पुरुषकार (puruSakAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English पुरुषकार puruSakAra virility
पुरुषकार puruSakAra haughtiness
पुरुषकार puruSakAra heroism
पुरुषकार puruSakAra manly act
पुरुषकार puruSakAra pride
पुरुषकार puruSakAra human effort
Wilson
EnglishMonier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiपुरुषकारः
पुरुषः-कारः -
"मानवप्रयत्न, मनुष्यचेष्टा, मर्दाना काम, मर्दानगी, पराक्रम"
पुरुषकारः
पुरुषः-कारः -
"पौरुष, वीर्य"
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishAbhyankara Grammar
Englishपुरुषकार name of a commentary on the Sarasvatikaņthābharaņa of Bhoja by Kŗşņalilāśukamuni.
शब्दकल्पद्रुमः
Sanskritपुरुषकारः, (पुरुषस्य कारः करणम् ।) पुरु-षस्य कृतिः । पौरुषम् । चेष्टा । यथा, --मनुरुवाच ।“दैवे पुरुषकारे च किं ज्यायस्तं ब्रवीहि मे ।अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः ॥
मत्स्य उवाच ।स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् ।तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते ।मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥
येषां पूर्व्वकृतं कर्म्म सात्त्विकं मनुजोत्तम ! ।पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥
कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् ।कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥
पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः ।दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥
तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् ।पौरुषं दैवदम्पत्या काले फलति पार्थिव ! ॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! ।त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥
कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः ।एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम् ॥
लालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्त्वालसान् दैवपरान् मनुष्या-नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।अन्विष्य यत्नाद्बृणुते नृपेन्द्र !तस्मात् सदोत्थानवता हि भाव्यम् ॥
”इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः ॥
(यथा च नीतिशास्त्रे ।“यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।तथा पुरुषकारेण विना दैवं न सिध्यति ॥
”)
वाचस्पत्यम्
Sanskritपुरुषकार कृ--भावे घञ् ६ त० । पुरुषचेष्टिते पौरुषेदैवात् पुरुषकारस्य प्राधान्यमुक्तं मत्स्यपु० १९५ अ० यथा“स्वमेव कर्म दैवाख्यं बिद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः । प्रतिकूलन्तथा दैवंषौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थान-शालिनाम् । येमां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम! ।पौरुषेण विना तेषां केपाञ्चिद्दृश्यते फलम् । कर्मणाप्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्मणाविद्धि तामसस्य तथा फलम् । पौरुषेणाप्यते राजन्!मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौ-रुषवर्जिताः । तस्मात्त्रिकालसंयुक्तं दैवं न सफलंभवेत् । पौरुषं दैवसम्पत्त्या काले फसति पाथिव! ।दैवं पुरुपकारश्च कालश्च मनुजोत्तम! । त्रयमेतन्मनुष्यस्यपिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगाद्-द्वश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैबाकालेकथञ्चन । तस्मात् सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः ।एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रुवम् । नालसाःप्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्वप्रयत्नेनंपौरुषे यत्नमाचरेत् । त्यक्त्वालसान् दैवपरान् मनुष्या-नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्ना-द्वृणु ते नृपेन्द्र! तस्मात् लदोत्थानवता हि भाव्यम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
