प्राड्विवाक (prADvivAka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiप्राड्विवाकः
प्राछ्- विवाकः -
"न्यायाधीश, कचहरी या अदालत में प्रधान पद पर अधिष्ठित अधिकारी"
Shabdartha Kaustubha
Kannadaप्राड्विवाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನ್ಯಾಯಾಧಿಪತಿ /ವ್ಯವಹಾರಗಳನ್ನು ವಿಚಾರಣೆ ಮಾಡಿ ತೀರ್ಮಾನಿಸುವ ಅಧಿಕಾರಿ
निष्पत्तिः - > "अच्" (५-२-१२७)
व्युत्पत्तिः - > प्राट् च विवाकश्च प्राड्विवाकौ प्रश्नविवाकावस्य स्तः
विस्तारः - > ವಾದಿಪ್ರತಿವಾದಿಗಳ ವಿವಾದಾಸ್ಪದವಾದ ಮಾತುಗಳನ್ನು ಕೇಳಿ ವಿಚಾರಣೆಯ ಪೂರ್ವಕ ನಿರ್ಣಯವನ್ನು ಮಾಡುವುದರಿಂದ ನ್ಯಾಯಾಧೀಶನು ಪ್ರಾಡ್ವಿವಾಕನು. "विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥"
L R Vaidya
EnglishIndian Epigraphical Glossary
Englishअभिधानचिन्तामणिः
Sanskritद्रष्टा तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ।
प्राड्विवाक (पुं), अक्षदर्शक (पुं)
अभिधानरत्नमाला
Sanskritप्राड्विवाक
प्राड्विवाक, अक्षदृश्, स्थेय
प्राड्विवाकोऽक्षदृक् स्थेयो न्यायोऽक्ष इति कथ्यते ।
verse 2.1.1.429
page 0049
शब्दकल्पद्रुमः
Sanskritप्राड्विवाकः, (पृच्छतीति प्राट् विविच्य वक्तीतिविवाकः । ततः कर्म्मधारयः ।) व्यवहारद्रष्टा ।जज् इति इङ्गरेजी भाषा । तत्पर्य्यायः । अक्ष-दर्शकः २ । इत्यमरः । २ । ८ । ५ ॥
व्यवहार-दर्शी ३ । इति शब्दरत्नावली ॥
द्वे व्यव-हाराणां ऋणादानादिविवादानां द्रष्टरि निर्णे-तरि धर्म्माध्यक्षे इत्यर्थः । पृच्छति वादिप्रति-वादिवाक्यं प्राट् ददृज्जुहूवाक् प्राडिति निपातः ।विविच्य वक्ति विवाकः कभावेऽमी इति घञ्प्राट् चासौ विवाकश्चेति प्राड्विवाकः ।“विवादानुगतं पृष्ट्वा पूर्व्ववाक्यं प्रयत्नतः ।विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥
”इति स्मृतिः । इति भरतः ॥
अपि च । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्तयोर्व्वचनं विरुद्धाविरुद्धञ्च सभ्यैः सह विवि-नक्ति विवेचयति वेति विवाकः प्राट् चासौविवाकश्चेति प्राड्विवाकः । उक्तञ्च ।“विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥
”इति मिताक्षरा ॥
वाचस्पत्यम्
Sanskritप्राड्वि(वा)वेक अर्थिप्रत्यर्थिनौ पृच्छति प्रच्छ--क्विप्प्राट्, तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति वक्तिवा वि + विच--वि + वच--वा संज्ञायां घञ् कर्म० । व्यव-हारदर्शनाय राजनियुक्ते १ विचारके स्वयं विचारक२ नृपसहाये च तल्ल्क्षणादिकं वीरमि० उक्तं यथा“विवादे पृच्छति पश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वंप्राग्वदति प्राड्विवाकस्ततः स्मृतः” वृहम्पतिः । व्यासो-ऽपि “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।विचारयति येनासौ प्राड्विवेकस्ततः स्मृतः” गौतमेनतु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य दर्शितः ।“प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्या-मुक्तं सभ्यैः सह विविच्य वक्तीतिप्राड्विवाकः” इतिवृहस्पतिना । विचारयतीत्यभिधानाद्विविनक्ति इति विवे-कशब्दस्य व्युत्पत्तिरुक्ता । विविच्य वक्तीति विवाक इति ।इति गौतमेन । नारदहारीतौ “यथा शल्यं भि-षक्कायादुद्धरेद्यत्नयुक्तितः । प्राड्विवाकस्तथा शल्य-मुद्धरेद्व्यवहारतः” इति । शल्यञ्च धर्मस्याधर्ममिश्र-णम् । यथा च मनुः “बिद्धो धर्मो ह्यधर्मेण सभांयत्रोपतिष्ठते । शल्यञ्चास्य निकृन्तन्ति विद्धास्तत्र सभा-सद” इति । अयञ्च राज्ञा स्वयंव्यवहारदर्शने क्रियमा-णेऽस्य सहयः “सप्राड्विवाकः” इति स्मरणात् । यदातु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयंव्यवहारदर्शनासमर्थस्तदा तत्प्रतिनिधिः । “यदा स्वयं-न कुर्य्यात् तु नृपतिः कार्य्यदर्शनम् । तदा मियुञ्ज्या-द्विद्वासं ब्राह्मणं कार्य्यदर्शने । सोऽस्य कार्य्याणि सम्प-श्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामा-सीनः स्थित एव सः” इति मनुवचनात् । सभ्यग्रहणा-दमात्यादिनिवृत्तिः त्रिग्रहणात् संख्यान्तरनिवृत्तिः । असभ्यानामिति स्मृतिचन्द्रिकाकारः । तत्र दृष्टार्थत्वप्रसङ्गादयुक्तमित्युपलक्षणत्वमेव न्याप्यम् । “अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु । सभ्यैः स ह नियोक्तव्यो ब्राह्मणः सर्व धर्मवित्” इति याज्ञवल्क्यवचनाच्च । “यदन कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम् । तथा तत्रनियुञ्जीत ब्राह्मणं शास्त्रपारगम् । दान्तं कुलीनंमध्यस्थमनुद्वेगकरं स्थिरम् । परत्रभीरुं धर्मिष्ठ-मुद्युक्तं क्रोधवर्जितम्” इति कात्यायनस्मरणाच्च ।शास्त्रपारगं बहुशास्त्राभियोगशालिनम् । यथा हस एव “एकं शास्त्रमधीयानो न विद्यात् कार्यनिर्णयम् ।तस्माद्बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः” । एवंविध-ब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत न शूद्रम् ।तथा च स एव “यत्र विप्रो न विद्वान् स्यात् क्षत्रिथं तत्रथोजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्”मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः ।धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन । यस्य राज्ञस्तुकुरुते शूद्रो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रंपङ्के गौरिव पश्यतः” । व्यासः “द्विजान् विहाय यापश्येत् कार्य्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राष्ट्रंबलं कोशश्च नश्यति” । इदं वचनं स्मृतिचन्द्रिकायाममा-त्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णयइत्येवंपरमुक्तम दोषातिशयकीर्त्तनात् । कल्पतर्वा-दिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन लि-खितम् । अयञ्च प्रतिषेधोऽदृष्टार्थ एव राष्ट्रक्षोभादे-रदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात् । चण्डेश्वरेण तु शू-द्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात् तत्-प्रतिसन्धानस्य च सम्यग्निर्णयोपायत्वात् त्याग इतियुक्तिरप्युक्ता । सा बणिगादिष्वतिप्रसक्तेत्यन्वाचयमात्रम् ।एते च सर्वे व्यवहारसम्बद्धाः प्रतिषेधा अभिषिक्तक्ष-त्रियाधिकारिकास्तत्स्थानापन्नान्याधिकारिकाश्च । प्राड्-विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः । सप्राड्-विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च ।“राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः । धर्मासनगतःपश्येद्व्यवहाराननुल्वणः” इति प्रजापतिवचनात् । अत्रराजशब्दोऽवयुत्यधिकारणन्यायेन क्षत्रियजातिवचनः ।अभिषेकसंयुक्त इति वचनात् मृत्यन्तरेऽप्यभिषिक्तक्षत्रियंप्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः ।अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव । प्राड्-विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्त-मित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभा-गिता । अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौव्यक्तम् । ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो नतुल्यकक्षाधिकारपरः । अनुस्त्वणोऽनुद्धतः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
