| YouTube Channel

पौर्णमासः (paurNamAsaH)

 
Apte Hindi
Hindi
पौर्णमासः
पुं*
- पूर्णमासी+अण्
अग्निहोत्री द्वारा पूर्णिमा के दिन अनुष्ठित संस्कार
Wordnet
Sanskrit
Synonyms:
पौर्णमासः
noun
यागविशेषः।
"पौर्णमासः पौर्णमास्यां क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
पौर्णमासः,
पुं,
(पौर्णमास्यां भवः पौर्णमासी +“सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् ।” १६ ।इत्यण् ।) यागविशेषः इत्यमरः ।४८
(यथा, मनुः २५ ।“दर्शेन चार्द्धमासान्ते पौर्णमासेन चैव हि
”)तथा हि अमावस्यायां अमावस्यया यजेतपौर्णमास्यां पौर्णमास्या यजेत इति श्रुति-विहितदर्शपौर्णमासयागयोः कर्म्मस्वरूपज्ञाप-कयोरुत्पत्तिश्रुतीः समामनन्ति यथा ।आग्नेयाष्टाकपालोऽमावस्यायां पौर्णमास्याञ्चा-च्युतो भवति उपांशुयाजमन्तरा यजति ताभ्या-मेवाग्नीसोमीयमेकादशकपालं पौर्णमास्या-मेव प्रायच्छत् ऐन्दं दधि भवत्यमावास्याया-मैन्द्रं पयो भवत्यमावास्यायामिति ताभ्या-माग्नेयाष्टाकपालोपांशुयाजाभ्याम् तेन आग्ने-याष्टाकपालोपांशुयाजाग्नीसोमीयैकादशकपा-लास्त्रयः पौर्णमास्याम् आग्नेयाष्टाकपा-लैन्द्रदधियागैन्द्रपयोयागास्त्रयोऽमावास्याया-मित्यर्थः आसु श्रुतिषु अमावास्यापौर्णमासी-पदानि प्रतिपत्सहिततदुभयपराणि तत्रपूर्व्वयोर्यागारम्भः प्रतिपदोर्यागः तथा द्वे-ह वै पौर्णमास्यौ द्वे अमावास्ये तस्मात् प्रति-पद्युपवसन् यजेतापरेद्युरिति श्रुतिः अस्यार्थः ।यावज्जीविकयोर्द्दर्शपौर्णमासयोः प्रकृतिभूतयोर्व्विकृतिभूतौ दर्शपौर्णमासौ कौण्डपायिनामय-नीयौ पक्षादौ कर्त्तव्यौ ।” इति मलमासतत्त्वम्