| YouTube Channel

प्रतिमः (pratimaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रतिमः, त्रि, (प्रतिमातीति प्रति + मा + “आत-श्चोपसर्गे ।” १३६ इति कः ।)उत्तरपदस्थे सदृशवाचकः यथा, --“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः
”इति हेमचन्द्रः
(यथा, रामायणे ४० १३ ।“आयसं हृदयं नूनं राममातुरसंशयम् ।यद्देवगर्भप्रतिमे वनं याति भिद्यते
”)