| YouTube Channel

प्रीङ् (prIG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
प्री
मूलधातुः:
प्रीङ्
धात्वर्थः:
प्रीतौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
प्रीयते
अनुबन्धादिविशेषः:
ईकारान्तः
धातुप्रदीपः
Sanskrit
प्रीङ् प्रीतौ
- प्रीयते (11) पिप्रिये प्रीणातीति क्रैयादिकस्य प्रीञो रूपम् 38
क्षीरतरङ्गिणी
Sanskrit
प्रीङ् प्रीतौ
- प्रीयते इगुपधज्ञा (31135) इति कः-प्रियः क्र्य्यादौ प्रीञ् तर्पणे कान्तौ (92)-प्रीणीते, प्रीणाति प्रीञ् तर्पणे (10225) आधृषीयः-प्रीणयति, प्रयते, प्रयति 35
धातुवृत्तिः
Sanskrit
प्रीङ् (अर्थः) प्रीतौ
अकर्मकः ( प्रीयते, पिप्रिये, ) इत्यादि व्रीवत् (प्राययति) [ धूञ्प्रीञो नुग्वक्तव्यः ] इति नुग्विधौ ञित उपादानादस्य भवमतीति धातुवृत्तिकारः हरदत्तस्तु "श्नान्तानुकरणे दैवादिकस्य भवति' इति "दैवादिकस्य ग्रहणेन चौरादिकेऽप्युपलक्षयितव्य' इति पुरुषकारे कौमारास्तु व्यक्तमेव "धूञ् प्रीणात्योः' इति पठन्ति ( प्रियः ) "इगुपधज्ञाप्रीकिरः कः'' इत्यात्रेयः वृत्तौ तु प्रीणातीति ( प्रियः ) इति क्रैयादिक एव उदाह्रियते ( प्रेष्ठः, प्रेयान्, प्रेमा ) "प्रियस्थिर'' इत्यादिना प्रादेशः प्रियमाचष्टे ( प्रापयति )"णाविष्ठवत्'' इति प्रादेशे वृद्धिप्रकौ प्रीञ् तर्पण इति क्र्यादौ चुरादौ दीङादय आत्मनेपदिनो दीङ्वर्जमनुदात्ताः तु "श्विडीङिवर्णेषु' इति वचनात्सेट् 36
कृदन्तरूपमाला
Sanskrit
1 {@“प्रीङ् प्रीतौ”@} 2 ‘प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः।।
अणौ यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
प्रायकः-यिका, प्रायकः-यिका, पिप्रीषकः-षिका, पेप्रीयकः-यिका
4 प्रियः-इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकधीङ्धातुवत् 5 ज्ञेयानि।
6
प्रासङ्गिक्यः
01
=>
(१०७१)
02
=>
(४-दिवादिः-११४४। अक। अनि। आत्म।)
03
=>
(श्लो। १९। २०)
04
=>
[[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। एतच्च आत्रेयादीनां मतेनोक्तम्। काशिकायां तु ‘प्रीणातीति प्रियः।’ इति कैयादिकस्यैव कप्रत्ययः प्रोक्तः।]]
05
=>
(९०१)
06
=>
[पृष्ठम्०९०४+ २९]