प्रयागः (prayAgaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishप्रयागः [prayāgḥ], 1 A sacrifice.
of Indra.
A horse.
of a celebrated place of pilgrimage at the confluence of the Gaṅgā and Yamunā near the modern Allahabad
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः 2.21
(said to be also in this sense). -भयः an epithet of Indra.
Apte 1890
EnglishApte Hindi
Hindiप्रयागः
"पुं* , प्रा* ब*" - प्रकृष्टं यागफलं यत्र
यज्ञ
प्रयागः
"पुं* , प्रा* ब*" - प्रकृष्टं यागफलं यत्र
इन्द्र
प्रयागः
"पुं* , प्रा* ब*" - प्रकृष्टं यागफलं यत्र
घोड़ा
प्रयागः
"पुं* , प्रा* ब*" - प्रकृष्टं यागफलं यत्र
वर्तमान इलाहाबाद के पास गंगा यमुना के संगम पर बना प्रसिद्ध तीर्थस्थान
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit प्रयागः, प्रयागकः
भारतस्य एकं प्रसिद्धं तीर्थं यत् उत्तरप्रदेशे अस्ति।
"प्रयागे गङ्गायमुनासरस्वतीनां सङ्गमः भवति।"
प्रयागः
एकः पुरुषः ।
"प्रयागस्य उल्लेखः राजतरङ्गिण्यां वर्तते"
Tamil
Tamilப்ரயாக3: : யாகம், குதிரை, இந்திரன், திரிவேணி சங்கமம்.
शब्दकल्पद्रुमः
Sanskritप्रयागः, (प्रकृष्टो यागो यत्र । यत्र यज्ञः प्रकर्षेणभवतीत्यर्थः ।) तीर्थभेदः । (प्रकृष्टो यागः ।)यज्ञः । (प्रकृष्टा यागाः यज्ञा यस्य यस्माद्बा ।)इन्द्रः । अश्वः । इति मेदिनी । गे, ४१ ॥
* ॥
अथ प्रयागमाहात्म्यम् ।“ततो गच्छेत धर्म्मज्ञ ! प्रयागमृषिसम्मतम् ।यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा ।सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥
तथा नागाः सुपर्णाश्च सिद्धाश्च क्रतवस्तथा ।गन्धर्व्वाप्सरसश्चैव सरितः सागरास्तथा ॥
हरिश्च भगवानास्ते प्रजापतिभिरावृतः ।तत्र त्रीण्यग्निकुण्डानि तयोर्मध्ये तु जाह्रवी ॥
प्रयागात् समतिक्रान्ता सर्व्वतीर्थपुरस्कृता ।तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥
यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी ।गङ्गायमुनयोर्म्मध्ये पृथिव्या जघनं स्मृतम् ॥
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ।प्रयागं सप्रतिष्ठानं कम्बलाश्वतराबुभौ ॥
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ! ।तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो महामते !प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ।यजन्ते क्रतुभिर्द्देवास्तथा चक्रधराः सदा ॥
ततः पुण्यतमं नास्ति त्रिषु लोकेषु सूतज ! ।प्रयागं सर्व्वतीर्थेभ्यः प्रवदन्त्यधिकं द्विजाः ॥
श्रवणात् तस्य तीर्थस्य नामसङ्कीर्त्तनादपि ।मृत्तिकालभनाद्वापि सर्व्वपापैः प्रमुच्यते ॥
तत्राभिषेकं यः कुर्य्यात् सङ्गमे संशितव्रतः ।पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः ॥
एषा यजनभूमिर्हि देवानामपि सतकृता ।दत्तं तत्र स्वल्पमपि महद्भवति सूतज ! ॥
न वेदवचनात्तात ! न लोकवचनादपि ।मतिरुत्क्रमणं याति प्रयागमरणं प्रति ॥
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।तेषां सान्निध्यमत्रैव कीर्त्तितं सूतनन्दन ! ॥
यत् पुण्यं त्रिषु लोकेषु वेदविद्यासु यत् फलम् ।स्नातमात्रस्य तत् पुण्यं गङ्गायमुनसङ्गमे ॥
”इति पाद्मे भूमिखण्डे १२७ अध्यायः ॥
* ॥
अपि च ।“पुत्त्रकामः प्रयागे हि स्रायात् पुण्ये सितासिते ॥
धनकामः पुरा शक्रः स्नातो ह्यत्र द्बिजोत्तम ! ॥
धनदस्य निधीन् सर्व्वान् तस्माज्जहार मायया ।नारायणो नरेणैव वर्षाणामयुतं पुरा ॥
अनाहारः प्रयागेऽस्मिन् कृतवान् पुण्यमुत्तमम् ।सिद्धिञ्च साधका यान्ति प्रयागेऽस्मिन् द्विजो-त्तम ! ॥
”इति पाद्मोत्तरखण्डे २३ अध्यायः ॥
* ॥
अपि त्त ।युधिष्ठिर उवाच ।“भगवन् ! श्रोतुमिच्छामि प्रयागगमनं फलम् ।मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥
ये वसन्ति प्रयागे तु ब्रूहि तेषान्तु किं फलम् ।भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥
मार्कण्डेय उवाच ।कथयिष्यामि ते वत्स ! या चेष्टा यच्च तत्फलम् ।पृष्ट्वा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥
यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।यत्र ब्रह्मादयो देवा रक्षां कुर्व्वन्ति सङ्गताः ॥
बहून्यन्यानि तीर्थानि सर्व्वपापहराणि च ।कथितुं नेह शक्नोमि बहुवर्षशतैरपि ॥
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्त्तनम् ।षष्टिर्धन्विसहस्राणि यक्षा रक्षन्ति जाह्नवीम् ॥
यमुनां रक्षति सदा सविता सप्तिवाहनः ।प्रयागन्तु विशेषेण स्वयं रक्षति वासवः ॥
मण्डलं रक्षति हरिः सर्व्वदेवैश्च सम्मितम् ।न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ॥
स्थानं रक्षन्ति वै देवाः सर्व्वे पापहरं शुभम् ।स्वकर्म्मणावृता लोका नैव गच्छन्ति तत्पदम् ॥
स्वल्पमल्पतरं पापं यदा तस्य नराधिप ! ।प्रयागं स्मरमाणस्य सर्व्वमायाति संक्षयम् ॥
दर्शनात्तस्य तीर्थस्य नामसंकीर्त्तनादपि ।मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते ॥
पञ्चकुण्डानि राजेन्द्र ! येषां मध्ये तु जाह्नवी ।प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥
योजनानां सहस्रेषु गङ्गां यः स्मरते नरः ।अपि दुष्कृतकर्म्मासौ लभते परमां गतिम् ॥
कीर्त्तनाम्मुच्यते पापात् दृष्ट्वा भद्राणि पश्यति ॥
व्याधितो यदि वा हीनः क्रुद्धो वापि भवेन्नरः ।गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ॥
दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः ।ईप्सितान् लभते कामान् वदन्ति मुनिपुङ्गवाः ॥
सर्व्वरत्नमयैर्द्दिव्यैर्नानाध्वजसमाकुलैः ।वराङ्गनासमाकीर्णैर्मोदन्ते शुभलक्षणैः ॥
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥
तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्म्मा नरोत्तमः ।हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ।देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥
प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ।ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥
सर्व्वकामफला वृक्षा मही यत्र हिरण्मयी ।ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥
स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ।मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्म्मणा ॥
सिद्धचारणगन्धर्व्वैः पूज्यते दिवि दैवतैः ।अथ स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥
अतः शुभानि कर्म्माणि चिन्त्यमानः पुनः पुनः ।गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥
कर्म्मणा मनसा वाचा सत्यधर्म्मप्रतिष्ठितः ॥
गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रयच्छति ।सुवर्णमणिमुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥
स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ।निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते ॥
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥
कपिलां पाटलाभान्तु यस्तु घेनुं प्रयच्छति ।यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ! ।तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
”इति कौर्म्मे प्रयागमाहात्म्ये ३३ अध्यायः ॥
* ॥
तत्र मुण्डनविधिर्यथा, --“गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते ।आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥
”इति स्मृतिसमुच्चयलिखितवचनं प्रयागावच्छिन्न-गङ्गायां विधायकम् । भास्करक्षेत्रं प्रयागः ।अपि च । प्रयागमधिकृत्य ।“केशानां यावती संख्या छिन्नानां जाह्रवीजले ।तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
”प्रयागे स्त्रीणामपि मुण्डनं न तु केशानां द्व्यङ्गुल-च्छेदनमात्रम् । यथा, --“केशमूलमुपाश्रित्य सर्व्वपापानि देहिनाम् ।तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥
”प्रयागे मुण्डनाकरणे दोषोऽपि ।“गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् ।स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥
”इति प्रायश्चित्ततत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
