरः
तुल्यमानापमानश्च तुल्यः काञ्चनलोष्टयोः ।तुल्यः शत्री मित्रे प्रेतो जायते नरः
देवतातिथिपूजासु गुरुजातिषु नित्यशः ।वेदशास्त्ररतो नित्यं प्रेतो जायते नरः
जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः ।क्षमाक्रोधसुशीलश्च प्रेतो जायते नरः
देवतातिथिपूजास्तु पर्व्वतांश्च नदीस्तथा ।पश्येद्देवालयांश्चैव प्रेतो जायते नरः
*
प्रेतत्वकारणं यथा, --“शूद्रान्नं यो द्बिजो भुड्क्ते यः क्रामति द्बिजो-त्तमम् ।वृत्तिहा द्विजदेवेषु प्रेतो जायते नरः
मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा ।लोभात् त्यजति यः स्नेहं प्रेतो जायते नरः
अयाज्ययाजकश्चैव याज्यञ्च परिवर्जयेत् ।शूद्रानुग्रहकर्त्ता प्रेतो जायते नरः
कुज्योतिषि कुविद्यस्तु कुजनेषु कुदेशकः ।शूद्रसेवाकरो राज्ञा प्रेतो जायते नरः
सेवकायापद्रुतो यः सेवकस्त्वपरिग्रहः ।ताबुभावपि जायेते प्रेतौ कालान्नकिंप्रदः
द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्बिजस्य तु ।शूद्रेणैव द्बिजः प्रेतो निरयानुपगच्छति
गीतवाद्यरतो नित्यं मद्यपस्त्रीनिषेवणात् ।द्यूतमांसप्रियो यस्तु प्रेतो जायते नरः
वृथारेतो वृथामांसो वृथावादी वृथामतिः ।निन्दको द्बिजदेवानां प्रेतो जायते नरः
वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै ।कन्यां ददाति शुल्केन प्रेतो जायते नरः ।न्यासापहर्त्ता मित्रध्रुक् परपाकरतस्तथा ।विश्रम्भघाती कूटश्च प्रेतो जायते नरः
निर्द्दोपान् सुहृदो नारीस्त्यजेत् कालान्नपाति यः ।धनमीहेत यस्तेषां प्रेतो जायते नरः
हस्त्यश्वरथयानानि मृतशय्यासनादि यः ।कृष्णाजिनञ्च गृह्णाति अनापत्सु गतो द्विजः
तथोभयमुखीं कालं सशैलां मेदिनीं द्बिजः ।कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा ।मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्न मुच्यते
ब्रह्महा गोवधी स्तेयी सुरापो गुरुतल्पगः ।भूमिकन्यापहर्त्ता यः प्रेतो जायते नरः
लालासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा ।योनिसङ्करकृच्चापि प्रेतो जायते नरः
विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु ।गवां केशरिणां मोहात् विक्रयात् प्रेततांव्रजेत्
कूटमाप्ये तौल्येन क्रयं क्रीणाति विक्रयात् ।मद्यतक्रपयोदध्नां प्रेतो जायते नरः
स्त्रीरक्तो मद्यमाने तु मृगयामनुधावति ।नित्यनैमित्तिकेऽदाता प्रेतो जायते नरः
”इत्यग्निपुराणम्
*
मनुष्याणां आतिवाहिकदेहानन्तरं प्रेतदेहोभवति यथा, विष्णुधर्म्मोत्तरे ।“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् ।आतिवाहिकर्संज्ञोऽसौ देहो भवति भार्गव !
केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् ।प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव !
भोगदेहमिति प्रोक्तं क्रमादेव संशयः ।प्रेतपिण्डा दीयन्ते यस्य तस्य विमोक्षणम्
श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ।तत्रास्य यातना घोराः शीतवातातपोद्भवाः
ततः सपिण्डीकरणे बान्धवैः कृते नरः ।पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते
ततः नरके याति स्वर्गे वा स्वेन कर्म्मणा
”इति शुद्धितत्त्वम्