| YouTube Channel

पैतृकं (paitRkaM)

 
शब्दकल्पद्रुमः
Sanskrit
पैतृकं, त्रि, (पितुरागतं पितुरिदं वेति पितृ +ठञ् ।) पितृसम्बन्धि इति शब्दमाला
यथा, मनुः ।“ऊर्द्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् ।भजेरन् पैतृकं रिकथमनीशास्ते हि जीवतोः
”मनुविष्णू ।“पैतृकन्तु यदा द्रव्यमनवाप्तमवाप्नुयात् ।न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्ज्जितम्
”पैठीनसिः ।“पैतृके विभज्यमाने दायाद्ये समो विभागः
”नारदः ।“शौर्य्यभार्य्याधने हित्वा यच्च विद्याधनं भवेत् ।त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः
”इति दायभागः