| YouTube Channel

पूयं (pUyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पूयं,
क्ली,
(पूयते दुर्गन्धो भवतीति पूय + अच् ।)पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम् ।पूँय इति भाषा तत्पर्य्यायः क्षतजम् मल-जम् पूयनम् प्रसितम् इति शब्द-चन्द्रिका
(यथा, महाभारते १९९ ५४ ।“ये दुष्कृतकर्म्माणः पूयं तेषां विधीयते
”)पूयवर्द्धनद्रव्याणि यथा, --नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितक-शाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्क-शाकाजाविकानूपौदकमांसवसाशीतोदककृश-रापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् ।“तक्रान्तैर्नवधान्यादिर्योऽयं वर्ग उदाहृतः ।दोषसंजननो ह्येष विज्ञेयः पूयवर्द्धनः
”इति सुश्रुतः
(अस्य विषयो यथा, --“वातादृते नास्ति रुजा पाकःपित्तादृते नास्ति कफाच्च पूयः
”इति सुश्रुते सूत्रस्थाने सप्तदशेऽध्याये
)