| YouTube Channel

प्राच्यः (prAcyaH)

 
Wordnet
Sanskrit
Synonyms:
प्राच्यः
noun
सामवेदे एकः विशेषः सूक्तप्रकारः
"हरिवंशे तथा भागवत-पुराणे प्राच्यः वर्णितः"
Synonyms:
प्राच्यः
noun
एकः पुरुषः
"बौद्धवाङ्मये प्राच्यः समुल्लिखितः"
वैजयन्तीकोषः
Sanskrit
Word: प्राच्यः
Root: प्राच्य
Gender: पुं
Number: all
अर्थः शरावत्याः_अवधेः_प्राग्दक्षिणदेशः
Meaning(s):
Name of the country south-east of Śarāvatī
Shloka(s):
3|1|22|1 प्राग्दक्षिणः शरावत्याः प्राच्योऽस्याः पश्चिमोत्तरः। (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
3|1|22|1 प्राच्यः (प्राच्य) (पुं) Name of the country south-east of Śarāvatī शरावत्याः_अवधेः_प्राग्दक्षिणदेशः
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
प्राच्यः,
पुं,
(प्राचि भवः प्राच् + “द्युप्रागपागु-दक्प्रतीचो यत् ।” १०१ इति यत् ।)शरावत्याः प्राग्दक्षिणदेशः इत्यमरः ।१
(पूर्व्वदिग्भवे, त्रि यथा मार्कण्देये ।५७ ४२ -- ४४ ।“--प्राच्यान् देशान् निबोध मे ।अध्रारका सुदकरा अन्तर्गिर्य्या वहिर्गिराः
यथा प्रवङ्गा वङ्गेया मालदा मालवर्त्तिकाः ।ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः
प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।मल्ला मगधगीमन्ताः प्राच्या जनपदाः स्मृताः
”)पूर्व्वदेशीये च, त्रि
(यथा, महाभारते ।८ ४५ २८ ।“प्राच्या दासा वृषला दाक्षिणात्याःस्तेना वाहीकाः सङ्करा वै सुराष्ट्राः
”)