| YouTube Channel

प्रणवः (praNavaH)

 
Apte
English
प्रणवः [praṇavḥ], 1 The sacred syllable om
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसांमिव
R.*
1.11
Ms.*
2.74
Ku.*
2.12
प्रणवः सवेदेषु
Bg.*
7.8
तस्य वाचकः प्रणवः, Pātañjala
S.*
27
प्राणदः प्रणवः प्रभुः Viṣṇu Sahasranāma.
A kind of musical instrument (drum or tabor).
An epithet of Viṣṇu or the Supreme Being.
Apte 1890
English
प्रणवः 1 The sacred syllable om.
आसन्मिहीक्षितामाद्यः प्रणवश्छंदसामिव R. 1. 11
Ms. 2. 74
Ku. 2. 12
Bg. 7. 8.
2 A kind of musical instrument (drum or tabor).
3 An epithet of Viṣṇu or the Supreme Being.
Hindi
Hindi
तीन एक U-मीटर पत्र
Apte Hindi
Hindi
प्रणवः
पुं*
- "प्र+नू+अप्, णत्वम्"
पवित्र अक्षर
प्रणवः
पुं*
- "प्र+नू+अप्, णत्वम्"
एक प्रकार का वाद्ययंत्र
प्रणवः
पुं*
- "प्र+नू+अप्, णत्वम्"
विष्णु या परमपुरुष परमात्मा का विशेषण
Tamil
Tamil
ப்ரணவ: : ஓம் என்னும் பிரணவம்.
शब्दकल्पद्रुमः
Sanskrit
प्रणवः,
पुं,
(प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्ट-देवता वानेनेति प्र + णुल स्तुतौ + “ऋदो-रप् ।” ५७ इति अप् “उपसर्गा-दसमासेऽपि णोपदेशस्य ।” १४ इतिणत्वम् यद्वा, ब्रह्मविष्णुमहेशरूपत्वात् प्रण-म्यते इति प्र + णम + कर्म्मणि घञ् संज्ञा-पूर्व्वकत्वात् वृद्ध्यभावः पृषोदरादित्वात् मस्यवः ।) ओँकारः इत्यमरः
तस्य पर्य्यायो यथा, --“ओँकारः प्रणवस्तारो वेदादिर्व्वर्त्तुलो ध्रुवः ।त्रैगुण्यं त्रिगुणो ब्रह्म सत्यो मन्त्रादिरव्ययः
ब्रह्मबीजं त्रितत्त्वञ्च पञ्चरश्मिस्त्रिदैवतः
”इति बीजवर्णाभिधानम्
अपि ।“ओँकारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम्
सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः
आदिबीजं वेदसारो वेदबीजमतः परम् ।पञ्चरश्मिस्त्रिकूटे त्रिभवे भवनाशनः
गायत्त्री बीजपञ्चांशौ मन्त्रविद्याप्रसूः पभुः ।अक्षरं मातृकासूश्चानादिदैवतमोक्षदौ
”इति तन्त्रम्
*
(यथा, महानिर्व्वाणतन्त्रे ३२ ।“अकारेण जगत्पाता संहर्त्ता स्यादुकारतः ।मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः
”यथा ।“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः ।मकारेणोच्यते ब्रह्मा प्रणवेण त्रयो मताः
”वेदस्याध्ययनारम्भे अध्ययनसमाप्तौ ब्राह्म-णस्य ओँकारोच्चारकर्त्तव्यत्वमुक्तं यथा मनौ ।२ ७४ ।“ब्राह्मणः प्रणवं कुर्य्यादादावन्ते सर्व्वदा ।स्रवत्यनोङ्कृतं पूर्व्वं परस्ताच्च विशीर्य्यते
”)अस्योद्धारक्रमो यथा, --“एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् ।रोहिणीतनयो रामः अकाराक्षरसम्भवः
तैजसात्मकप्रद्युम्न उकाराक्षरसम्भवः ।प्रज्ञात्मको निरुद्धो वै मकाराक्षरसम्भवः ।अर्द्धमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठि-तम्
”इति गोपालतापनीयोपनिषत्
*
माङ्गलिकः यथा, --“ओँकारश्चाथ शब्दश्च द्वावेतौ ब्राह्मणः पुरा ।कण्ठं भित्त्वा विनिर्ज्जातौ तेन माङ्गलिकावुभौ
”इति मुग्धबोधटीकायां दुर्गादासः
*
अस्य माहात्म्यं यथा, --“विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् ।यत्प्राप्तये महापुण्यमोमित्ये काक्षरं जपेत्
तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् ।अकारश्च तथोकारो मकारश्चाक्षरत्रयम्
एतास्तिस्रः स्मृता मात्राः सात्वराजसतामसाः ।निर्गुणा योगिगम्यान्या अर्द्धमात्रा तु सा स्मृता
गान्धारीति विज्ञेया गान्धारस्वरसंश्रया ।पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्द्ध्नि लक्ष्यते
यदा प्रयुक्त ओँकारः प्रतिनिर्य्याति मूर्द्धनि ।तदोङ्कारमयो योगी अक्षरे त्वक्षरो भवेत्
प्राणो धनुः शरश्चात्मा ब्रह्म वेध्यमुदाहृतम् ।अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्
ओमित्येते त्रयो देवास्त्रयो लोकास्त्रयोऽग्नयः ।विष्णुक्रमास्त्रयश्चैव ऋक्सामानि यजूंषि
मात्राश्चार्द्धञ्चतस्रस्तु विज्ञेयाः परमार्थतः ।तत्र युक्तश्च यो योगी तल्लयमवाप्नुयात्
अकारस्तत्र भूर्लोक उकारश्चोच्यते भुवः ।सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते
व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिका ।मात्रा तृतीया चिच्छक्तिरर्द्धमात्रा परं पदम्
अनेनैव क्रमेणैता विज्ञेया योगभूमयः ।ओमित्युच्चारणात् सर्व्वं गृहीतं सदसद्भवेत्
ह्रस्वा तु प्रथमा मात्रा द्बितीया दीर्घसंयुता ।तृतीया तु प्लुतार्द्धाख्या वचसः सात्त्वगोचरे
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ।यस्तं वेद नरः सम्यक् तथा ध्यायति वा पुनः
संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः ।प्राप्नोति ब्रह्मनिलयं परमं परमात्मनि
अक्षीणकर्म्मवन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।ज्ञेयान्यरिष्टानि सदा येनोत्क्रान्तौ नसीदति
”इति श्रीमार्कण्डेयपुराणे ओँकारमाहात्म्यम्
*
“यन्न्यूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् ।यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् ।तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविकलं भवेत्
”इति तिथ्यादितत्त्वम्
*
“ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।यः प्रयाति त्यजन् देहं याति परमां गतिम्
”इति श्रीभगवद्गीतायाम् १३