| YouTube Channel

पूर्व्वा (pUrvvA)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वा,
स्त्री,
(पूर्व्व + टाप् ।) पूर्व्वदिक् तत्-पर्य्यायः प्राची पुरा माघोनी ऐन्द्री ५माघवती तद्दिग्भववायुगुणाः ।“पूर्व्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।गुरुर्विदाहशमनो वातदः पित्तनाशनः
”इति राजनिर्घण्टः
अपि राजवल्लभः ।“प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः ।वैरस्यगोरवौष्ण्यानि करोत्यप्स्वोषधीषु
भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् ।सन्निपातज्वरश्वासत्वग्दोषार्शोविषक्रिमीन्
कोपयेदामवातञ्च घनसंघातकारणम्
*
तद्दिगधिपतयः मेषसिंहधनूराशयः यथा, --“प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् ।मेषाद्या राशयो ज्ञेयास्त्रिरावृत्तिपरिभ्रमात्
इति ज्योतिस्तत्त्वम्