| YouTube Channel

प्रमेहः (pramehaH)

 
Apte
English
प्रमेहः [pramēhḥ], A general name for a urinary disease (such as gleet, diabetes
&c.
)
आस्यामुखं स्वप्नसुखं दधीनि ग्राम्यौदना- नूपरसः पयांसि नवान्नपानं गुडवैकृतं प्रमेहहेतुः कफकृच्च सर्वम् Bhāva.
P.
Apte 1890
English
प्रमेहः A general name for a urinary disease (such as gleet, diabetes &c).
Apte Hindi
Hindi
प्रमेहः
पुं*
- प्र+मिह्+घञ्
एक प्रकार का मूत्र रोग
Wordnet
Sanskrit
Synonyms:
प्रमेहः, मेहः, मूत्रदोषः
noun
रोगविशेषः, प्रकर्षेण क्षरति वीर्यादिरनेन।
"प्रमेहो मानवं हन्ति"
Synonyms:
प्रमेहः, इक्षुमेहः, बहुमूत्रमेहः, बहुमूत्ररोगः
noun
रोगविशेषः- यस्मिन् मूत्रादि प्रकर्षेण मेहति तथा तेन सह शर्करायाः किञ्चित् अंशः अपि क्षरति।
"यः प्रमेहेन पीडितः तेन शर्करा भक्षणीया।"
शब्दकल्पद्रुमः
Sanskrit
प्रमेहः,
पुं,
(प्रकर्षेण मेहति क्षरति वीर्य्यादिरने-नेति प्र + मिह क्षरणे + करणे घञ् ।)रोगविशेषः तत्पर्य्यायः मेहः मूत्रदोषः ।इति राजनिर्घण्टः
बहुमूत्रता इतिहेमचन्द्रः १३४
अस्य निदानम् ।“आस्यासुखं खप्नसुखं दधीनिग्राम्यौदकानूपरसाः पयांसि ।नवान्नपानं गुडवैकृतञ्चप्रमेहहेतुः कफकृच्च सर्व्वम्
*
अस्य सम्प्राप्तिर्यथा, --“मेदश्च मांसञ्च शरीरजञ्चक्लेदं कफो वस्तिगतः प्रदूष्य ।करोति मेहान् समुदीर्णमुष्णै-स्तानेव पित्तं परिदूष्य चापि
*
वातिकस्य तस्य लक्षणम् ।“क्षीणेषु दोषेष्ववकृष्य धातून्सन्दूष्य मेहान् कुरुतेऽनिलश्च
*
तस्य कफजादिभेदेन साध्यादिलक्षणम् यथा, “साध्याः कफोत्था दश पित्तजाः षट्याप्या साध्याः पवनाच्चतुष्काः ।समक्रियत्वाद्विषमक्रियत्वा-न्महात्ययत्वाच्च यथाक्रमन्ते
कफः सपित्तः पवनश्च दोषामेदोऽस्रशुक्राम्बुवसालसीकाः ।मज्जा रसौजः पिशितञ्च दूष्याःप्रमेहिणां विंशतिरेव मेहाः
*
तस्य पूर्व्वरूपम् ।“दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः ।दाहश्चिक्कणता देहे तृट् स्वाद्बास्यञ्च जायते
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता ।दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ।मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते
*
क्रमेण कफजानां दशानां लक्षणानि ।“अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ।मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम्
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ।सान्द्री भवेत् पर्य्युषितं सान्द्रमेहेन मेहति
सुरामेही सुरातुल्यमुपर्य्यच्छमधोघनम् ।संहृष्टलोमा पिष्टेन पिष्टवद्बहुलं सितम्
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ।मूर्त्ताणून् सिकतामेही सिकतारूपिणो मलान्
शीतमेही सुबहुशो मधुरं भृशशीतलम् ।शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्
”क्रमेण पित्तजानां षण्णां लक्षणानि ।“गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत्
नीलमेहेन नीलाभं कालमेही मसीनिभम् ।हारिद्रमेही कटुकं हरिद्रासन्निभं दहत्
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ।विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः
*
क्रमेण वातजानां चतुर्णां लक्षणानि ।“वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ।मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः
कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ।हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्ज्जितम् ।सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति
*
कफजादिभेदेन तेषामुपद्रवाः ।“अविपाकोऽरुचिच्छर्द्विर्निद्रानाशः सपीनसः ।उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्
वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः ।दाहस्तृष्णाम्लिका मूर्च्छा विड्भेदाः पित्तजन्म-नाम्
वातजानामुदावर्त्तः कम्पहृद्ग्रहलोलताः ।शूलमुन्निद्रता शोषः कासः श्वासश्च जायते
”अरिष्टलक्षणम् ।“यथोक्तोपद्रवारिष्टमतिप्रस्रुतमेव ।पिडकापीडितं गाढं प्रमेहो हन्ति मानवम्
जातः प्रमेही मधुमेहिनो वान साध्यरोगः हि बीजदोषात् ।ये चापि केचित् कुलजा विकाराभवन्ति तांश्च प्रवदन्त्यसाध्यान्
*
सर्व्व एव प्रमेहास्तु कालेनाप्रतिकारिणः ।मधुमेहत्वमायान्ति तदासाध्या मवन्ति हि
मधुमेहे मधुसमं जायते किल द्विधा ।क्रुद्धे धातुक्षयाद्बायौ दोषावृतपथेऽथवा
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् ।क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्यताम्
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ।सर्व्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः
*
प्रमेहिणो यदा मूत्रमनाविलमपिच्छलम् ।विषदं तिक्तकटुकं तदारोग्यं प्रचक्षते
”इति माघवकरः
अस्य दशविधपिडकाः पिडकाशब्दे द्रष्टव्याः
अथ प्रमेहस्य चिकित्सा ।“श्यामाककोद्रवोद्दाला गोधूमचणकावटी ।कुलत्थाः कथिता भोज्ये पुराणा मेहिनां हिताः
यवान्नविकृतिर्मुद्राः शालयः षष्ठिकास्तथा ।तथा तिक्तानि शाकानि जाङ्गलाः पक्षिणोमृगाः
उद्दालो वनकोद्रवः
*
प्रमेही गुडदुग्धान्यतैलतक्रसुराः सदा ।अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्ज्जयेत्
*
मुस्ताहरीतकीलोध्रः कट्फलेन कृतं सृतम् ।पीतं मधुयुतं हन्ति प्रमेहं कफहेतुकम्
*
पटोलनिम्बामलकामृतानांपिबेत् कषायं मधुना समेतम् ।उशीरलोध्रार्ज्जुनचन्दनानांतथा पिबेत् पित्तनिमित्तमेही
*
पाठाशिरीषदुःस्पर्शाजातितिन्दुककिंशुकैः ।कपित्थस्य भिषक् क्वाथं हस्तिमेहे प्रयोजयेत्
पाठादिभिः सहितस्य कपित्थस्य क्वाथम् ।गुडूच्याः स्वरसः पेयो मधुना सर्व्वमेहजित् ।हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समाक्षिकः
मधुना त्रैफलं चूर्णमथवाश्मजतूद्भवम् ।लोहजं वाभयोत्थं वा लिह्यान्मेहनिवृत्तये
*
चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः ।हरिद्रातिविषा दार्व्वी पिप्पलीमूलचित्रकम्
त्रिवृद्दन्ती पत्रकञ्च त्वगेला वंशलोचना ।प्रत्येकं कर्षमात्राणि कुर्य्यादेतानि बुद्धिमान्
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली ।सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम्
एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् ।द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत्
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः ।विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा
चन्द्रप्रभातिविख्याता सर्व्वरोगप्रणाशिनी ।निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा
चतस्रश्चाश्मरीस्तद्वन्मूत्राघातांस्त्रयोदश ।अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम्
कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् ।वातपित्तकफव्याधीन् बल्या वृष्या रसायनी
समाराध्य शिवं तस्मात् प्रयत्नाद्गुटिकामिमाम् ।प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता
चन्द्रप्रभाकचूर इति लोके व्योषं त्रिकटु द्वौक्षारौ सर्जिकायवक्षारौ लवणत्रयम् सैन्धवंरुचकञ्चापि विडञ्च लवणत्रयमिति चन्द्र-प्रभादिर्वटिका
*
प्रमेहपिडकानां प्राक् कार्य्यं रक्तविमोचनम् ।पाटनञ्च विपक्वानां ततो व्रणविधिः स्मृतः
”इति भावप्रकाशः
(अस्य सकारणपूर्व्वरूपसम्प्राप्तयस्तथोपद्रवश्च ।यथा, --“त्रिदोषकोपननिमित्ता विंशतिप्रमेहविकारा-श्चापरेऽपरिसङ्ख्येयाः तत्र यथा त्रिदोषप्रकोप-प्रमेहानभिनिर्वर्त्तयति तथानुव्याख्यास्यामः ।इह खलु निदानदोषदूष्यविशेषेभ्यो विकाराणांविघातभावाभावप्रतिविशेषा भवन्ति यदाह्येते त्रयो निदानादिविशेषाः परस्परं नानु-वध्नन्त्ययथाप्रकर्षादबलीयांसो वानुबध्रन्ति नतदा विकाराभिनिर्वृत्तिः चिराद्वाप्यभिनिर्व-र्त्तन्ते तनवो भवन्त्यथवाप्ययथोक्तसर्व्वलिङ्गाविपर्य्ययेण विपरीता इति सर्व्वविकारविघात-भावाभावप्रतिविशेषाभिनिर्वृर्त्तिहेतुरुक्तः ।तत्र इमे निदानादि विशेषाः श्लेष्मनिमित्तानांप्रमेहाणामाश्वमिनिवृत्तिकरास्तद्यथा हाय-नकयवचीनकोद्दालकनैषधोत्कटमुकुन्दक महा-व्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमति-प्रमाणेनोपयोगः तथा सर्पिष्मतां नवहरेणु-माषसूपानां ग्राम्यानूपौदकानां मांसानां शाक-तिलपललपिष्टान्नपायसकृशरविलेपीक्षुविका-राणां क्षीरमन्दकदधिद्रवमधुरतरुणप्रायाणा-मुपयोगो मृजाव्यायामवर्ज्जनस्वप्नशयनासन-प्रसङ्गो यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेहोमूत्रसञ्जननः सर्व्वः सनिदानविशेषः ।बहुद्रवश्लेष्मा दोषविशेषः बहुबन्धं मेदः मांसञ्चशरीरक्लेदः शुक्रं शोणितञ्च वसामज्जालसीकारसश्चौजः सङ्ख्याता इति दूष्यविशेषाः ।त्रयाणामेषां निदानादिविशेषाणां सन्निपातेक्षिप्रं श्लेष्माप्रकोपमापद्यते प्रागतिभूयस्त्वात् ।स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते ।शरीरशैथिल्यात् विसर्पं शरीरे मेदसैवा-दितो मिश्रीभावं गच्छति मेदसश्चैव बहु-बन्धत्वान्मेदसश्च गुणानां गुणैः समानगुणभूयि-ष्ठत्वात् मेदसा मिश्रीभावं गच्छन् दूषयत्येत-द्विकृतत्वात् घिकृतो दुष्टेन मेदसोपहितःशरीरक्लेदमांसाभ्यां संसर्गं गच्छति क्लेद-मांसयोरतिप्रमाणाभिवृद्धित्वात् मांसे मांस-प्रदोषात् पूतिमांसपिडकाः शराविका कच्छपि-काद्याः सञ्जनयत्यप्रकृतिभूतत्वात् शरीरक्लेदंपुनर्दूषयन् मूत्रत्वेन परिणमयति मूत्रवहानांस्रोतसां वङ्क्षणवस्तिप्रभवानां मेदःक्लेदोपहि-तानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते ततःस्थैर्य्यं साध्यतां वा जनयति प्रकृतिविकृति-भूतत्वात् ।शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयेमूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुप-सृज्यते वैषम्यहानिवृद्धियुक्तैस्तद्यथा श्वेतशीतमूर्त्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमर्द्दै-स्तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुप-सृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति ।ते तु खल्विमे दशप्रमेहा नाम विशेषेणभवन्ति तथा उदकमेहश्चेक्षुरालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्र-मेहश्च शीतमेहश्च सिकतामेहश्च शनैर्मेहश्चलालामेहश्चेति ।ते दशप्रमेहाः साध्याः समानगुणमेदःस्थानत्वात्कफस्य प्रधान्यात् समानक्रियत्वाच्च ।”“उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेवि-नस्तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमा-हारोपसेविनश्च तषात्मकशरीरस्यैव क्षिप्रंपित्तं प्रकोपमापव्यते ।तत् प्रकुपितं तत्रैवानुपूर्व्व्या प्रमेहानिमान् षट्क्षिप्रमभिनिर्वर्त्तयति तेषामपि पित्तगुण-विशेषेण नामविशेषाः तद्यथा, -- क्षारप्रमेहश्चकालमेहश्च नीलमेहश्च लोहितमेहश्च मज्जिष्ठा-मेहश्च हारिब्रमेहश्चेति ते षड्भिरेव क्षाराम्ल-लवणकटुकविम्रोष्णैः पित्तगुणैः पूर्व्ववत् सम-न्विताः सर्व्व एव ते याप्याः संसृष्टदोषमेदः-स्थानत्वात् विरुद्धोपक्रमत्वाच्चेति ।”“कटुककषायतिक्तरुक्षलघुशीतव्यवायव्यायाम-वमन-विरेचनास्थापन-शिरोविरेचनातियोग-सन्धारणानशनाभिघातातपोद्वेगशोकशोणिता-तिसेकजागरणविषमशरीरन्यासानुपसेवमानस्यतथात्मकशरीरस्यैव क्षिप्रं वायुः प्रकोपमाप-द्यते प्रकुपितस्तथात्मके शरीरे विसर्पन्यदा वसामादाय मूत्रवहानि स्रोतांसि प्रति-पद्यते तदा वसामेहमभिनिर्वर्त्तयति
*
यदा पुनर्मज्जानं मूत्रवस्तावाकर्षति तदा मज्ज-मेहमभिनिर्वर्त्तयति
*
यदा लसीकां मूत्रा-शयेऽभिवहन् मूत्रमनुबध्नंश्च्योतयति लसी-कातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्याति-मूत्रप्रवृत्तिसङ्गं करोति तदा मत्त इवगजः क्षरत्यजस्रं मूत्रमवेगं तं हस्तिमेहिनमा-चक्षते
*
ओजः पुनर्मधुरस्वभावं तद्रौ-क्ष्वाद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभि-वहति तदा मधुमेहं करोति
*
तानिमांश्चतुरः प्रमेहान् वातजानसाध्याना-चक्षते महात्ययिकत्वाद्विप्रतिषिद्धोपक्रमत्वात्तेषामपि पूर्व्ववत् गुणविशेषेण नामविशेषाः ।तद्यथा, -- वसामेहश्च मज्जमेहश्च हस्तिमेहश्चमधुमेहश्चेति ।”“त्रयस्तु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्त्तयि-ष्यन्त इमानि पूर्व्वरूपाणि दर्शयन्ति तद्-यथा, -- जटिलीभावं केशेषु माधुर्य्यमास्ये कर-पादयोः सुप्ततां दाहः मुखतालुकण्ठशोषंपिपासामालस्यं मलञ्च काये कायच्छिद्रेषूपदेहंपरिदाहं सुप्ततां चाङ्गेषु षट्पदपिपीलिकाभिःशरीरमूत्राभिसरणं मूत्रे मूत्रदोषान्वितंशरीरगन्धं निद्रां तन्द्राञ्च सर्व्वकालमिति ।उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वर-दाहदौर्ब्बल्यारोचकाविपाकाः पूतिमांसपिडकाअलजीविद्रध्यादयश्च तत् प्रसङ्गाद्भवन्ति ।तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्ह-मुपपादयेच्चिकित्सेदिति ।” इति चरके निदान-स्थाने चतुर्थेऽध्याये
)