| YouTube Channel

पुष्पं (puSpaM)

 
Apte 1890
English
पुष्पं [पुष्प् विकाशे-अच्] 1 A flower, blossom.
2 The menstrual discharge
as in पुष्पवती q. v.
3 A topaz.
4 A disease of the eyes (albugo).
5 The car or vehicle of Kubera
see पुष्पक.
6 Gallantry, politeness (in love language).
7 Expanding, blooming, blossoming (said to be m. in this sense).
Comp.
अंजनं calx of brass used as a collyrium.
अंजलिः a handful of flowers.
अभिषेक = °स्नान q. v.
अंबुजं the sap of flowers.
अवचयः collecting or gathering flowers.
अवचायिन् = पुष्पाजीव q. v.
अस्त्रः an epithet of the god of love.
आकर a. rich or abounding in flowers
मासो नु पुष्पाकरः V. 1. 9.
आगमः the spring.
आजीवः a florist, garland-maker.
आननः a kind of liquor.
आपीडः a chaplet of flowers.
आयुधः,
इषुः the god of love.
आसवं honey.
आसारः a shower of flowers
Me. 43.
उद्रमः appearance of flowers.
उद्यानं a flower-garden.
उपजीविन् m. a florist, gardener, garland-maker.
कालः {1} ‘flower-time, the spring. {2} the time of the menses.
कासीसं green (or black) sulphate of iron.
कीटः a large black bee.
केतनः the god of love.
केतुः the god of love. (
n.) {1} calx of flowers. {2} vitriol (used as a collyrium).
गृहं a flowerhouse, conservatory.
घातकः the bamboo.
चयः {1} gathering flowers {2} a quantity of flowers.
चापः the god of love.
चामरः a kind of cane.
जं the juice of flowers.
दः a tree.
दंतः {1} N. of an attendant of Śiva. {2} N. of the author of the Mahimna stotra. {3} N. of the elephant presiding over the north-west. {4} the sun and moon (dual).
दामन् n. a garland of flowers.
द्रवः {1} the sap or exudation of flowers. {2} an infusion of flowers.
द्रुमः a flowering tree.
धः the offspring of an outcast Brāhmaṇa
cf. Ms. 10. 21.
धनुस्,
धन्वन् m. the god of love
Śi. 9. 41
Ku. 2. 64.
धर a. bearing flowers.
धारणः an epithet of Viṣṇu.
ध्वजः the god of love.
निक्षः a bee.
निर्यासः,
निर्यासकः the sap, nectar, or juice of flowers.
नेत्रं the tube of a flower.
पत्रिन् m. the god of love.
पथः the vulva.
पुटः the calyx of a flower.
पुरं N. of Pātaliputra
R. 6. 24.
प्रचयः,
प्रचायः the plucking or gathering of flowers.
प्रचायिका gathering of flowers.
प्रस्तारः a bed or couch of flowers.
फलः the wood-apple tree.
बलिः an offering of flowers.
बाणः
वाणः an epithet of the god of love.
भवः the nectar or juice of flowers.
मंजरिका a blue lotus.
माला a garland of flowers.
मासः {1} the month of Chaitra, {2} the spring.
रजस् n. the pollen.
रथः a carriage for travelling or for pleasure (but not for war).
रसः the nectar or juice of flowers. °आह्वयं honey.
रागः,
राजः a topaz.
रेणुः pollen
वायुर्विधूतयति चंपकपुष्परेणूत् Kavirahasya
R. 1. 38.
लोचनः the Nāgakeśara tree.
लावः a flower-gatherer. (
वी) a female flower-gatherer
Me. 26
लिक्षः
लिह् m. a bee.
वटुकः a gallant.
वर्षः,
वर्षणं a shower of flowers
R. 12. 102.
वाटिका
वाटी f. a flower-garden.
वृक्षः a tree bearing flowers.
वृष्टिः f. a shower of flowers
R. 12. 94.
वे णी a garland of flowers.
शक्रटी a heavenly voice, voice from heaven.
शय्या a flowery bed, a couch of flowers.
शरः,
शरासनः,
सायकः the god of love.
समयः the spring.
सारः,
स्वेदः the nectar or honey of flowers.
सारा the holy basil.
स्नानं a kind of inauguration.
हासः {1} an epithet of Viṣṇu. {2} the blooming of flowers.
हासा a woman in her courses.
हीना a woman past child-bearing.
Hindi
Hindi
एक फूल
शब्दकल्पद्रुमः
Sanskrit
पुष्पं,
क्ली,
पुष्प्यति विकसति यः (पुष्प फुल्लने +अच् ।) तरुलतादीनां प्रसवः फुल इतिभाषा तत्पर्य्यायः प्रसूनम् कुसुमम् ३सुमनसः इत्यमरः १७
सूनम् ५प्रसवः सुमनः इति शब्दरत्नावली
स्वहस्तपुष्पचयनफलं यथा, --“उपहार्य्याणि पुष्पाणि मम कर्म्मपरायणः ।यो मामुपानयेद्भूमे मम कर्म्मपथे स्थितः
पुष्पाणि तत्र यावन्ति मम मूर्द्धनि धारयेत् ।स कृत्वा पुष्कलं कर्म्म मम लोकाय गच्छति
”अकर्म्मण्यपुष्पदाने दोषो यथा, --वराह उवाच ।“अकर्म्मण्येन पुष्पेण यो मामर्च्चयते भुवि ।पातनं तस्य वक्ष्यामि तच्छृणु त्वं वसुन्धरे !
नाहं तत् प्रतिगृह्णामि ते वै मम प्रियाः ।मूर्खैर्भागवतैर्द्दत्तं मम विप्रियकारिणः
पतन्ति नरके घोरे रौरवे तदनन्तरम् ।अज्ञातस्य दोषेण दुःखान्यनुभवन्ति
वानरो दश वर्षाणि मार्जारश्च त्रयोदश ।मूषकः पञ्च वर्षाणि वलीवर्द्दश्च द्वादश
छागश्चैवाष्ट वर्षाणि मासं वै ग्रामकुक्कुटः ।त्रीणि वर्षाणि महिषो भवत्येव संशयः
एतत्ते कथितं भद्रे ! पुष्पं यन्मे रोचते ।अकर्म्मण्यं विशालाक्षि ! पुष्पं ये ददन्ति वै
”इति वराहपुराणम्
*
देवीप्रियपुष्पाणि यथा, --“पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु संप्रति ।वकुलैश्चैव मन्दारैः कुन्दपुष्पकुरुण्टकैः
करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः ।दमनैः सिन्धुवारैश्च सुरभीमरुवकैस्तथा
लताभिर्ब्रह्मवृक्षैश्च दूर्व्वाङ्कुरैश्च कोमलैः ।मञ्जरीभिः कुशानाञ्च विल्वपत्रैः सुशोभनैः
पूजयेद्वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा ।अन्याश्च याः शिवाप्रीत्यैः जायन्ते पुष्पजातयः
ता इमाः शृणु कीर्त्त्यन्ते मया वेतालभैरव ! ।मालती मल्लिका जाती यूथिका माधवीलता
पाटला करवीरश्च जवा तर्कारिका तथा ।कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः
चम्पकाम्रातकौ वाणो वर्व्वरा मल्लिका तथा ।अशोको लोध्रतिलकौ वटरूषशिरीषकौ
शमीपुष्पञ्च द्रोणञ्च पद्मोत्पलवकारुणाः ।श्वेतारुणे त्रिसन्ध्ये पलाशः खदिरस्तथा
वनमालाथ सेवन्ती कुमुदोऽथ कदम्बकः ।चक्रं कोकनदञ्चैव भण्डिलो गिरिकर्णिका
नागकेशरपुन्नागौ केतक्यञ्जलिका तथा ।दोहदा बीजपूरश्च नमेरुः शालमेव
त्रपुषी चण्डविन्धश्च झिण्टी पञ्चविधा तथा ।एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम्
*
वर्ज्जनीयपुष्पं यथा, --“पुष्यञ्च कृमिसम्भिन्नं विशीर्णं भग्नमुद्गतम् ।सकेशं मूषिकाधूतं यत्नेन परिवर्ज्जयेत्
याचितं परकीयञ्च तथा पर्य्युषितञ्च यत् ।अन्त्यस्पृष्टं पदास्पृष्टं यत्नेन परिवर्ज्जयेत्
”इति कालिकापुराणे ६८ ५४ अध्यायौ
केशवपूजने प्रशस्तपुष्पाणि यथा, --“मालती मल्लिका चैव यूथिका चातिमुक्तकः ।पाटला करवीरञ्च जया सेवतिरेव
कुब्जकस्त्वगुरुश्चैव कर्णिकारः कुरुण्टकः ।चम्पकस्तगरः कुन्दो वाणा वर्व्वरमल्लिका
अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः ।अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने
केतकीपत्रपुष्पञ्च पुष्पं भृङ्गारकस्य ।तुलस्यामलकी चैव सद्यस्तुष्टिकरं हरेः
पद्मान्यम्बुसमुत्थानि रक्तनीले तथोत्पले ।सितोत्पलञ्च कृष्णस्य दयितानि सदा नृप ! ।तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे
”इत्यग्निपुराणम्
*
अपि ।“जाती शताह्वा सुमना कुन्दं बहुपुटं तथा ।वाणञ्च पङ्कजाशोकं करवीरञ्च यूथिका
पारिभद्रं पाटला वकुलं गिरिशालिनी ।तिलकं वनजञ्चैव पीतकं तगरन्त्वपि
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चने ।सुरभीणि तथान्यानि वर्ज्जयित्वा तु केतकीम्
येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्च्चने ।पल्लवान्यपि तेषां स्युः प्रशस्तानि महासुर !
वीरुधानां प्रधानेन वर्हिषाञ्चार्च्चयेत्तथा ।नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः
प्रवालैः शुचिभिः शुद्धैर्जलप्रक्षालितैर्वले ! ।वनस्पतीनामर्च्चेत तथा दूर्व्वाग्रपल्लवैः
”इति वामने ९१ अध्यायः
*
विष्णौ पुष्पविशेषदानस्य फलं यथा, --“आरामप्रभवैः पुष्पैरच्छिद्रैः कीटवर्जितैः ।तथापर्य्युषितैस्तद्बत् कार्त्तिके विष्णुमर्च्चयेत्
वर्णानां हि यथा विप्रस्तीर्थानां जाह्रवी यथा ।देवानाञ्च यथा विष्णुः पुष्पाणां मालती तथा
मालतीमालया देवं योऽर्च्चयेद्गरुडध्वजम् ।जन्मदुःखजरारोगैः कर्म्मभिर्मुक्तिमाप्नुयात्
मालतीमालया येन पूजितः कार्त्तिके हरिः ।पापलक्षायुतं तस्य वत्स ! शौरिः प्रमार्जति
मालतीपुष्पमालाभिः कार्त्तिके पुष्पमण्डपम् ।विष्णोर्गृहे कृतं यैस्तु ते यान्ति परमां गतिम्
जातिपुष्पैर्विरचितां मालां यः संप्रयच्छति ।विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु
कल्पकोटिसहस्राणि कल्पकोटिशतानि ।वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः
यः स्वर्णकेतकीपुष्पैः पूजयेद्गरुडध्वजम् ।अब्दकोटिशतं यावत्तुष्टः स्यात्तस्य वै हरिः
दामोदरं पूजयेद्यः कुसुमैः केतकोद्भवैः ।स वसेद्विष्णुनिलये देवेन सह मोदते
मल्लिकाकुसुमैर्द्देवं योऽर्च्चयेत्त्रिदशेश्वरम् ।कार्त्तिके परया भक्त्या दहेत् पापं त्रिधार्जितम्
सुगन्धैर्मल्लिकापुष्पैरच्युतं योऽर्च्चयेन्मुने ! ।स सर्व्वपापनिर्मुक्तो विष्णुलोके महीयते
वेदधर्म्मेण केनात्र संप्राप्ते मधुमाधवे ।योऽर्च्चयेत् मुनिश्रेष्ठ ! लभते वैष्णवं पदम्
यः पुनः पाटलापुष्पैरर्च्चयेद्गरुडध्वजम् ।सुपुण्यात्मा परं स्थानं प्रयाति हरेर्मुने !
अगस्त्यपुष्पैर्देवेशं येऽर्च्चयन्ति जनार्द्दनम् ।देवर्षे ! दर्शनात्तेषां नरकाग्निः प्रणश्यति
तत् करोति विप्रेन्द्र ! तपसा तोषितो हरिः ।यत् करोति हृषीकेशो मुनिपुष्पैरलङ्कृतः
विहाय सर्व्वपुष्पाणि मुनिपुष्पे केशवम् ।कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत्
मुनिपुष्पकृतां मालां ये यच्छन्ति जनार्द्दने ।शक्रोऽपि तैः समं वत्स ! कुरुते ह्यभिभाषणम्
ददात्यभीप्सितान् कामान् वृक्षचिन्तामणिर्यथा ।कार्त्तिके मुनिपुष्पेण पूजितो गरुडध्वजः
गवामयुतदानेन यत्फलं कार्त्तिके मुने ! ।मुनिपुष्पेण चैकेन कार्त्तिक्यां तत् फलं स्मृतम्
येऽर्च्चयन्ति सुराध्यक्षं करवीरैः सितासितैः ।तेषां वर्षशतं यावत् प्रभुर्भवति केशवः
वकुलाशोककुसुमैर्येऽर्च्चयन्ति जगत्पतिम् ।निःशङ्कास्ते भवन्तीह यावच्चन्द्रदिवाकरौ
अशोककुसुमै रम्यैर्जन्मशोकभयापहम् ।पूजयित्वा हरिं याति पदं विष्णोरनामयम्
शुभगन्धैः सितैर्वत्स ! कुसुमैः पङ्कजोद्भवैः ।अधोक्षजं समभ्यर्च्च्य नरो याति हरेः पदम्
अभ्यर्च्च्य कौसुमैः पुष्पैः केशयं क्लेशनाशनम् ।प्रयाति भवनं विष्णोर्व्वन्दितं त्रिदशैरपि
अटरूषकपुष्पैश्च पूजयेद्यो जगत्पतिम् ।स पुण्यवान्नरो याति तद्विष्णोः परमं पदम्
कार्त्तिके योऽर्च्चयेद्विष्णुं तुलसीविल्वपङ्कजैः ।त्रिदशैरपि पूज्यः शक्यो यमकिङ्करैः
माधवे योऽर्च्चयेद्विष्णुं तुलसीविल्वपङ्कजैः ।त्रिदशैरपि पूज्यः वक्तं शक्यो किङ्करैः
माधवे योऽर्च्चयेद्विष्णुं सुपुष्पैस्तिलकोद्भवैः ।धूतपापो निरातङ्कः विष्णोर्याति तत् पदम्
समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् ।शूद्रोपनीतैश्च हरेः पूजां कुर्व्वन् व्रजत्यधः
तस्माद्विप्रो मुनिश्रेष्ठ ! शिष्येण स्वयमेव वा ।पुष्पादीनि समाहृत्य पूजयेत् परमेश्वरम्
विप्रो दूर्व्वामयैः पुष्पैस्तथा काशकुशोद्भवैः ।तुलसीविल्वपद्मैश्च पूजयेद्देवताः पितॄन्
नार्च्चयेत्तगरैः सूर्य्यं घूर्त्तपुष्पेण केशवम् ।देवीं लकुचपुष्पैश्च शङ्करं नागकेशरैः
”कालविशेषे तस्य पर्य्युषितत्वम् यथा, --“प्रहरं तिष्ठते जाती प्रहरार्द्धन्तु मल्लिका ।त्रियामं मुनिपुष्पञ्च करवीरमहर्निशम्
”आम्रमञ्जरीविल्वपत्रदानफलं यथा, --“मञ्जरीं सहकारस्य ये प्रयच्छन्ति वैष्णवाः ।कार्त्तिके सफलास्ते स्युर्गोकोटिफलभागिनः
कार्त्तिके योऽर्च्चयेद्भक्त्या विल्वपत्रेण केशवम् ।दद्याद्यज्ञायुतफलं केशवस्तस्य वै मुने !
विल्वपत्रेण ये कृष्णं कार्त्तिके कलिमर्द्दनम् ।पूजयन्ति महाभक्त्या मुक्तिस्तेषां करे स्थिता
नागकेशरपुष्पैर्यः पूजयेद्गरुडध्वजम् ।स याति वैष्णवं स्थानं यत्र गत्वा शोचते
कदम्बकुसुमैर्यो वै पूजयेन्मधुसूदनम् ।जन्मायुतार्जितं पापं स्फोटितं तेन नारद !
तथा केतकीपुष्पैर्मालतीकुसुमैस्तथा ।तोषमायाति देवेशः कदम्बकुसुमैर्यथा
दृष्ट्वा कदम्बपुष्पाणि तोषमायाति माधवः ।किं पुनः पूजितो देवः सर्व्वकामप्रदो हरिः
हरिं किंशुकपुष्पैर्यः पूजयेत्त्रिदशाधिपम् ।वैकुण्ठे रमते शश्वत् विष्णुना सह वैष्णवः
वर्षाकाले देवेशं कुमुदैश्चन्दनाचितैः ।योऽर्च्चयेत् परमं विष्णुं संसारे पुनर्व्विशेत्
कुन्दपुष्पैश्च विप्रर्षे ! योऽर्च्चयेद्गरुडध्वजम् ।कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति
शमीपुष्पैश्च देवेशं पूजयेदसुरद्विषम् ।यमं पश्येद्विप्रर्षे ! याति दुर्गतिं नरः
”इति पाद्मोत्तरखण्डे १३१ अध्यायः
*
लक्ष्मीतुल्यप्रियपुष्पाणि यथा, नारदीयसप्तम-सहस्रे ।“मालतीवकुलाशोकशेफालिनवमालिकाः ।अम्लानतगराङ्कोठमल्लिकामधुपिण्डिकाः
यूथिमष्टापदं कुन्दं कदम्बं मधुपिप्पलम् ।पाटला चम्पकं कृष्णं लवङ्गमतिमुक्तकम्
केतकं कुरुवकं विल्वं कह्लारकरकं द्विजम् ।पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यप्रियाणि मे
”केशवार्च्चने निषिद्धपुष्पाणि यथा, विष्णुधर्म्मोत्तरे ।“उग्रगन्धीन्यगन्धीनि कुसुमानि दापयेत् ।अन्यायतनजातानि कण्टकीनि तथैव
रक्तानि यानि धर्म्मज्ञ ! चैत्यवृक्षोद्भवानि ।श्मशानजातान्यन्यानि यानि चाकालजानि
”तथा ।“कुटजं शाल्मलीपुष्पं शिरीषञ्च जनार्द्दने ।निवेदितं भयं रोगं निःस्वत्वञ्च प्रयच्छति
बन्धुजीवकपुष्पाणि रक्तान्यपि दापयेत् ।अनुक्तरक्तकुसुमदानात् दौर्भाग्यमाप्नुयात्
”परारोपितवृक्षस्य पुष्पग्रहणे दोषः अगस्त्यः ।“परारोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्च्चयेत् ।अविज्ञाप्य तस्यैव निष्फलं तस्य पूजितम्
”एतद्द्विजेतरपरम् ।“द्विजस्तृणैधःपुष्पाणि सर्व्वतः स्ववदाहरेत्
”इति याज्ञवल्क्यात्
“देवाद्यर्थन्तु कुसुममस्तेयं मनुरब्रवीत्
”इति वचनात्
“गोऽग्न्यर्थे तृणमेधांसि वीरुद्वनस्पतीनाम् ।पुष्पाणि स्ववदाददीत फलानि चापरिबृंहि-तानि
”इति गोतमवचनाच्च
द्विजेतरस्य दण्डोऽपि ।“तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।अप्रयच्छन्निगृह्णानो हस्तच्छेदनमर्हति
”इति स्मृतेः
*
देवोपरि धृतं मस्तकोपरि धृतं अधोवस्त्रधृतंअन्तर्जलक्षालितञ्च पुष्पं दुष्टमिति हरिभक्ति-नामके ग्रन्थे
अभिवाद्याभिवादककरस्थपुष्पंप्रोक्षणात् कर्म्मण्यम् इति केचित्
*
याचितादिपुष्पदानस्य निष्फलत्वम् याचितंनिष्फलं पुष्पं क्रयक्रीतञ्च निष्फलमिति वदन्ति ।वामहस्तचितादिपुष्पस्यादेयत्वं यथा, --“न पुष्पच्छेदनं कार्य्यं देवार्थं वामहस्ततः ।न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः
”समित्पुष्पादीनां स्वयमाहरणीयत्वं हारीत-शातातपौ ।“समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।शूद्रानीतैः क्रयक्रीतैः कर्म्म कुर्व्वन् पतत्यधः
”क्रये प्रतिप्रसवमाह ब्रह्मपुराणम् ।“पुष्पैर्धूपैश्च नैवेद्यैर्वीरक्रयक्रियाहृतैः
”वीरक्रयो वीरवत् याच्ञाशून्येन विक्रेतुरुपन्यस्त-मूल्येन क्रयः
*
पुष्पदानप्रकारो ज्ञान-मालायाम् ।“पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् ।पुष्पाञ्जलिविधिं हित्वा यथोत्पन्नं तथार्पणम्
”मध्याह्नस्नानानन्तरं पुष्पचयनस्य दोषो यथा, --“स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वैद्विजाः ।देवतास्तन्न गृह्णन्ति भस्मीभवति दारुवत्
”एतत्तु द्वितीयस्नानाभिप्रायम् इति रत्नाकरः
व्यक्तं मत्स्यसूक्ते ।“स्नात्वा मध्याह्नसमये छिन्द्यात् कुसुमं नरः ।तत्पुष्पस्यार्च्चने देवि ! रौरवे परिपच्यते
”पुष्पाभावे देयानि यथा, विष्णुधर्म्मोत्तरे ।“पुष्पाभावेऽपि देयानि पत्राणि जनार्द्दने ।पत्राभावे जलं दद्यात्तेन पुण्यमवाप्यते
*
पुष्पदानमाहात्म्यं यथा, --“न रत्नैर्न सुवर्णेन वित्तेन भूरिणा ।तथा प्रसादमायाति यथा पुष्पैर्जनार्द्दनः
*
देवताविशेषे वर्ज्जनीयपुष्पं यथा, शातातपः ।“शिवे विवर्ज्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा ।देवीनामर्कमन्दारौ सूर्य्यस्य तगरन्तथा
*
पुष्पविशेषाणां कालिकपर्य्युषितत्वम् भविष्ये ।“पद्मानि सितरक्तानि कुमुदान्युत्पलानि ।एषां पर्य्युषिताशङ्का कार्य्या पञ्चदिनोत्तरम्
”पुष्पविशेषस्यापर्य्युषितत्वं यथा, --“तुलस्यगस्त्यविल्वानां पर्य्युषितात्मता
”योगिवीतन्त्रे ।“विल्वपत्रञ्च माघ्यञ्च तमालामलकीदलम् ।कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् ।एतत् पर्य्युषितं स्यात् यच्चान्यत् कलिका-त्मकम्
”कलिकात्मकं प्रस्फुटनयोग्यम् इत्येकादशी-तत्त्वम्
राघवभट्टमते पुष्पविशेषाणां कालिक-पर्य्युषितत्वं यथा, --“विल्वापामार्गजातीतुलसिशमिशताकेतकीभृङ्ग-दूर्व्वामन्दाम्भोजाहिदर्भा मुनितिलतगरब्रह्मकह्लार-मल्ली ।चम्पाश्वारातिकुम्भीदमनमरुवका विल्वतो-ऽहानि शस्ता-स्त्रिंशत्त्र्येकार्य्यरीशोनिधिनिधि-वसु-भू-भू-यमाभूय एवम्
”अस्यार्थः शता शतावरी मन्दः मन्दारः ।अहिर्नागकेशरः मुनिरगस्त्यः अश्वारातिःकरवीरः कुम्भी पाटला विल्वमारभ्य अहि-पर्य्यन्तं गणयित्वा दर्भमारभ्य पुनस्त्रिंशदादिगणयेत् एतद्दिनोत्तरं पर्य्युषितानीत्यर्थः इतिपदार्थादर्शः
*
पुष्पक्रीडायां वर्णनीयानि यथा, पुष्पचयनम् पुष्पार्पणे दयितार्थिता माला ३गोत्रस्खलनेर्ष्या वक्रोक्तिः सम्भ्रमाश्लेषः ।इति कविकल्पलता
(घोटकलक्षणविशेषः ।यथा, अश्ववैद्यके ८२ -- ९२ ।“आगन्तवस्तुरङ्गस्य ये भवन्त्यन्यवर्णगाः ।विन्दवः पुष्पसंज्ञास्तु ते हिताहितसंज्ञकाः
तेषां प्रदेशभेदेन लक्षणं यद् व्यवस्थितम् ।तत्तथैव समासेन विस्पष्टं कोर्त्त्यतेऽधुना
अपाने ललाटे भ्रुवोर्मर्द्धनि कर्णयोः ।निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम्
स्कन्धे वक्षसि कक्षे मुष्कयोर्बाहुकेशयोः ।हन्वोः पृष्ठे वाहानां पुष्पं स्वामिहित-प्रदम्
नाभौ केशे तथा कण्ठ दन्ते चव हि वाजिनाम् ।पुष्पं धन्यतमं प्रोक्तं भर्त्त्रुः सर्व्वार्थसाधकम्
अप्रशस्तानि दृष्टानि मुनिभिर्यानि वाजिनाम् ।तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यागमदर्शनात्
अधरोष्ठे कठे प्रोथे उत्तरौष्ठे तथैव ।घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः
ग्रीवायाञ्च वहे चैव सृक्कणोः स्थूरके स्फिचि ।पायौ क्रोडे पुष्पाणि निन्दितानीति निश्चयः
रक्तं पीतं तथा कृष्णं पुष्पं सर्व्वत्र नेष्यते ।शुभप्रदेशसञ्जातं भवेत् साधारणं ततः
पुत्रलाभं धनप्राप्तिमारोग्यं विजयं तथा ।विन्द्यात् पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम्
सर्व्वाङ्गपुष्पितो वाजी परित्याज्जो संशयः
”)स्त्रीरजः (यथा, मार्कण्डेये ५१ ४२ ।“स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका
”)विकाशः इति मेदिनी पे,
धनदस्यविमानम् नेत्ररोगविशेषः इति हेमचन्द्रः
फुली इति भाषा
अस्यौषधं यथा, --“हरीतकी वचा कष्ठं पिप्पली मरिचानि ।विभीतकस्य मज्जा शङ्खनाभिर्मनःशिला ।सर्व्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत्
नाशयेत्तिमिरं कण्डू पटलान्यर्व्वुदानि ।अधिकानि मांसानि यश्च रात्रौ पश्यति
अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत् ।वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी
”इति चक्रपाणिदत्तः
(अस्य चिकित्सान्तरं यथा, --“पूर्व्वाहारविहारैस्तु नेत्रे पुष्पञ्च जायते ।प्रथमं सुखसाध्यं स्यात् द्वितीयं कष्टसाध्यकम्
तृतीयं शस्त्रसाध्यन्तु चतुर्थन्तदसाध्यकम् ।शङ्खपुष्पं तथा रोघ्रं शङ्खनाभिर्मनःशिला
काञ्जिकेन तु संपेष्य छायाशुष्का भिषग्वर ! ।वातिके काञ्जिकेनापि पैत्तिके पयसा हिता
श्लैष्मिके मूत्रसंयुक्ता पुष्पस्याञ्जनतो हिता ।”इति हारीते चिकित्सितस्थाने चतुश्चत्वारिंश-त्तमेऽध्याये
)