| YouTube Channel

पौगण्डं (paugaNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
पौगण्डं,
क्ली,
(पोगण्डस्य भावः पोगण्ड +अण् ।) अवस्थाविशेषः यथा, --“कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।कैशोरमापञ्चदशात् यौवनञ्च ततः परम्
”इतिदशमस्कन्धीयद्वादशाध्यायस्थसप्तत्रिंशश्लोक-टीकायां श्रीधरस्वामिधृतवचनम्
(पोगण्डा-वस्थावति तदवस्थासम्बन्धिनि त्रि यथा, भागवते ३१ २८ ।“इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव
”)