| YouTube Channel

पूर्बरूप (pUrbarUpa)

 
वाचस्पत्यम्
Sanskrit
पूर्व(र्ब)रूप
न०
कर्म० अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० पृ०दृश्यम् भविष्यद्रोगस्य प्राग्जातरूपे तस्य लक्षणविशेषोभाविरोगलणत्वं चोक्तं यथा“प्राग्रूपं येन लक्ष्यते उत्पित्सुरामयो दोषविशेषे-णानधिष्ठितः लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथा-यथम् द्विविधं हि पूर्बरूपं भवति सामान्यं विशिष्टञ्चसामान्यं येन दोषदुष्यसंमूर्च्छनावस्थाजनितेत भावि-सवराद व्याधिमत्रं प्रतीयते तु वातादिजनित-त्वादिविशेषा यथा “श्रमोरतिर्विवर्णत्वमिति” तथाबालगुरुवाक्यप्रद्वेषादि सामान्याभिप्रायेणैव तन्त्रा-न्तर यथा “व्याधेर्जातिर्बुभूषा पूर्वरूपेण लक्ष्यते ।भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु” इति तथाहपराशरः “पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यतेन तु दोषविशेषः” इति विशिष्टं यथा उरःक्षता-दौ लिङ्गान्येव वातादिजान्यव्यक्तानि यदुक्तं तत्रैव“अव्यक्तं लक्षणं तेषां पूर्बरूपमिति स्मृतिः” तथाहसुश्रुतः “सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् ।पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति” हा-रीतेनाप्युक्तम् “इति पूर्बरूपमष्टानां ज्वाराणां सामान्यतोविशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृदयोद्वेगि वातजमिति” ।प्राग्रूपं येन लक्ष्यते इत्यस्यार्थमाह रक्षितः “येन श्रमा-दिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुरामयोरोगः दोषविशेषेण वातादिजन्यासाधारणवेपव्यादिनाअनधिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत् प्राग्रूपमिति” ।लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह एव “प्राग्र्प-मित्यनेन पूर्वोक्तेन सम्बन्धि लिङ्गं लक्षणम् अव्यक्तं नात्य-भिव्यक्तं तत्र हेतुरल्पत्वात् नत्वावरणादियोगादव्यक्तत्व-मित्यर्थः अन्ये तु पूर्वरूपलक्षणमाहुः “स्थानसंश्रियणःक्रुद्धा भाविव्याधिप्रबोधनम् दोषाः कुर्वन्ति यल्लिङ्गंपूर्वरूपं तदुच्यते” इति संक्षेपतस्तु लक्षणं भाविव्याधि-बोधकमेव लिङ्गं पूर्वरूपम्” इति माधवकरुविजय-रक्षितौ