| YouTube Channel

पुरीषं (purISaM)

 
Apte 1890
English
पुरीषं [पॄ-ईषन् किच्च Uṇ. 4. 27] 1 Feces, excrement, ordure
Ms. 3. 250, 5. 123, 6. 76
4. 56.
2 Rubbish, dirt.
3 Ved. Water.
Comp.
आधानं the rectum.
उत्सर्गः voiding excrement.
निग्रहणं obstruction of the bowels.
शब्दकल्पद्रुमः
Sanskrit
पुरीषं,
क्ली,
(पिपर्त्ति शरीरमिति + “शॄ-पॄभ्यां किच्च ।” उणा० २७ इति ईषन् चकित् ।) विष्ठा इत्यमरः ६९
तदुत्सर्गविधिर्यथा, --“मुहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् ।परिधायापरं वस्त्रं शयनस्थानतोऽन्वहम्
मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः ।कृष्ण कृष्ण स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम्
खनित्रखननेनैव द्बादशाङ्गुल्यधोमृदम् ।गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुःशतम्
ग्रामाद्बा शरविक्षेपमात्रामनुदिते रवौ ।मैत्रमावश्यकं कर्त्तुं नगराच्च चतुर्गुणाम्
तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् ।कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम्
शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः ।संवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः
छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ ।ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम्
यज्ञोपवीतं कर्णेऽथ धृत्वा मौनी दक्षिणे ।आगतो द्बिजमग्निं नोपश्यन् सन्तञ्च भास्करम्
गुरुं समीरणं सर्व्वदेवतामूर्त्तिमेव ।मातरं पितरं चन्द्रं सर्व्वं गुरुजनं स्त्रियम्
*
उदङ्मुखस्त्रिसन्ध्यासु दिवसे यदा निशि ।दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीषयोः
पूर्व्वाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथवा ।अपराह्णे पूर्व्वमुखी मूत्रगूथविसर्जनम्
मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः ।दक्षिणाभिमुखो रात्रौ द्बिजो मैत्रं प्रयत्नतः
निशायामन्धकारे तु छायायां दिवसे तथा ।यथेच्छसुमुखो भूत्वा मैत्रं कुर्य्यात् द्बिजो भयात्
दिग्भ्रमाच्च मनोदुःखाद्बिण्मूत्रस्य विसर्ज्जनम् ।मोहाद्वाधोमुखः कुर्य्याद्यतवाक् प्रयतो द्विजः
सन्न्यासी ब्रह्मचारी वानप्रस्थो गृही द्विजः ।शाखाध्यायी वेदानां सर्व्वयज्ञेषु दीक्षितः
मुनिश्च सर्व्वधर्म्मज्ञो दान्तः शान्त उदारधीः ।सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव
प्रातश्च मैत्रं सायाह्ने दक्षिणाभिमुखो निशि ।योगिनान्तु यथा स्त्रीणां शूद्रादीनामयं क्रमः
देवायतने वृक्षमूले जले नदे ।न नदीकूपमार्गेषु वापीगोष्ठभस्मसु
चिताग्निश्मशानेषु नोषरे द्बिजालये ।नाम्भःसमीपे पुण्ड्रे नाकाशे शाद्वले
समुद्रे काम्ये तीर्थे द्विजालये ।न यज्ञवृक्षमूलेषु नोपद्वारे चतुष्पथे
शस्यक्षेत्रे खले पुष्पोद्याने चत्वरे ।सोपानत्को नग्नश्च रथ्यासेव्यभूतले
वैष्णवालये गोत्रे सूर्य्याभिमुखस्तथा ।न फालकृष्टकेदारे तिष्ठंश्च कदाचन
गच्छन्न वल्मीके पर्व्वतमस्तके ।न जलं दिशो भागान्नाकाशमवलोकयन्
गोव्रजे नदीतीरे नित्यस्थाने गोमये ।न यज्ञभूमौ गृहे पंवित्रीकृतस्थले
द्विजो देहच्छायायां शकृन्मूत्रविसर्जनम् ।कुर्य्याद्यज्ञेष्टकाकूटे सप्राणिगर्त्तके
उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद ! यत्नतः ।कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः
शुष्ककाष्ठेन लोष्ट्रेणायज्ञीयेन तृणेन वा ।प्रमार्ज्य गुह्यमुत्तिष्ठेत् शिश्नञ्चैव विशेषतः
विधृत्य वामहस्तेन शिश्नन्तूपविशेन्निशि ।चेद्दक्षिणामुखः सन्ध्यां दिवोत्तरमुखस्तदा
पूतिगन्धिजलं दुष्टं सफेनञ्च सबुद्वुदम् ।तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा
समुद्रगानदीवारः सासुद्रञ्च सकर्द्दमम् ।यवनान्त्यजखाताम्भः समुद्रगनगोदकम्
धान्यक्षेत्रस्य सलिलं सकीटञ्च परित्यजेत् ।मानवो देवखाताम्भः सकले शौचकर्म्मणि
*
मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः ।नदोदधिनदीदेवखाततीरस्य मृत्तिकाः
महीतलोद्भवाः क्षेत्रकूड्ययोः सिकताश्च याः ।अन्तर्जला धूलिमृदो वल्मीकस्य कर्द्दमाः
ऊषराश्च हलोत्ख्याता मृत्तिका भवनस्य ।अश्वत्थतुलसीघात्रीमूलादीनाञ्च या मृदः
श्मशानभूमेः शैलस्य तथा पूतस्थलस्य ।शौचावशिष्टमार्गस्य आखूत्खाताश्च मृत्तिकाः
यज्ञस्थानस्य विप्राणां साधूनामालयस्य ।मृत्तिका वर्जयेदेता देवर्षे ! शौचकर्म्मणि
पवित्रस्थानतो ग्राह्या द्वादशाङ्गुल्यधोमृदः ।द्विजैः सकलशौचार्थं शर्करादिविवर्जिताः
*
प्रथमेऽद्भिर्नरः शौचं कुर्य्यान्मृद्भिरतः परम् ।पुनर्जलैः पुरीषस्य यथा गन्धक्षयो भवेत्
मृत्तिका प्रथमा शौचे त्वर्द्धप्रसृतिसम्मिता ।पूर्णप्रसृतिमात्रा तु द्वितीया सजला तथा
तृतीया प्रमिता शौचे सार्द्धप्रसृतिमृत्तिका ।चतुर्थ्याद्या क्रमादेवमर्द्धप्रसृतिवर्द्धिता
यया मृत्तिकया पूर्य्यं त्रिपर्व्व शौचकारिणः ।अर्द्धप्रसृतिमात्रा सा मुनिभिः परिकीर्त्तिता
गुदे दद्यान्मृदस्तिस्रः पञ्च वा सप्त वा तथा ।मृदमेकां तथा शिश्ने तिस्रो वा मृत्तिका द्बयम्
सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्द्दश ।तिस्रो वा हस्तयोः सप्त चतुर्द्दश षोडश
पाण्योरेकां मृदं पृष्ठे षड्वा तिस्रश्च मृत्तिकाः ।हस्तद्वयनखेष्वेकां तिस्रश्च षड्मृदस्तथा
*
मैथुने रेतःस्खलने मूत्रोत्सर्गे मृद्द्वयम् ।दद्यात्तिस्रश्च शिश्नैकां तिस्रो वामकरे मृदः
हस्ते मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः ।पदैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत्
गृहिणो द्बिगुणं शौचं यत्नतो ब्रह्मचारिणाम् ।गृहस्थवानप्रस्थानां प्रोक्तं त्रिगुणमेव
सन्न्यासिनां वैष्णवानां शौचं सेव्यं चतुर्गुणम् ।हस्तपाद्बारिपात्रन्तु मृद्भिरद्भिश्च गोमयैः
दिवा यद्विहितं शौचं निशायामर्द्धकं भवेत् ।एतदर्द्धमशौचे तु जातके मृतकेऽपि
चौरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत् ।योषितामेतदर्द्धन्तु शूद्रादीनाञ्च नारद !
व्याधिभिश्चातुरो मर्त्य आर्त्तो यदि यथाबलम् ।शौचं कुर्य्यात् कृतं यत्र तत् स्थानं शोधयेज्जलैः
वेदस्मृतिपुराणानि धर्म्मशास्त्राणि नैत्यिकम् ।मैत्रादिकर्म्म यः कुर्य्याद्विहाय मन्दधीर्द्विजः
प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्ति यशः श्रियम् ।बलमाचारहीनस्य सदा तस्यापवित्रता
*
सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः स्त्रियः ।कुर्व्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता
येषां कृष्णस्य मननं तथा नामप्रजल्पनम् ।सदैव स्मरणं भागवतानां साधुसेवनम्
भक्तिप्रधौतमनसां गोविन्दार्पितकर्म्मणाम् ।बाह्यान्तःकृष्णचित्तानां शुचिता तदहर्निशम्
मृद्गोमयजलैः शौचमनेकैः कुरुते यदि ।मनोऽपवित्रता यस्य कदाचिद्वै शुध्यति
गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि ।सोऽपि देहाशुचिः कृत्वा शौचं मैत्रादिकर्म्मसु
शतधा यदि देवर्षे शौचं कुर्य्यात् सहस्रधा ।मृद्वारिगोमयैर्लोको भावदुष्टो शुध्यति
सदा चित्तापवित्रत्वमकार्ष्णो भुवि यो नरः ।तस्य तु स्यान्न मैत्रादिशौचेनैव शुध्यति
पर्व्वताकारकूटैश्च गोविट्सर्व्वनदीजलैः ।शौचं कृत्वा शुध्येत दुष्टचित्तो भवेद्यदि
”इति पाद्मोत्तरखण्डे १०९ अध्यायः
(उदकम् इति निघण्टुः १२
“पूरयतिजगत् प्रलयकाले पूर्य्यते अनेन तडाकादि पालकंवा जगतः शस्योत्पत्तिहेतुत्वात् प्रीणातेर्वाबाहुलकात् कीषन्प्रत्ययः ईकारस्योकारा-देशः पकारात् परो द्रष्टव्यः ।” इति तत्रदेवराजयज्वा
यथा, ऋग्वेदे १६३ ।“यदक्रन्दः प्रथमं जायमानउद्यन्त्समुद्रादुत वा पुरीषात्
”“पुरीषात् सर्व्वकामानां पूरकादुदकात्
”इति तद्भाष्ये सायनः
)