| YouTube Channel

प्रबालः (prabAlaH)

 
Apte 1890
English
प्रबा(वा)लः
लं 1 A sprout, shoot, new leaf
अपि… प्रवालमासामनुबंधि बीरुधां Ku. 5. 34
1. 44
3. 8
R. 6. 12
13. 49.
2 Coral.
3 The neck of the Indian lute.
लः 1 A pupil.
2 An animal.
Comp.
अश्मंतकः {1} the red Aśmantaka tree. {2} the coral tree.
पद्मं a red lotus.
फलं red sandal-wood.
भस्मन् n. calx of coral.
Apte Hindi
Hindi
प्रबालः
पुं*
- प्र+बल्+णिच्+अच्
"कोंपल, अंकुर, किसलय "
प्रबालः
पुं*
- प्र+बल्+णिच्+अच्
मूँगा
प्रबालः
पुं*
- प्र+बल्+णिच्+अच्
वीणा की गरदन
प्रबालः
पुं*
- प्र+बल्+णिच्+अच्
शिष्य
प्रबालः
पुं*
- प्र+बल्+णिच्+अच्
जन्तु
Wordnet
Sanskrit
Synonyms:
प्रवालः, प्रबालः, विद्रुमः, प्रवालम्, रत्नवृक्षः, मन्दटः, मन्दारः, रक्तकन्दः, रक्तकन्दलः, हेमकन्दलः, रत्नकन्दलः, लतामणिः, अङ्गारकमणिः, माहेयः, पारिजातः, पारिभद्रः, क्रिमिशत्रुः, भौमरत्नम्, भोमीराः, सुपुष्पः, रक्तपुष्पकः
noun
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
"गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्"
शब्दकल्पद्रुमः
Sanskrit
प्रबालः,
पुं,
क्ली,
(प्रबलतीति प्र + बल् प्राणने +“ज्वलितिकसन्तेभ्यो णः ।” १४० ।इति णः यद्वा, प्र + बल् + णिच् + अच् ।)रक्तवर्णवर्त्तुलाकाररत्नविशेषः पला इतिमुङ्गा इति भाषा
तस्याधिष्ठात्री देवतामङ्गलः इति ज्योतिषम्
तत्पर्य्यायः विद्रुमः२ इत्यमरः ९३
अङ्गारकमणिः ३अम्भोधिवल्लभः भौमरत्नम् रक्ताङ्गः रक्ता-कारः लतामणिः अस्य गुणाः मधु-रत्वम् अम्लत्वम् कफपित्तादिदोषनाशित्वम् ।स्त्रीणां वीर्य्यकान्तिकरत्वम् धृते मङ्गलदायि-त्वञ्च इति राजनिर्घण्टः
*
अपि ।सारकत्वम् शीतत्वम् कषायत्वम् स्वादु-त्वम् वान्तिकारित्वम् चक्षुर्हितत्वम् धारणेपापालक्ष्मीनाशित्वञ्च
इति राजवल्लभः
*
तस्य शुभलक्षणं यथा, --“शुद्धं दृढं घनं वृत्तं स्निग्धं गात्रसुरङ्गकम् ।समं गुरु सिराहीनं प्रबालं धारयेत् शुभम्
”तस्याशुभलक्षणं यथा, --“गौरं रङ्गजलाक्रान्तं वक्रसूक्ष्मं सकोटरम् ।रूक्षकृष्णं लघु श्वेतं प्रबालमशुभं त्यजेत्
”इति राजनिर्घण्टः
*
तस्योत्पत्त्यादि यथा, --सूत उवाच ।“आदाय शेषस्तस्यान्त्रं यमस्याकम्बलादिषु ।चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः
तत्र प्रधानं शशलोहिताभंगुञ्जाजवापुष्पनिभं प्रदिष्टम् ।सनीसकं देवकरोमकञ्चस्थानानि तेषु प्रभवं सुरागम्
अन्यत्र जातञ्च तत् प्रधानंमूल्यं भवेच्छिल्पिविशेषयोगात्
प्रसन्नं कमलं स्निग्धं सुरागं विद्रुमं हि तत् ।धनधान्यकरं लोके विषार्त्तिभयनाशनम्
परीक्षा पुलकस्योक्ता रुधिराख्यस्य वै मणेः ।स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक !
”इति गारुडे ८० अध्यायः
*
अथ विद्रुमपरीक्षा ।“श्वेतसागरमध्ये तु जायते वल्लरी तु या ।विद्रुमा नाम रत्नाख्या दुर्ल्लभा वज्ररूपिणी
पाषाणं प्रभजत्येषा प्रयत्नात् क्वथिता सती ।विद्रुमं नाम यद्रत्नमामनन्ति मनीषिणः
*
ब्रह्मादिजातिभेदेज तच्चतुर्व्विधमुच्यते ।अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव ।प्रबालं विप्रजातिः स्यात् सुखवंध्यं मनोरमम्
जवाबन्धूकसिन्दूरदाडिमीकुसुमप्रभम् ।कठिनं दुर्व्वेध्यमस्निग्धं क्षत्त्रजातिं तदुच्यते
पलाशकुसुमाभासं तथा पाटलसन्निभम् ।वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिभम्
रक्तोत्पलदलाकारं कठिनं चिरद्युति ।विद्रुमं शूद्रजातिः स्याद्वायुवेध्यं तथैव
*
रक्तता स्निग्धता दार्य्यं चिरद्युतिः सुवर्णता ।प्रबालानां गुणाः प्रोक्ता धनधान्यकराः पराः
हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् ।तत्र लिप्तो भवेन्निम्बकल्कोऽतिमधुरः स्थितः ।तस्य धारणमात्रेण विषवेगः प्रशाम्यति
*
विवर्णता तु खरता प्रबाले दूषणद्वयम् ।रेखाकाकपदौ बिन्दुर्यथा वज्रेषु दोषकृत् ।तथा प्रबाले सर्व्वत्र वर्जनीयं विचक्षणैः
रेखा हन्याद्यशो लक्ष्मीमावर्त्तः कुलनाशनः ।पट्टलो रोगकृत् ख्यातो बिन्दुर्धनविनाशकृत्
त्रासः संजनयेत्त्रासं नीलिका मृत्युकारिणी ।मूल्यं शुद्धप्रबालस्य रूप्यद्विगुणमुच्यते
धारणेऽस्यापि नियमो जातिभेदेन पूर्व्ववत्
*
तथाहि ।“विरूपजातिं विषमं विवर्णंखरप्रबालं प्रवहन्ति ये ये ।ते मृत्युमेवात्मनि वै वहन्तिसत्यं वदत्येष कृती मुनीन्द्रः
”इति युक्तिकल्पतरौ प्रबालपरीक्षा
*
(अस्य संशोधनादिकं यथा, --“कुमार्य्या तण्डुलीयेन तुल्येन निषेचयेत् ।प्रत्येकं सप्तवारांश्च तप्ततप्तानि कृत्स्नशः
मौक्तिकानि प्रबालानि तथा रत्नान्यशेषतः ।क्षणाद्विविधवर्णानि म्रिथन्ते नात्र संशयः
श्रीदुग्धेन प्रवालञ्च भावयित्वा तु हण्डिके ।मध्येऽपि तक्रसहितं स्थापयेत्तन्निरोधयेत् ।चुल्ल्यामग्निप्रतापेन म्रियते प्रहरद्वये
इति प्रबालमारणम्
”इति वैद्यकरसेन्द्रसंग्रहे जारणमारणाधिकारे
)किशलयः (यथा, कुमारे ४४ ।“पुष्पं प्रबालोपहितं यदि स्यात्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।ततोऽनुकुर्य्याद्विशदस्य तस्या-स्ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य
”)वीणादण्डः इति मेदिनी ले, १०७