| YouTube Channel

पुनर्भूः (punarbhUH)

 
Wordnet
Sanskrit
Synonyms:
पुनर्भूः
noun
विधवा या पुनरूढा।
"हेमा पुनर्भूः अस्ति, तस्याः पतिः युद्धे मृतः।"
शब्दकल्पद्रुमः
Sanskrit
पुनर्भूः,
स्त्री,
(पुनर्भवति जायात्वेनेति भू +क्विप् ।) द्विरूढा तत्पर्य्यायः दिधिषूः ।इत्यमरः २३
“अक्षतयोनित्वाद्विधवापुनरुह्यते इत्यसावन्यस्य भूत्वा अन्यस्य पुन-र्भवतीति क्विपि पुनर्भूः धिष्यते निन्दिततयाशब्द्यते द्बिधिषूः धिष शब्दे नाम्नीति कूः निपा-तनाद्द्वित्वम् ।” इति तट्टीकायां भरतः
सात्रिविधा यथा, --“परपूर्व्वास्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्व्विधा
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा
देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।उत्पन्नसाहसान्यस्मै सा द्बितीया प्रकीर्त्तिता
उत्पन्नसाहसा उत्पन्नव्यभिचारा ।असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता
”इति मिताक्षरा
*
पुनर्व्वारजाते, त्रि