| YouTube Channel

पुत्त्र (puttra)

 
शब्दसागरः
English
पुत्त्र(त्र)
m.
(-त्त्रः)
1. A son.
2. A child, in the language of the Vedas.
3. The fifth mansion from the point of conjunction of the sun, and
a zodiacal sign.
f.
(-त्त्री) A daughter. du. always, (-त्त्री) Son and
daughter.
E.
पुत्, and त्रा to preserve, the hell, (from, )
aff.
or
पूज् to purify,
aff.
त्त्र
one may be rejected in writing this word,
and its derivatives, leaving पुत्र. The word is thus derived by
Manu. viz:--
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः
तस्मात्पुत्र इति प्रोक्तः खयमेव स्वयंभूवा ॥”
Yates
English
पुत्त्र (त्त्रः) 1.
m.
A son.
f.
(त्त्री) A
daughter. Also पु-त्रः, पु-त्री.
Wilson
English
पुत्त्र
m.
(-त्त्रः)
1 A son.
2 A child, in the language of the Vedas.
3 The fifth mansion from the point of conjunction of the sun, and a zodiacal
sign.
f.
(-त्त्री) A daughter. du. always, (त्त्रौ) Son and daughter.
E.
पुत्, and त्रा to preserve, the hell, (from, )
aff.
or पूञ्
to purify,
aff.
त्त्र
one may be rejected in writing this word, and
its derivatives, leaving पुत्र.
Shabdartha Kaustubha
Kannada
पुत्त्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಗ
निष्पत्तिः - > पूञ् (पवने) - "क्त्रः" ह्रस्वश्च (उ० ४-१६४), त्रैङ् (पालने) - "कः" (३-२-४)
व्युत्पत्तिः - > पुनाति पित्रादीन्, पुत्नाम्नो नरकात् त्रायते इति
विस्तारः - > "पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥" - मनु० ९-१३८
वाचस्पत्यम्
Sanskrit
पुत्र(त्त्र)
पु०
पू--क्त्र ह्रखश्च पुतो नरकभेदात् त्रायते त्रै--कवा स्वजन्यपुरुषे स्वजन्यायां स्त्रियां स्त्री ङीष् ।निरुक्ते तु ११ अन्या व्युत्पत्तिरुक्ता “पुत्र पुरु त्रायतेनिपरणाद्वा पुत् नरकं तस्मात् त्रायते वा” पृषो० ।“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः तस्मात्पुत्र इति पोक्तः” मनुः तेनास्य एकतकारता द्वितका-रता तस्यापत्यं विदा० अञ् पात्र तदपत्ये पुंस्त्री०हरितादि० यूनि फक् पौत्रायण पुत्रस्य यून्थपत्ये पुंस्त्री०राजदन्ता० पतिपशुशब्दाभ्यां समासे पतिपशुशब्दयोःपरनि० पत्युःपुत्रः पुत्रपतिः पशोः पुत्रः पुत्रपशुः चगौणमुख्य भेदेन द्वादशविधः द्वादशपुत्रशब्दे १८०१ पृ० दृश्यम्अन्यथापि ते चतुर्विधाः यथा “ऋचसम्बन्धिनः केचित् के-चिन्न्यासापहारकाः रिपवश्च प्रियाश्चेति स्वकर्मवशव-र्त्तिनः मेदैश्चतुर्भिर्जायन्ते पुत्रा मित्राः स्त्रियस्तथा ।भार्या पिता माता भृत्याः स्वजनबान्धवाः स्वेनस्वेन हि जायन्ते सम्बन्धेत महीतले न्यासापहरणंपूर्वं यस्य यस्य कृतं भुवि न्यासस्वामी भवेत् पुत्रो गुण-वान् रूपवान् भूवि येन चापहृतो न्यासस्तस्य गेहे नसंशयः न्यासापहरणाद्दुःखं दत्त्वा दारुणं गतः ।न्यासस्वामी पुत्रोऽभून्न्यासापहारकस्य गुणवान्रूपवाश्चैव सर्वलक्षणसयुतः मक्तिञ्च दर्शयेत्तस्य पुत्रोभूत्वा दिने दिने प्रियवाक्यधरो वापि वहुस्नेहं प्रदर्श-येत् स्वीयं द्रव्यं समुद्राद्यं प्रीतिमुत्पाद्य चातुलाम ।भुक्त्वा तु पोषणात्तेन तदादाय पुनर्व्रजेत् यथा तेनप्रदत्तं तन्न्यासापहरणात् पुरा दुःखमेवं महत् कृत्वादारुणं प्राणनाशनम् तादृशं तस्य दद्यात् पुत्रोभूत्वा महागुणैः अल्पायुषस्तथा भूत्वा मरणं यान्तिते तथा दुःखं दत्त्वा प्रयान्त्येवं प्रकृत्यैवं पुनः पुनः ।यदाह पुत्र पुत्रेति प्रलापं हि करोति सः तदा हास्यंकरोत्येष कः पुत्रो हि कस्य अनेनापि हृतोन्यासी मदीयः परिचारिणा द्रव्यापहारोऽपि पितापूर्वमद्यैव तस्य पिशाचत्वं मया दत्तमद्यैव हिदुरात्मनः द्रव्यापहरणेनापि मम प्राणा गताः किल ।दुःखेन महता चैव यथाहं पीडितः पुरा तथा दुःखंप्रदत्त्वाहं द्रव्यं मुद्राड्यमुत्तमम् भोगेन सर्वमादाय चि-राद्विश्वास्य सौम्यवत् गतोऽस्मि स्वगृहञ्चाद्य कस्याहंसुत ईदृशः चैषोऽपि पिता पूर्बमद्यैव कस्य-चित् पिशाचत्वं मया दत्तमद्यैव दुरात्मनः एव-मुक्त्वा प्रयात्येव तं प्रहस्य पुनः पुनः प्रयात्यनेन मा-र्गेण दुःखं दत्त्वा सुदारुणम् एवं न्यासस्य सम्बन्धात्पुत्राः केचित् भवन्ति वै संसारे दुःखबहुला दृश्यन्तेयत्र तत्र हि ऋणसम्बन्धिनः पुत्रान् प्रवक्ष्यामि तवा-ग्रतः ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ।अतस्तस्य सुतो भूत्वा म्राता वाथ पिता प्रियः मित्र-रूपेण वर्त्तेत अन्तर्दुष्टः सदैव सः गुणं नैव प्रपश्येतस क्रूरो निष्ठुराकृतिः जल्पते निष्ठुरं वाक्यं सदैवस्वजनेषु नित्यमिष्टं समश्नाति भोगान् भुञ्जीत नि-त्यशः द्यूतकर्मरतो नित्यं चौरकर्मणि नित्यशः गृ-हाद्द्रव्यं बलाद्धर्त्ता वार्यमाणः प्रकुप्यति पितरंमातरञ्चैव कुत्सते दिने दिने द्रावकस्त्रासकञ्चैव वहुनिष्ठुरजल्पकः वञ्चयित्वैव मुद्राञ्च हृत्वा सुखेन ति-ष्ठति जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः ।पुनर्विवाहसंयोगान्नानाभेदैरनेकधा एवं संक्षीयते द्रव्यंनैवमेतद्ददात्यपि गृहक्षेत्रादिकं सर्वं ममैव हि नसंशयः पितरं मातरञ्चैव वदत्येवं दिने दिने ।सुदण्डैर्मूषलैश्चैव कषाघातैस्तु दारुणैः मृते तु तस्मिन्पितरि तथा मातरि निष्ठुरम् निःस्नेहो निर्घृणश्चैवजायते नात्र संशयः एवांविधास्ततः पुत्रा भवन्ति चमहीतले रिपुपुत्रं प्रवक्ष्यामि तवाग्रं द्विजपुङ्गव! ।बाल्ये वयसि सम्प्राप्ते रिपुवद्वर्त्तते सदा पितरं मातर-ञ्चैव क्रीडमानो हि ताडयेत् ताडयित्वा प्रयात्येवंप्रहस्यैव पुनःपुनः पुनरायासितं तत्र पितरं मातरंपुनः सक्रोघो वर्त्तते नित्यं नैरकर्मणि सर्वदा पितरंमारयित्वा तु मातरञ्च पुनःपुनः प्रयात्येवं दुष्टात्मापूर्णवैरामुभावतः अयातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् जातमात्रः प्रियं कुर्य्याद्गाल्ये गमनक्रीडनैः ।वयः प्राप्य प्रियं कुर्य्यान्नातापित्रोरनन्तरम् भक्त्यासन्तोषयेत् नित्यं तावुभौ परिपालयेत् स्नेहेन वचसाचैष प्रियसम्भाषणेग मृतौ गुरू समाज्ञाय स्नेहेन-रुदते पुनः श्राद्धकर्माणि सर्वाणि पिण्डदानादिकांक्रियाम् करोत्येवं सुदुःखार्त्तस्तेभ्यो यात्रां प्रय-च्छति ऋणत्रयान्वितः स्नेहान्निर्यापयति निश्चितः ।यस्माल्लभ्यं भवेत् कान्तं प्रयच्छति संशयः पुत्रोभूत्वा महाप्राज्ञ अनेन विधिना किल उदासीनं प्रव-क्ष्यामि तवाग्रे द्विज साम्प्रतम् उदासीनेन मावेन सदैव परिवर्त्तते ददाति नैव गृह्णाति क्रुध्यनि नतुष्यति नैवोपयाति संत्यज्य उदासीनो द्विजोत्तम! ।तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी यथा पुत्रा-स्तमा मार्य्या पिता माताथ बान्धवाः भृत्याश्चान्ये समा-ख्याताः पशवस्तुरगास्तथा गजामहिष्यो दास्यश्च ऋण-सम्बन्धिनस्त्वमी” पाद्मे भूमिख० ११ १२ ।तत्रैव १८ २० अ० सुपुत्रलक्षणं यथा“पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् पुण्यप्रसक्तोयस्यात्मा सत्यधर्मरतः सदा बुद्धिमान् ज्ञानसम्पन्नस्तं-पस्वी वाग्विदांवरः सर्वकर्मसु सन् धीरो येदाध्ययनतत्परः सर्वशास्त्रप्रवक्ता देवब्राह्मणपूजकः याजकःसर्वयज्ञानां दाता त्यागी प्रियंवदः विष्णुध्यानपरोनित्यं शान्तो दान्तः सुहृत् पियः पितृमातृपरो निर्त्यसर्वस्वजनवत्सलः कुलख तारको विद्वान् कुलस्य प-रिपोषकः एवं गुणैः सुसंयुक्तः सुपुत्रः सुखदायकः” ।वैष्णवपुत्रस्य पूर्वपुरुषत्रातृत्वं यथा “वैष्णवो यदि पुत्नःस्यात् त्रायते हि पूर्वजान् पितॄनधस्तनान् वंशा-स्तारयन्ति पावनाः” कुपुत्रजनने पितृणां नरकगमनंयथा “तथा यदि कुपुत्रः स्यात्तेन मज्जन्ति पूर्वजाः ।सुघोरे नरके दीनाः शपन्ति सहुर्मुहुः यथा जलेकुप्लवेन तरन्मज्जति मूढधीः तथा पिता कुपुत्रेणतमस्यन्थे निमज्जति जातमात्रे कुले जन्तो संशेरतेपितामहा किमेषोऽधो नयेदस्यानूर्णं वा वैष्णवो भ-वन्” लन्नावपिके सञ्चमस्थाते नीस० ता० वर्षक्षा-लीने सहमभेदे पुत्रसहवशब्दे दृश्यम्