| YouTube Channel

प्रवेकः (pravekaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रवेकः, त्रि, (प्रविच्यते पृथक् क्रियते इति ।प्र + विच् + कर्म्मणि घञ् ।) उत्तमः प्रधा-नम् इत्यमरः ५७
(यथा, भाग-वते ११ ।“श्यामावदाताः शतपत्रलोचनाःपिशङ्गवस्त्राः सुवचः सुपेशसः ।सर्व्वे चतुर्बाहव उन्मिषन्मणि-प्रवेकनिष्काभरणा सुवर्च्चसः
”)