पुष्पराग (puSparAga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English पुष्पराग puSparAga topaz
पुष्पराग puSparAga flower-hued
पुष्पराग puSparAga flower-hued
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiपुष्परागः
पुष्पम्-रागः -
पुखराज
पुष्परागः
"पुं* , ष*त*" - -
एक प्रकार की मणि
Shabdartha Kaustubha
Kannadaपुष्पराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪುಷ್ಪರಾಗ ಮಣಿ
व्युत्पत्तिः - > पुष्पस्येव रागो वर्णो यस्य
प्रयोगाः - > "तस्य प्रभा निर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी"
उल्लेखाः - > रघु० १८-३२
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritपुष्परागः, (पुष्पस्येव रागो वर्णोऽस्य ।)मणिविशेषः । पुखराज इति भाषा । तत्-पर्य्यायः । मञ्जुमणिः २ वाचस्पतिवल्लभः ३ ।इति भावप्रकाशः ॥
पीतः ४ पीतस्फटिकः ५पीतरक्तः ६ पीताश्म ७ गुरुरत्नम् ८ पीत-मणिः ९ पुष्पराजः १० ॥
(यथा, रघौ । १८ । ३२ ।“तस्य प्रभा निर्ज्जितपुष्परागंपौष्यान्तिमौ पुष्यमसूत पत्नी ॥
”“प्रभया निर्ज्जितः पुष्परागो मणिविशेषो येन ।”इति तट्टीकायां मल्लिनाथः ॥
) अस्य गुणाः ।अम्लत्वम् । शीतत्वम् । वातनाशित्वम् । दीपन-त्वञ्च ॥
* ॥
तस्य धारणगुणः । आयुःश्रीप्रज्ञा-कारित्वम् ॥
* ॥
तस्य लक्षणं यथा, --“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धंस्निग्धञ्च निर्म्मलमतीव सुवृत्तशीतम् ।यः पुष्परागसकलं कलयेदमुष्यपुष्णाति कीर्त्तिमतिशौर्य्यसुखायुरथान् ॥
” * ॥
तस्य कुलक्षणं यथा, --“कृष्णविन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।विच्छायं शर्करागारं पुष्परागं सदोषकम् ॥
”तस्य परीक्षालक्षणे यथा, राजनिर्घण्टे ।“घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् ।न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः ॥
”तस्योत्पत्त्यादि यथा, --सूत उवाच ।“पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः ।प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ॥
आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु ।कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः ॥
आलोहितस्तु पीतः स्वच्छः काषायकः सएवोक्तः ।आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः ॥
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञःस्यात् ।अपि चेन्द्रनीलसंज्ञः स एवं कथितः सुनीलःसन् ॥
मूल्यं वैदुर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्र-विदा ।धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदोभवति ॥
”इति गारडे ७५ अध्यायः ॥
* ॥
प्रकारान्तरम् ।“शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः ।पुत्त्रदो धनदः पुण्यः पुष्परागमणिर्धृतः ॥
दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्बिधा ।पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे ॥
ईषत्पीतच्छविच्छायास्वच्छं कान्त्या मनो-हरम् ॥
पुष्परागमिति प्रोक्तं रङ्गसोममहीभुजा ॥
ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् ।छाया चतुर्व्विधा तस्य सिता पीता सिता-सिता ॥
”इति युक्तिकल्पतरुः ॥
वाचस्पत्यम्
Sanskritपुष्पराग पुष्पस्येव रागो वर्णो यस्य । १ मणिभेदे (पोक-राज) तस्य लक्षणादि युक्तिकल्पतरावुक्तं यथा“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्मलमतीवसुवृत्तशीतम् । यः पुष्परागशकलं कलयेदमुष्य पुष्णातिकीर्त्तिमतिर्शार्य्यसुखायुरर्थान्” तस्य दोषलक्षणं यथा“कृष्णविन्द्वङ्कितं रूक्षं घवलं मलिनं लघु । विच्छायंशर्कराकारं पुष्परागं सदोषकम्” । तस्य परीक्षालक्षणेयथा “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् । नखलु पुष्परागो जात्यतया परीक्षकैरुक्तः” राजनि० ।तस्योत्पत्त्यादि यथा “सूत उवाच । पतिता या हिमाद्रौहि त्वचस्तन्वाः सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्प-रागा महागुणाः । आपीतपाण्डुरुचिरः पाषाणःपुष्परागसंज्ञस्तु । कौरुण्टकनामा स्यात् स एव यदिलोहितापीतः । आलोहितस्तु पीतः स्वच्छः काषा-यकः स एवोक्तः । आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः । अत्यन्तलोहितो यः स एव खलु पद्म-रागः स्यात् सुनीलः सन् । मूल्यं वैदूर्य्यमणेरिवगदितं ह्यस्य रत्नशास्त्रविदा । धारणफलञ्च तद्वत् किन्तुस्त्रीणां शुमप्रदो भवति” गारुडे ७५ अ० । प्रकारान्तरम्शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः । पुत्रदोघनदः पुण्डः पुष्परागो मणिर्धृतः । दैत्यधातुसमुद्भूतःपुष्परागमणिर्द्विधा । पद्मरागाकरे कश्चित् कश्चित्ता-र्क्ष्योपलाकरे । ईषत्पीतच्छविच्छायं स्वच्छं कान्त्यामनोहरम् । पुष्परागमिति प्राक्तं रङ्गसोममहीभुजा ।ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्विधातस्य सिता पीता सितासिता” । क्लीवत्वमपि ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
