| YouTube Channel

प्रचित्य (pracitya)

 
Kridanta Forms
Sanskrit
चित् (चि꣡तीँ꣡ सञ्ज्ञाने - भ्वादिः - सेट्)
ल्युट् = चेतनम्
अनीयर् = चेतनीयः - चेतनीया
ण्वुल् = चेतकः - चेतिका
तुमुँन् = चेतितुम्
तव्य = चेतितव्यः - चेतितव्या
तृच् = चेतिता - चेतित्री
क्त्वा = चेतित्वा / चितित्वा
ल्यप् = प्रचित्य
क्तवतुँ = चित्तवान् - चित्तवती
क्त = चित्तः - चित्ता
शतृँ = चेतन् - चेतन्ती
चि (चि॒ञ् चयने - स्वादिः - अनिट्)
ल्युट् = चयनम्
अनीयर् = चयनीयः - चयनीया
ण्वुल् = चायकः - चायिका
तुमुँन् = चेतुम्
तव्य = चेतव्यः - चेतव्या
तृच् = चेता - चेत्री
क्त्वा = चित्वा
ल्यप् = प्रचित्य
क्तवतुँ = चितवान् - चितवती
क्त = चितः - चिता
शतृँ = चिन्वन् - चिन्वती
शानच् = चिन्वानः - चिन्वाना
चि (चि꣡ भाषार्थः - चुरादिः - सेट्)
ल्युट् = चायनम् / चयनम्
अनीयर् = चायनीयः / चयनीयः - चायनीया / चयनीया
ण्वुल् = चायकः - चायिका
तुमुँन् = चाययितुम् / चयितुम्
तव्य = चाययितव्यः / चयितव्यः - चाययितव्या / चयितव्या
तृच् = चाययिता / चयिता - चाययित्री / चयित्री
क्त्वा = चाययित्वा / चयित्वा
ल्यप् = प्रचाय्य / प्रचित्य
क्तवतुँ = चायितवान् / चियितवान् - चायितवती / चियितवती
क्त = चायितः / चियितः - चायिता / चियिता
शतृँ = चाययन् / चयन् - चाययन्ती / चयन्ती
शानच् = चाययमानः / चयमानः - चाययमाना / चयमाना
कृदन्तरूपमाला
Sanskrit
1 {@“चिञ् चयने”@} 2 ज्ञापादिः मित्संज्ञकश्च।
3 अस्य धातोः ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वं बोध्यते।
णिजभावपक्षेऽपि शतृ-शानचौ भवतः ञित्करणात्।
णिजभावपक्षे धातोः हलादित्वात् एकाच्त्वाच्च यङि--चेचीयकः इत्यादीनि सर्वाण्यपि रूपाणि स्वादिगणपठितचिनोतेरिव 4 बोध्यानि।
तथा सन्नन्तेऽपि चिचीषकः-षिका, चिकीषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि ज्ञेयानि।]] 5 चपकः-पिका, चयकः-यिका, चिचपयिषकः-चिचययिषकः-षिका, 6 चायकः-यिका
चपयिता-चययिता-त्री, चिचपयिषिता-चिचययिषिता-त्री, चेता-त्रीः
7 प्रणिचपयन्-प्रनिचययन्-न्ती, चिचपयिषन्-चिचययिषन्-न्ती, चयन्-न्ती
चपयिष्यन्-चययिष्यन्-न्ती-ती, चिचपयिषिष्यन्-चिचययिषिष्यन्-न्ती-ती, चेष्यन्-न्ती-ती
चपयमानः-चययमानः, चिचपयिषमाणः-चिचययिषमाणः, चयमानः
चपयिष्यमाणः-चययिष्यमाणः, चिचपयिषिष्यमाणः-चिचययिषिष्यमाणः, चेष्यमाणः
8 विचत्-विचतौ-विचतः, चप्-चपौ-चपः
चपितः-चयितः, चिचपयिषितः-चिचययिषितः, चितम्-तः-तवान्
चपः-चयः, चिचपयिषुः-चिचययिषुः, चयः
चपयितव्यम्-चययितव्यम्, चिचपयिषितव्यम्-चिचययिषितव्यम्, चेतव्यम्
चपनीयम्-चयनीयम्, चिचपयिषणीयम्-चिचययिषणीयम्, चयनीयम्
9 चप्यम्-चय्यम्, चिचपयिष्यम्-चिचययिष्यम्, चेयम्
ईषच्चयः-दुश्चयः-सुचयः, ईषच्चपः-दुश्चपः-सुचपः
चप्यमानः-चय्यमानः, चिचपयिष्यमाणः-चिचययिष्यमाणः चीयमानः
चपः-चयः, चिचपयिषः-चिचययिषः, चयः
चपयितुम्-चययितुम्, चिचपयिषितुम्-चिचययिषितुम्, चेतुम्
चपना-चयना, चिचपयिषा-चिचययिषा, चितिः
चपनम्-चयनम्, चिचपयिषणम्-चिचययिषणम्, चयनम्
चपयित्वा-चययित्वा, चिचपयिषित्वा-चिचययिषित्वा, चित्वा
10 संचपय्य-संचयय्य, प्रचिचपयिष्य-प्रचिचययिष्य, प्रचित्य
11 चापम् -चपम् २, चपयित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चायम्
चित्वा २। चायम् -चयम् -चययित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चित्वा २।
प्रासङ्गिक्यः
01
=>
(५२०)
02
=>
(१०-चुरादिः-१६३०। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(५१९)
05
=>
[[१। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वविकल्पः। आत्वपक्षे, आदन्तलक्षणे पुगागमे, ज्ञपादिपञ्चकपाठेन मित्त्वात्, णौ उपधायाः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। आत्वाभावपक्षे, वृद्धौ, आयादेशे ह्रस्वे रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयस्यो- पपत्तिर्ज्ञेया।]]
06
=>
[[२। ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वेन णिजभावपक्षे शुद्धाद्धातोः चायकः-यिका इत्यादीनि रूपाणि प्रदर्शितानि।]]
07
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति नेः णत्वविकल्पः।]]
08
=>
[[४। अत्र यकारस्य वलि लोपे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। स्थानिवद्भावः शङ्क्यः
\n\n यलोपे तन्निषेधात्।]]
09
=>
[पृष्ठम्०५०६+ २३]
10
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
11
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
1 {@“चिती संज्ञाने”@} 2 ‘… चिन्तयेत्।
स्मृत्याम्, चेतति संज्ञाने, तत्र चेतयते णिचि।।’ 3 इति देवः।
चेतकः-तिका, चेतकः-तिका, 4 चिचेतिषकः-चिचितिषकः-षिका, 5 चेचितकः-तिका
चेतिता-त्री, चेतयिता-त्री, चिचेतिषिता-चिचितिषिता-त्री, चेचितिता-त्री
6 चेतन्-न्ती, 7 चेतयन्-न्ती, चिचेतिषन्-चिचितिषन्-न्ती
-- चेतिष्यन्-न्ती-ती, चेतयिष्यन्-न्ती-ती, चिचेतिषिष्यन्-चिचितिषिष्यन्-न्ती-ती
-- -- चेचित्यमानः, चेचितिष्यमाणः
8 चित्-चितौ-चितः
-- -- -- 9 चित्तम्-त्तः, 10 प्रायश्चित्तम्, चेतितम्-तः, चिचेतिषितः-चिचितिषितः, चेचितितः-तवान्
11 चितः, 12 चेतनः, 13 चेतयः, चिचेतिषुः-चिचितिषुः, चेचितः
14 चेतितव्यम्, चेतयितव्यम्, चिचेतिषितव्यम्-चिचितिषितव्यम्, चेचितितव्यम्
चेतनीयम्, चेतनीयम्, चिचेतिषणीयम्-चिचितिषणीयम्, चेचितनीयम्
चेत्यम्, चेत्यम्, चिचेतिष्यम्-चिचितिष्यम्, चेचित्यम्
ईषच्चेतः-दुश्चेतः-सुचेतः
-- -- -- चित्यमानः, चेत्यमानः, चिचेतिष्यमाणः-चिचितिष्यमाणः, चेचित्यमानः
चेतः, चेतः, चिचेतिषः-चिचितिषः, चेचितः
चेतितुम्, चेतयितुम्, चिचेतिषितुम्-चिचितिषितुम्, चेचितितुम्
चित्तिः-प्रायश्चित्तिः, 15 चित् 16, चेतना, चिचेतिषा-चिचितिषा, चेचिता
चेतनम्, चेतनम्, चिचेतिषणम्-चिचितिषणम्, चेचितनम्
चेतित्वा-चितित्वा, चेतयित्वा, चिचेतिषित्वा-चिचितिषित्वा, चेचितित्वा
प्रचित्य, प्रचेत्य, प्रचिचेतिष्य-प्रचिचितिष्य, प्रचेचित्य
चेतम् २, चेतित्वा २-चितित्वा चेतम् २, चेतयित्वा २, चिचेतिषम् चिचेतिषित्वा चिचितिषम् २, चिचितिषित्वा २, चेचितम्
चेचितित्वा २। 17 इत्यसुन् प्रत्ययः।
चेतः = मनः।]] चेतः।
प्रासङ्गिक्यः
01
=>
(५२४)
02
=>
(१-भ्वादिः-३९। अक। सेट्। पर।)
03
=>
(श्लो। ९४)
04
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सेटः सनः कित्त्वविकल्पः। कित्त्व- पक्षे गुणोऽङ्गस्य। एवं क्त्वायामपि कित्त्वविकल्पो बोद्ध्यः।]]
05
=>
[[२। यङन्तस्य द्वित्वे, अभ्यासस्य गुणे, यङवयवाकारलोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं यङन्ते सर्वत्र बोद्ध्यम्।]]
06
=>
[[आ। ‘युष्मानचेतन् क्षयवायुकल्पान् सीतास्फुलिङ्गं परिगृह्य जाल्मः।’ भ। का। १०। ३६।]]
07
=>
[[३। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्ताच्छतैव।]]
08
=>
[[४। कर्तरि क्विप्। चित् = चेतन इत्यर्थः।]]
09
=>
[[५। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः।]]
10
=>
[[६। ‘प्रायस्य चित्तिचित्तयोः’ (ग। सू। ६। १। १५६) इति सुट्। एवं क्तिन्यपि ज्ञेयम्।]]
11
=>
[[७। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
12
=>
[[८। बाहुलकात् नन्द्यादित्वेन (३-१-१३४) कर्तरि ल्युः।]]
13
=>
[[९। ‘अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च’ (३-१-१३८) इति ण्यन्तादस्मात् कर्तरि शप्रत्ययः
\n\n शप्रत्ययस्य सार्वधातुकत्वेन णेरयादेशः। चेतयः = जीवः। अकारान्तोऽयं शब्दः।]]
14
=>
[पृष्ठम्०५१०+ २०]
15
=>
[[१। ‘सम्पदादिभ्यः--’ (वा-३-३-९४) इति भावे बाहुलकात् क्विप्। चित् = चैतन्यम्- इत्यर्थः।]]
16
=>
[[आ। ‘अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन् दिशः प्रश्च्युतितैः स्मितामृतैः।।’ धा। का। १। ६।]]
17
=>
[[२। ‘असुन्’ [द। उ। ९। ४९]