| YouTube Channel

पुष्यानुग (puSyAnuga)

 
वाचस्पत्यम्
Sanskrit
पुष्यानुग
न०
चक्रदत्तोक्ते चूर्णभेदे “अम्बष्ठकीमोचरसोसमङ्गापद्मकेशरान् वाह्लीकातिविषामुस्तं विल्वंलोध्रं सगैरिकम् कट्फलं मरिचं शुण्ठीं मृद्वीकांरक्तचन्दनम् कष्ट्वङ्गवत्सकालान्तधातकीमधुकार्जुनम् ।पुष्येणीद्धृत्य तुल्यानि श्लञ्जचूर्णानि कारयेत् तानिक्षौद्रेण संयुज्य पाययेत् तण्डुलाम्बुना असृग्दरा-तिसारेषु रक्तं यच्चोपवेश्यते दोषागन्तुकृता ये बा-लानां तांश्च नाशयेत् योनिदोषं रजोदोषं श्वेतं नीलंसपीतकम् स्त्रीणां श्यावारुणं यच्च तत् प्रसह्य निव-र्त्तयेत् चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्” ।४४२७ पृ० प्रकृतिशब्दस्य परिशिष्टम्राज्ञां पुरोहितादिषु २१ दशसु सुमन्त्रादिषु २२ अष्टासुच यथोक्तं शुक्रनीतिशास्त्रपरिशिष्टे“पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा मन्त्री चप्राड्विवाकश्च पण्डितश्च सुमन्त्रकः अमात्यो दूत इ-त्येता राज्ञः प्रकृतयो दश दशमांशाधिकाः पूर्वा दू-तान्ताः क्रमशः स्मृताः अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित्स्मृतः सदा सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिव-स्तथा अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः ।एताभृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा” एतेषांलक्षणानि तत्रैवोक्तानि दृश्यानि विस्तरभयान्नोक्तानि