पृषु (pRSu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit पृष्
पृषु
सेचन-हिंसा-क्लेशनेषु
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
पर्षति
धातुप्रदीपः
Sanskritपृषुँ पृषु
मानकरूपान्तरम् - वृषुँ
वृषु
मानकरूपान्तरम् - मृषुँ
मृषु सेचने
- पर्षति । पृष्टम् । पृषितमित्यौणादिकम् वर्षति । वृष्टिः । अज्विधौ भयादीनामुपसंख्यानमित्यच् वर्षम् । वृषभो । वर्षणादिति भाष्यलेखनाद वर्षणमिति च 451। मृषु सहने च मृष्यतीति दिवादित्वात् । मर्षति । मर्षित्वा । मृषित्वा ।। 705-707 ।।
क्षीरतरङ्गिणी
Sanskritपृषुँ पृषु
मानकरूपान्तरम् - वृषुँ
वृषु
मानकरूपान्तरम् - मृषुँ
मृषु सेचने
- पर्षति वर्तमाने पृषदबृहद् (उ0 284) इति पृषत् पृषिरञ्जिभ्यां कित् उ0 3111) पृषतो मृगो बिन्दुश्च उणादौ-पृष्ठम् (द्र0 212), पार्ष्णिः (द्र0 452)
पर्जन्यः (द्र0 3103), पृष्णिः किरणः स्पृशेस् (6123) तु पृश्निरल्पतनुः वर्षति विभाषा कृवृषोः (31120) क्यप्-वृष्यम्, वर्ष्यम् के (द्र0 31135) वृषः लष-पत-पद-स्था-भू-वृष (32154) इति वर्षुकः अज्विधौ भयादीनामुपसंख्यानम् (3356 वा0) इति वर्षम् अचि (द्र0 31134) वर्षा ऋतुः वृष्ट्वा वर्षित्वा वृष्टम् कर्तरि चेष्यत इति वृष्टो देवः कनिन् युवृषि (उ0 1156) इति वृषा इन्द्रः ऋषिवृषिभ्यां किच्च (तु0 उ0 3123) इत्यभच्-वृषभः वृषादिभ्यश्चिद् (उ0 1108) इति वृषलः सुवृषिभ्यां कित् (उ0 449) वृष्णिः नहिवृति (63116) इति दीर्घात्-प्रावृट् 684-686
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritपृषुँ पृषु
मानकरूपान्तरम् - वृषुँ
वृषु
मानकरूपान्तरम् - मृषुँ
मृषु (अर्थः) सेचने
मृषु सहने च इतरौ हिसासंक्लेशनयोश्च अत्र काश्यपः पृषु ह्मषु वृषु हिंसासंक्लेशनदानेष्वित्यादि पपठ ( पर्षति पर्षिता पर्षिष्यति पर्षतु अपर्षत् आशिषि पृष्यात् अपर्षीत् पिपर्षिषते परीपृष्यति पर्पृषीति प्रर्पर्ष्टि पर्पक्षि ) लोटि पर्पृड्ढी), इत्यत्र हेर्डित्त्वान्न गुणः ( पर्पृषाणि )"नाभ्यस्तस्याचि पिति'' इति गुणनिषेधः लङितिप्सिपोर्हलङ्यादिलोपः ( अपर्पर्ट् ) "रात्सस्य'' इति नियमात् न संयोगान्तलोपः (अपर्पृषीत् ) पूर्ववदगुणत्वं रिक्रीकोरुदाहार्यम् ( पर्षयति अपपर्यत् अपीपृपत् पर्षित्वा पृष्ट्वा ) उदित्त्वाद्विकल्पः (पृष्टं, पृषितम् )बाहुलकात् पृक्षेः किच्चेति तच् असादपीति (पृषतम् ) "पृषिरञ्जभ्यां कित्'' इत्यतच् पृषन् बिन्दुर्मृगश्च [वर्त्तमाने पृषन्महद्बृहज्जगच्छतृव्च्च] इत्यतिप्रत्यये गुणाभावः शतृवद्भावाद् "उगितश्च'' इति स्त्रियां ङीति (पृषती पार्ष्णिः) "घृणिपृश्रिपार्णिभूर्णिचूर्णितूर्णिः'' इत्यादिणिञ् ग्रत्यये निपात्यते(पार्ष्णीलः) "सिध्मादिभ्यश्च'' इत्यत्र पार्ष्णिधमन्योर्दीर्धश्चेतिपाठात् लचि दीर्घः तच्चान्यरस्यांग्रहणस्यानुवर्त्तनात् मतुपि ( पार्ष्णिमान् वर्षति ववर्ष वर्षतीति वर्षः ) [ अज्विधौ भयादिभ्य उपसंख्यानं नपुंसके क्तादिनिवृत्त्वर्थम् ] इत्यच् वृषेर्वावर्षणादिति भाष्यकारप्रयोगात् ल्युट् (वृष्टिः) "तितुत्र'' इति नेट् (वृषभः) "ऋषिवृषिभ्यां कित्' इत्यभच् (वृषः) इगुपलक्षणः कः वृषाय हितं (वृष्यम्) "खलयवमाषतिलवृषब्रह्मणश्च'' इति यत् अत्राकारान्तस्य वृषशब्दस्य ग्रहणात् कनिन्नुवृषीतिकनिनन्ताद्वृषन्शब्दाद्यन्न् भवति प्राक्कीतीयस्त्वनभि धानान्न भवति वृषमात्मन् इच्छति (वृषस्यति) मैथुनं इच्छति इत्यर्थः "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि'' इत्यसुक् अश्ववृषयोर्मैथुनेच्छायामिति अन्यत्र "क्यचि च'' इतीकारे (वृषीति वृष्णिः) "प्रवृषिभ्यां कित्'' इति निः (वृषणः) बाहुलकात् क्युन् वर्षत इति स्नेहने गतः ( मर्षति ममर्ष मृषित्वा मर्षित्वा ) "तृषिमृषिकषेः काश्यपस्य'' इति सेट्त्क्कः कित्तृवविकल्पः अनिट्पक्षे (मृष्टवा, निष्ठायां मृष्टम् ) "मृषस्तितिक्षायाम्'' इति कित्त्वमनिटो निष्ठायामेवेति दैवादिकस्य तत्र ग्रहणं, स हि सेट्, मृषस्तितिक्षायामिति दिवादिर्युजादिश्च स्वरितेतौ 694
कृदन्तरूपमाला
Sanskrit1 {@“पृषु सेचने”@} 2 ‘--हिंसासंक्लेशनयोश्च’ इति माधवः।
पर्षकः-र्षिका, पर्षकः-र्षिका, पिपर्षिषकः-षिका, 3 परीपृषकः-षिका
पर्षिता-त्री, पर्षयिता-त्री, पिपर्षिषिता-त्री, परीपृषिता-त्री
पर्षन्- 4 व्यतिपर्षन्-न्ती, पर्षयन्-न्ती, पिपर्षिषन्-न्ती
-- -- पर्षयमाणः, -- परीपृष्यमाणः
-- पर्षयिष्यमाणः, -- परीपृषिष्यमाणः
पृट्-पृड्-पृषौ-पृषः
-- -- -- 5 पृष्टम्-पृष्टः-पृष्टवान्, पर्षितः, पिपर्षिषितः, परीपृषितः-तवान्
पर्षः, 6 पर्षणः, सुपर्षी, पर्षः, पिपर्षिषुः, परीपर्षः
पर्षितव्यम्, पर्षयितव्यम्, पिपर्षिषितव्यम्, परीपृषितव्यम्
पर्षणीयम्, पर्षणीयम्, पिपर्षिषणीयम्, परीपृषणीयम्
7 8 पृष्यम्, पर्ष्यम्, पिपर्षिष्यम्, परीपृष्यम्
ईषत्पर्षः- 9 दुष्पर्षः-सुपर्षः
-- -- पृष्यमाणः, पर्ष्यमाणः, पिपर्षिष्यमाणः, परीपृष्यमाणः
पर्षः, पर्षः, पिपर्षिषः, परीपृषः
पर्षितुम्, पर्षयितुम्, पिपर्षिषितुम्, परीपृषितुम्
पृष्टिः, पर्षणा, पिपर्षिषा, परीपृषा
पर्षणम्, पर्षणम्, पिपर्षिषणम्, परीपृषणम्
10 पर्षित्वा-पृष्ट्वा, पर्षयित्वा, पिपर्षिषित्वा, परीपृषित्वा
प्रपृष्य, प्रपर्ष्य, प्रपिपर्षिष्य, प्रपरीपृष्य
11 दण्डोपपर्षम्, दण्डेनोपपर्षम्, दण्डपर्षं वा गाः कालयति।
पर्षम् २, पर्षित्वा २ -पृष्ट्वा २, पर्षम् २, पर्षयित्वा २, पिपर्षिषम् २, पिपर्षिषित्वा २, परीपृषम् २
परीपृषित्वा २
12 पृषितम्, 13 पृषत्-पृषती, 14 पृषतम्।
01 (१०५४)
02 (१-भ्वादिः-७०५। सक। सेट्। पर।)
03 [[२। यङन्ते सर्वत्र, ‘रीग् ऋदुपधस्य च’ (७-४-९०) इति रीगागमः।]]
04 [[३। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारे शानज्निषेधात् शतैव।]]
05 [[४। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य बिभाषा’ (७-२-१५) इतीण्निषेधः। ष्टुत्वम्।]]
06 [[५। नन्द्यादित्वेन (३-१-१३४) कर्तरि ल्युप्रत्ययः।]]
07 [पृष्ठम्०८९०+ २६]
08 [[१। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्। ण्यदपवादः।]]
09 [[२। खल्विधायके सूत्रे (३-३-१२६) ‘दुस्’ इति सान्तस्योपसर्गस्योपादानम्, रेफान्तस्य च, इति पक्षद्वयम्। तत्र सान्तस्यैवेति पक्षे षत्वमत्रेति ज्ञेयम्। रेफान्तस्यैवेति पक्षे तु ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधः’ (वा। १-४-६०) इति उपसर्गत्वनिषेधात् षत्वाभावः।]]
10 [[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
11 [[४। ‘हिंसार्थानां च समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। ‘तृतीयाप्रभृतीन्य- न्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]
12 [[५। बाहुलकान्निष्ठायामिडागम इति केचित्। वस्तुतस्तु बाहुलकात् औणादिके इतक्- प्रत्यये रूपमेवमिति ज्ञेयम्।]]
13 [[६। ‘वर्तमाने पृषद्-’ (द। उ। ६-५) इत्यादिना कतिप्रत्यये, तस्य शतृवद्भावेन शपि, पररूपे च रूपमेवम्। स्त्रियाम्, उगित्त्वेन, ‘उगितश्च’ (४-१-६) इति ङीपि पृषती इति रूपम्।]]
14 [[७। ‘पृषिरञ्जिभ्यां कित्’ (द। उ। ६-१५) इति अतच्प्रत्ययः। पृषतः = मृगः, बिन्दुश्च।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
