| YouTube Channel

पुरितत् (puritat)

 
Monier Williams Cologne
English
पुरितत् w.r. for पुरीतत्,
L.
वाचस्पत्यम्
Sanskrit
पुरि(री)तत् स्त्री पुरीं देहं तनोति तन--क्विप् देहा-रम्भके (आँत) अन्त्राख्ये नाडीभेदे पुरि देहे तनोतिआच्छादयति हृदयादि अलुक्स० ह्रस्वमध्यः हृदया-च्छादके मांसभेदे यजु० ३९ दीर्घपाठः अन्यत्र ह्रस्व-पाठः देहे “यदा सुप्तो कञ्चन वेद हिता नामनाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततममि-प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” शत० ब्रा०१४५ २१ “यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शन-वृत्ति स्वप्नं हित्वा सुषुप्तः विशेषज्ञानाभावेन सम्प्र-सादस्वस्वरूपं ब्रह्मैक्यं गतो भवति हृदयं नामो-दरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांस-पिण्डस्तत्परिवेष्टनं पुरीतदित्युच्यते इह पुनस्तदुप-लक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम् तथा चहृदयात् पुरीततं शरीरमभिप्रतिष्ठन्त इति कृत्स्नंशरीरं व्याप्नुवन्त्योऽश्वत्थं पर्णराजय इव बहिर्मुखाःअभितो निःसरन्ति ताभिर्वाडीभिः कृत्वा जाग्रद्-विमयाया बुद्धेः कर्मवशात् पत्यवसर्पणमनु विज्ञानमयआत्मा प्रत्यवसृप्येन्द्रियाण्युपसंहृत्य पुरीतति शेतेअग्निवत् तप्तं लोहपिण्डमविशेषेण संव्याप्य वर्त्तते” भा०