| YouTube Channel

पुष्यस्नान (puSyasnAna)

 
Monier Williams Cologne
English
पुष्य—स्नान
n.
a partic. ceremony of purification performed while the moon is passing through the asterism P°,
Var.
(v.l. पुष्प-स्°).
शब्दकल्पद्रुमः
Sanskrit
पुष्यस्नानं,
क्ली,
(पुष्ये पुष्यनक्षत्रकाले स्नानम् ।)पुष्याभिषेकः तस्य विधिर्यथा, --और्व्व उवाच ।“शृणु राजन् ! प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् ।येन विज्ञातमात्रेण विघ्ना नश्यन्ति सन्ततम्
पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् ।सौभाग्यकल्याणकरं दुर्भिक्षमरकापहम्
विष्ट्यादिदुष्टकरणे व्यतीपाते वैधृतौ ।वज्रे शूले हर्षणादौ योगे यदि लभ्यते
तृतीयायुक्तपुष्यर्क्षं रविसौरिकुजेऽहनि ।तदा समस्तदोषाणां तत्स्नानं हानिकारकम्
ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः ।तदा पुष्यर्क्षमात्रे तु कुर्य्यान्मासान्तरेऽपि तत्
इयन्तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा ।शक्रार्थं सर्व्वदेवानां शान्त्यर्थञ्च जगत्पते !
*
तुषकेशास्थिवल्मीककीटदेशादिवर्ज्जिते ।शर्कराकृमिभस्मादिदोषेण परिवर्जिते
काकोलूकककङ्कैश्च काकोलैर्गृध्रश्येनकैः ।वर्जिते कण्टकिवनविभीतकविवर्जिते
शिग्रुश्लेष्मातकाभ्याञ्च जलौकाद्यैर्विवर्जिते ।सुस्थाने चम्पकाशोकवकुलादिविभूषिते
हंसकारण्डवाकीर्णे सरस्तीरेऽथवा शुचौ ।पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानसुत्तमम्
ततः पुरोहितो राजा नानावादित्रनिःस्वनैः ।प्रदोषसमये गच्छेत्तत्स्थानं पूर्व्ववासरे
तस्य स्थानस्य कौवेर्य्यां दिशि स्थित्वा पुरोहितः ।सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः
गोरोचनाभिः सिद्धार्थैरक्षतैश्च फलादिभिः ।गन्धद्वारेत्यादिभिस्तु मन्त्रैः सर्व्वाधिवासिकैः ।अधिवास्य तु तत् स्थानं पूजयेत्तत्र देवताः
गणेशं केशवं शक्रं ब्रह्माणञ्चापि शङ्करम् ।उमया सहितं देवं सर्व्वाश्च गणदेवताः ।मातॄश्च पूजयेत्तत्र नृपतिः सपुरोहितः
मङ्गलान् सकलान् कृत्वा नानानैवेद्यसञ्चयम् ।प्रदद्यात् पायसं स्वादु फलं मोदकयावकौ
अधिवास्य तु तत् स्थानं दूर्व्वासिद्वार्थकाक्षतैः ।तस्मात् स्थानात्तु भूतान्निःसारयेन्मन्त्रमीरयन्
अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।भूतानामविरोधेन स्नानमेतत् करोम्यहम्
ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः ।आवाहयेदिमान्देवान् पूज्यान् पुष्याभिषेकतः
आगच्छन्तु सुराः सर्व्वे येऽत्र पूजाभिलाषिणः ।दिशोऽभिपालकाः सर्व्वे ये चान्येऽप्यंशभागिनः ।ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम्
अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् ।श्वः पूजां प्राप्य यातारो दत्त्वा शान्तिं मही-भुजे
तत्र तां नृपती रात्रिं नयेत्तु सपुरोहितः ।स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः
कृत्वा पूजान्तु देवानां रात्रौ स्थाने नृपः स्वपेत् ।शुभाशुभफलं स्वप्ने ज्ञेयं दोषज्ञसम्मते
दुःस्वप्नदर्शनं चेत् स्यात्तदा पुष्याभिषेचने ।होमं चतुःशतं कुर्य्याद्दद्याद्बापि गवां शतम्
गोवाजिकुञ्जराणाञ्च प्रासादस्य गिरेस्तरोः ।आरोहणं शुभकरं राज्यश्रीवृद्धिकारकम्
दधिदेवसुवर्णानां भुजगस्य दर्शनम् ।वीणादूर्व्वाक्षतफलपुष्पच्छदविलेपनम्
शितांशुच्छत्रशङ्खानां पद्मस्य सुहृदां तथा ।लाभः क्षयकरः शत्रोरलङ्कारस्य भूभृतः
दर्शनञ्चोपरागस्य निगडेनास्य बन्धनम् ।मांसस्य भोजनञ्चैव पर्व्वतस्य विवर्त्तनम्
नाभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् ।अगम्यागमनं कूपपङ्कगर्त्तावतीर्णता
पर्व्वतस्य तथा नद्याः प्रोत्तारः शत्रुकर्त्तनम् ।स्वपुत्त्रमरणञ्चैव पानं रुधिरमद्ययोः
भोजनं पायसस्यापि मनुष्यारोहणं तथा ।कल्याणसुखसौभाग्यराज्यशत्रुक्षयांस्तथा ।एते स्वप्नाश्च कुर्व्वन्ति नृपस्य नृपसत्तम !
खरोष्ट्रमहिषाणान्तु आरोहो राज्यनाशकः ।नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः
रक्तवस्त्रपरीधानं रक्तमाल्यानुरञ्जनम् ।रक्तां कृष्णां स्त्रियञ्चैव कामयन् मृत्युमाप्नुयात्
कूपान्तरे प्रवेशश्च दक्षिणाशागतिस्तथा ।पङ्के निमज्जनं स्नानं भार्य्यापुत्त्रविनाशनम्
नाभौ यस्य भवेत् स्वप्ने तरूत्पत्तिर्नृपस्य ।आदाय गर्भनाडीन्तु शकुनो याति खं द्रुतम् ।स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात्
दीर्घं विंशतिहस्तन्तु हस्तषोडशविस्तृतम् ।कुर्य्यात्तु लक्षणोपेतं यज्ञमण्डलमुत्तमम्
ततोऽपरेऽह्नि पूर्व्वाह्णे मातॄणां पूजनञ्चरेत् ।कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव
चन्दनागुरुकस्तूरीधूपकर्पूरचूर्णकैः ।सम्पूज्य मण्डलस्थानं तस्मिन् हौं शम्भवे नमः
अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः ।मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः
कौषेयैर्व्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् ।चतुर्हस्तप्रमाणन्तु मण्डलं विलिखेत्ततः
हस्तप्रमाणं पद्मन्तु मण्डलस्य प्रकीर्त्तितम् ।द्बाराणि सार्द्धहस्तानि कर्णिकाकेशरोज्ज्लम्
सितं रक्तञ्च पीतञ्च कृष्णं हरितमेव ।शालिचूर्णैस्तु कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः
कुर्य्यात्तथाञ्जनैश्चूर्णै राजा मण्डलवृद्धये ।पद्मात्ततः समारभ्य नालां पश्चिमगामिनीम्
पश्चिमद्वारमध्येन शतहस्तां विनिर्द्देशेत् ।प्रत्येकद्वारमध्ये तु पद्मञ्चैवाष्टपत्रकम्
कुर्य्यान्मण्डलभागे तु चूर्णैरेव पृथक् पृथक् ।चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत्ततः
उत्सार्य्य सूत्रं प्रथमं मण्डलं पूजयेत्ततः ।भवनाय नम इति ततो हस्तं वियोजयेत्
सव्यावलम्बहस्तस्तु रजःपातं समारभेत् ।मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद्यथेच्छया
अधोमुखाङ्गुलिं कृत्वा पातयेत् सुविचक्षणः ।समरेखा तु कर्त्तव्या विच्छिन्ना पुञ्जवर्ज्जिता ।अङ्गुष्ठपर्व्वनैपुण्यात् समा कार्य्या विजानता
संसक्तं विषमं स्थूलं विच्छिन्नं कृशरावृतम् ।पर्य्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन ।संसक्ते कलहं विद्यादूर्द्धरेखे तु विग्रहम्
अतिस्थूले भवेद्व्याधिर्नित्यपीडा विमिश्रिते
विन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ।कृशायां चार्थहानिः स्याच्छिन्नायां मरणंध्रुवम्
वियोगो वा भवेत्तस्य इष्टद्रव्यसुतस्य वा
अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेच्छया ।सर्व्वदोषानवाप्नोति ये दोषाः पूर्व्वभाषिताः
सितसर्षपदूर्व्वाढ्या रेखाः कार्य्याः प्रमाणतः ।विमलं विजयं भद्रं विमानं शुभदं शिवम्
वर्द्धमानञ्च देवञ्च रताख्यं कामदायकम् ।रुचकं स्वस्तिकाख्यञ्च द्वादशैते तु मण्डलाः
यथास्थानं यथायज्ञं योजनीया विचक्षणैः
सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः ।पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा
कलां कलान्तु देवानामसित्वा ते पृथक् पृथक् ।यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।गोह्योपगोह्यो मरुतो मयूखश्च तथापरः
मनोहा त्वसिभद्रश्च विरुजस्तनुशोषकः ।इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः
तेषामेव क्रमाद्भूप ! नव नामानि यानि तु ।शृणु तान्यपराण्येव शान्तिदानि सदैव हि
क्षितीन्द्रः प्रथमः प्रोक्तो द्बितीयो जलसम्भवः ।पवनाग्नी ततो द्वौ तु यजमानस्ततः परः
कोषसम्भवनामा तु षष्ठः परिकीर्त्तितः ।सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः
विजयो नाम कलसो योऽसौ नवम उच्यते ।स तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक्
घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयन्तथा ।यथाकाष्ठास्थितः सम्यक् वामदेवादिनामतः ।मण्डलस्य पद्मान्तः पञ्चवक्त्रं घटं न्यसेत्
क्षितीन्द्रं पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् ।वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्
नैरृत्यां यजमानन्तु ऐशान्यां कोषसम्भवम् ।सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत्
न्यस्यैवं कलसांश्चैव तेषु चतान् विचिन्तयेत् ।कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः
दिक्पाला देवताः सर्व्वा वेष्टयन्ति दिशो दश
कुक्षौ तु सागराः सप्त सप्तद्बीपाश्च संस्थिताः ।नक्षत्राणि ग्रहाः सव्व तथैव कुलपर्व्वताः
गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव ।कलसेषु स्थिताः सर्व्वे तेषु तानपि चिन्तयेत्
रत्नानि सर्व्वबीजानि पुष्पाणि फलानि ।वज्रमौक्तिकव दूर्य्यमहापद्मन्द्रस्फाटिकैः
सर्व्वधाममयं विल्वं नागरोडम्बरं तथा ।बीजपूरकजम्बीरकाश्मीराम्रातदाडिमान्
यवं शालिञ्च नीवारं गोधूमं सितसर्षपम् ।कुङ्कुमागुरुकस्तूरीमदनं रोचनं तथा
चन्दनञ्च तथा मांसीमेलां कुष्ठं तथैव ।कर्परं पत्रचण्डञ्च जलं निर्यासकाम्बुदम्
शैलेयं वदरं जातीपत्रपुष्पे तथैव ।कालशाकं तथा पृक्का देवी पूर्णकमेव
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ।दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम्
पर्णानां सवलां क्षुद्रां सहदेवां गजाह्वयाम् ।पूर्णकोषां सितां पाठां गुञ्जां शिरसिकानलौ
व्यामकं गजदन्तञ्च शतपुष्पां पुनर्नवाम् ।ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा ।समाहृत्य शुभानेतान् कलसेषु निधापयेत्
कलसस्य यथादेशं विधिं शम्मुं गदाधरम् ।यथाक्रमं पूजयित्वा शम्मं मुख्यतया यजेत्
प्रासादेन तु मन्त्रेण शम्भतन्त्रेण शङ्करम् ।प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः ।दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत्
पूर्व्वं बहिःस्थापितेषु ग्रहाणां कलसेषु ।नवग्रहान् पूजयेत्तु मातर्मातृघटेषु
सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक् ।नवैव तत्र पूर्व्वोक्ताः सदा मुख्यतमा नृप !
*
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ।यावकैः पायसैश्चापि यथासम्भवयोजितैः ।पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्
दक्षिणे मण्डलस्याथ कुण्डं निर्म्माय पायसैः ।समिद्भिः शालिसिद्धार्थैर्घृतैर्दर्वाक्षतैस्तथा ।केवलैश्च तथैवाज्यः पूजयेत सकलान् सुरान्
होमान्ते तोषयेद्वृद्धैर्नृपः सार्द्धं पुरोहितम्
होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम् ।रोचनाख्यमलङ्कारान् तथा सर्व्वान्नियोजयेत्
वृद्ध्या ह्मङ्गुलमङ्गुष्ठं द्विर्दशाङ्गुलयावधि ।वृत्तं वा चतुरस्रं वा पद्मकत्रिकसंहितम् ।रत्नेशान् पद्ममध्ये तु गोस्वस्तिकविनायकैः
श्रीः श्रीवृक्षो वरारोहा स्वामी देषी शुभान्विता ।रत्नैः सर्व्वैरलङ्कारैः पट्टं कार्य्यं द्विहस्तकम् ।हस्तविस्तारमुच्छ्रायं कर्त्तव्यन्तु दशाङ्गुलम्
स्नानार्थं सार्द्धहस्तन्तु पट्टं वृत्तासनान्वितम् ।शय्या चतुर्गुणा दीर्घा धनुर्मानन्तु पीठकम्
गजसिंहकृताटोपं हेमरत्नविभूषितम् ।सिंहाख्यं साद्धविस्ताराद्दण्डासनमथापि वा
व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत् ।अन्यैर्वा निर्म्मितैश्चर्म्ममृदुतूत्वकपूरितान्
शय्या दैर्घ्यार्द्धविस्तीर्णा चतुर्हस्ता सुलक्षणा ।वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया
अर्द्धचन्द्रसमं कुर्य्यादासनं चतुरस्रकम् ।उपधानानि शय्यायाः कर्णादिमूलदेशतः
षोडशैवात्र कार्य्याणि वर्णचित्रयुतानि ।यानं सिंहासनं पट्टं शय्योपकरणादिकम्
राज्ञो नूतनयोग्यं तद्वेद्या उत्तरतो न्यसेत् ।तेषान्तु पश्चिमे स्वर्णरत्नौघनिचिते वरे
पर्य्यङ्के यज्ञदार्व्वौषनिर्म्मिते महदास्तरे ।ऊर्द्धाच्छादनसंयुक्त चर्म्मावृत्त्या चतुष्टयम्
वृषभस्य तथोर्णायाः सिंहशार्दूलयोरपि ।पादपीठे रत्नयुते पादावारोप्य पार्थिवः
तस्मिन् पर्य्यङ्कपृष्ठस्थे चर्म्मखण्डचतुष्टये ।नानालङ्कारभूषाढ्यं नृपतिं रत्नमालिनम्
स्नापयेद्ब्राह्मणैः सार्द्धं राजानं सुखसङ्गतम् ।संवीतकम्बलं कृष्णं रत्नवस्त्रावशोभितम्
कलसैर्ब्बलिपुष्पाद्यैः शालिचूर्णैश्च स्नापयेत्
अष्टौ षोडशविंशाष्टशतमष्टाधिकञ्च वा ।कलसानां समाख्याता अधिकस्योत्तरोत्तरम्
जयकल्याणदैर्मन्त्रैमङ्गलोत्थैश्च शाम्भवैः ।वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ।आज्यं सुराणामाहारमाज्ये लोकाः प्रतिष्ठिताः
भौमान्तरीक्षं दिव्यं वा यत्ते कल्मषमागतम् ।सर्व्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु
ततोऽपनीय गात्रात्त कम्बलं वस्त्रमेव ।कलसैः स्नापयेद्भपं पुष्यस्नानार्थपूरितैः ।एभिर्मन्त्रैर्नरश्रेष्ठ ! तत्त्वतत्त्वार्थसाधकैः
*
सुरास्त्वामभिषिञ्चन्तु ये सिद्धाः पुरातनाः ।ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः
आदित्या वसवो रुद्रा आश्विनेयौ भिषग्वरौ ।अदितिर्देवमाता स्वाहा लक्ष्मीः सरस्वती
कीर्त्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा ।दितिश्च सुरसा चैव विनता कद्रुरेव
देवपत्न्यश्च याः प्रोक्ता देवमातर एव ।सर्व्वास्त्वामभिषिञ्चस्तु सर्व्वे चाप्सरसां गणाः
नक्षत्राणि सुहूर्त्ताश्च पक्षाहोरात्रसन्धयः ।संवत्सरो दिवा रात्रिः कलाः काष्ठाः क्षणालवाः
सर्व्वे त्वामभिषिञ्चन्तु कालस्यावयवाश्च ये ।वैमानिकाः सुरगणा मनवः सागरैः सह
सरितश्च महानागा यक्षाः किंपुरुषास्तथा ।वैखानसा महाभागा द्विजा वैहायसास्तथा
सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु ।मरीचिरत्रिः पुलहः पुलस्त्यो भृगुरङ्गिराः
क्रतुः सनत्कुमारश्च सनकोऽथ सनन्दकः ।सनातनश्च दक्षश्च जेगीषव्योऽथ नन्दनः
एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ ।दुर्व्वासा दुर्व्विनीतश्च कण्वः कात्यायनस्तथा
मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः ।और्व्वः सम्बर्त्तकश्चैव च्यवनोऽत्रिः पराशरः
द्वैपायनो यवक्रीतो देवरातः सहानुजः ।एते चान्ये वहवो देवव्रतपरायणाः
सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः
पर्व्वतास्तरवो नद्यः पुण्यान्यायतनानि ।प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः
वाहनानि दिव्यानि सर्व्वे लोकाश्चराचराः ।अग्नयः पितरस्तारा जीमूताः खं दिशो जलम्
एते चान्ये बहवः पुण्यसंकीर्त्तनाः शुभाः ।तोयैस्त्वामभिषिञ्चन्तु सर्व्वोत्पातनिवर्हणाः
इत्येवं शुभदैवत्यैर्मन्त्रैर्दिव्यैस्तथापरैः ।शैवैर्नारायणै रौद्रैर्ब्रह्मशक्रसमुद्भवैः
आपोहिष्टा हिरण्येति सम्भवेति सुरेति ।मानस्तोकेतिमन्त्रेण गन्धद्वारेत्यनेन
सर्व्वमङ्गलमङ्गल्यैः श्रीश्च ते ग्रहयोगिभिः ।इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः
सर्व्वमङ्गलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् ।आचम्य ततो देवान् गुरुं विप्रांश्च पूजयेत्
ध्वजं छत्रं चामरञ्च घण्टामश्वान् गजांस्तथा ।मन्त्रं जप्त्वा धारयेत्तु ततो गच्छेद्धुताशनम्
तत्र गत्वा वह्निमध्ये वह्निश्रीर्वीक्ष्य पार्थिवः ।अनिमित्तनिमित्तानि लक्षयेत्तत्र विन्दुभिः
दैवज्ञकञ्चुकामात्यवन्दिपौरजनैर्वृतः ।वादित्रघोषैस्तुमुलैस्तथा तौर्य्यत्रिकैः शुभैः
कृत्वा शेषे पुनः शान्तिमाशीर्व्वाच्य वैद्विजान् ।पूर्णां विधाय विघिवद्दक्षिणां कनकान्युत
धान्यानि चाथ वासांसि दत्त्वा कुर्य्याद्विसर्ज्जनम् ।ततः शेषजलैः सर्व्वानमात्यादीन् पुरोहितः ।सेचयेच्चतुरङ्गञ्च बलञ्चापि सराष्ट्रकम्
एबं कृत्वा नृपः पश्चात्त्रिरात्रं संयतो भवेत् ।मांसमैथुनहीनश्च कुर्य्यान्मङ्गल्यसेवनम्
पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते ।तस्यां पूज्या सदा देवी चण्डिका शङ्करेण
पञ्चालिकाविवाहाद्यैः शिशूनां कौतुकैस्तथा ।वैवाहिकेन विधिना मोदयेच्चण्डिकां शिवाम्
चतुष्पथेषु सर्व्वेषु देवदेवीगृहेषु ।पताकाभिरलङ्कुर्य्यादेवं कुर्व्वन्न सीदति
एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् ।चतुरङ्गैः समं राजा भार्य्याभिस्तनयैः सह ।राज्यमण्डलसंयुक्तः परत्रेह सीदति
नातः परतरो यज्ञो नातः परतरोत्मवः ।नातः परतरा शान्तिर्नातः परतरं शिवम्
अनेनैव विधानेन नृपतेरभिषेचनम् ।युवराज्याभिषेकञ्च कुर्य्याद्राजपुरोहितः
नृपाभिषेककरणमादौ यदि समाचरेत् ।अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा
अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा ।एवं यज्ञं नृपो दृष्ट्वा परत्रेह सीदति
”इति कालिकापुराणे पुष्याभिषेकः ८६अध्यायः
वाचस्पत्यम्
Sanskrit
पुष्यस्नान
न०
पुष्यनक्षत्रकाले स्नानम् शास्त्रोक्तविधानेनपुष्यनक्षत्रयुक्तकाले नृपस्याभिषेकभेदे तद्विधानं वृ० सं० ४८अ० दृश्यम् तत्कालश्च तत्रोक्तो यथा “शुभे मुहूर्त्तेसंप्राप्ते पुष्ययुक्ते निशाकरे” पुष्याभिषेकोऽप्यत्र