| YouTube Channel

पौष्करं (pauSkaraM)

 
शब्दकल्पद्रुमः
Sanskrit
पौष्करं,
क्ली,
(पुष्करस्येदमिति पुष्कर + अण् ।)पुष्करमूलम् इति राजनिर्घण्टः
(अस्यपर्य्यायो गुणाश्च यथा, --“उक्तं पुष्करमूलन्तु पौष्करं पुष्करञ्च तत् ।पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः
पौष्करं कटुकन्तिक्तमुक्तं वातकफज्वरान् ।हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूल-नुत्
”अस्य प्रतिनिधिर्यथा, --“पौष्कराभावतः कुष्ठम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)