| YouTube Channel

पीतपुष्पः (pItapuSpaH)

 
Wordnet
Sanskrit
Synonyms:
चम्पकः, चाम्पेयः, हेमपुष्पकः, स्वर्णपुष्पः, शीतलछदः, सुभगः, भृङ्गमोही, शीतलः, भ्रमरातिथिः, सुरभिः, दीपपुष्पः, स्थिरगन्धः, अतिगन्धकः, स्थिरपुष्पः, हेमपुष्पः, पीतपुष्पः, हेमाह्वः, सुकुमारः, वनदीपः, कषायः
noun
वृक्षविशेषः सः वृक्षः यस्य पुष्पाणि पीतवर्णीयानि सुगन्धितानि सन्ति।
"तस्य प्राङ्गणे चम्पकः कुन्दम् इत्यादीनि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
पीतपुष्पः,
पुं,
(पीतानि पीतवर्णानि पुष्पानि यस्य ।)कर्णिकारवृक्षः इति शब्दचन्द्रिका
चम्पक-वृक्षः इति राजनिर्घण्टः
पीतझिण्टी ।पिण्डीतकभेदः इति रत्नमाला
(इङ्गुदी-वृक्षः यथा, वैद्यकरत्नमालायाम् ।“पीतपुष्पोऽङ्गारपुष्प इङ्गुदी तापसप्रियः
”राजकोशातकी तत्पर्य्यायो यथा, भाव-प्रकाशे ।“धामार्गवः पीतपुष्पो जालिनी कृतबोधना ।राजकोशातकी चेति तथोक्ता राजिमत्फला
”)