| YouTube Channel

पैतामहं (paitAmahaM)

 
शब्दकल्पद्रुमः
Sanskrit
पैतामहं, त्रि, (पितामहस्येदम् पितामह +“तस्येदम् ।” १२० इत्यण् ।) पितामह-सम्बन्धिधनादि यथा, कात्यायनः ।“पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्ज्जितम् ।दायादानां विभागेषु सर्व्वमेतद्विभज्यते
”बृहस्पतिः ।“पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्ज्जितम् ।विद्याशौर्य्यादिना प्राप्तं तत्र स्वाम्यं पितुःस्मृतम्
”इति दायभागः