पीठं (pIThaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishपीठं 1 A seat (a stool, chair, bench, sofa &c.)
जवेन पीठादुदतिष्ठदच्युतः Śi. 1. 12
R. 4. 84
6. 15.
2 The seat of a religious student made of Kuśa grass.
3 The seat of a deity, an altar.
4 A pedestal in general, basis.
5 A particular posture in sitting.
6 (In geometry) The complement of a segment.
Comp.
केलिः a male confidant, a parasite.
ग a. lame, crippled
गर्भः the cavity in the pedestal of an idol.
चक्रं a carriage.
ना यिका a girl of fourteen who represents Durgā at the festival of that goddess.
भूः f. basis, basement.
मर्दः {1} a companion, parasite, one who assists the hero of a drama in great undertakings, e. g. in securing his mistress
so पीठमर्दिका ‘a lady who assists the heroine in securing her lover’. {2} a dancing master who instructs courtezans in the art of dancing.
सर्प a. lame, crippled.
शब्दकल्पद्रुमः
Sanskritपीठं, त्रि, (पेठन्त्युपविशन्त्यस्मिन्निति । पिठ +“हलश्च ।” ३ । ३ । १२१ । इति घञ् । बाहु-लकादिकारस्य दीर्घः । यद्वा, पीयतेऽत्रेति ।पी ङ् पाने + बाहुलकात् ठक् ।) उपवेश-नाधारः । इत्यमरः । २ । ६ । १३८ ॥
पिडी चौकीइत्त्यादि भाषा । तत्पर्य्यायः । आसनम् २ उपा-सनम् ३ पीठी ४ विष्टरः ५ । इति शब्दरत्ना-वली । व्रतिनामासनम् । तत्तु कुशासनादि ।तत्पर्य्यायः । विष्टरः २ । इति त्रिकाण्डशेषः ॥
वृषी ३ । इति हेमचन्द्रः ॥
(यथा, महाभारते ।५ । ३८ । २ ।“पीठं दत्त्वा साधवेऽभ्यागतायआनीयापः परिनिर्निज्य पादौ ।सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थांततो दद्यादन्नमवेक्ष्य धीरः ॥
”)अथ पीठोद्देशः ।“धातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते ।धातवश्च शिलाश्चैव काष्ठानि विविधानि च ॥
तदत्र संप्रवक्ष्यामि यद्येषामुपयुज्यते ॥
”अथ मानम् ।“हस्तद्वयस्तु दैर्घ्येण तदर्द्धे परिणाहतः ।तदर्द्धेनोन्नतः पीठः सुख इत्यभिधीयते ॥
हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि ।सुखं जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥
धनभोगसुखैश्वर्य्यवाञ्छितार्थप्रदायकः ।समदीर्घसुखावाप्तिर्विषमे विषमापदः ॥
आयामपरिणाहाभ्यां हस्तद्वयमितो हि यः ।अर्द्धहस्तोन्नतः पीठो जारको नाम विश्रुतः ॥
दैर्घ्योन्नतिपरीणाहैश्चतुर्हस्तमितो हि यः ।राजपीठ इति ज्ञेयः सकलार्थप्रसाधकः ।अत्राभिषेकमिच्छन्ति क्षितिपस्य पुराविदः ॥
दैर्घ्योन्नतिपरीणाहैः षढस्तमितो हि यः ।राज्ञां चित्तप्रसादार्थं केलिपीठाभिधानकः ॥
दैर्घ्योन्नतिपरीणाहैरष्टहस्तमितो हि यः ।अङ्गपीठो ह्ययं नाम्ना भवेत् पञ्चसुखप्रदः ॥
कानको राजपीठः स्याज्जयो वा राजतः सुखः ।राज्ञामेवोपयोक्तव्यो लघवश्चोत्तरोत्तरम् ॥
राजपीठे चिरायुः स्याज्जये सर्व्वां महीं जयेत् ।जारको जारयेच्छत्रून् सुखे सुखमवाप्नुयात् ॥
राजतः कीर्त्तिजननो धनवृद्धिकरः परः ।ताम्रः प्रतापजननो विपक्षक्षयकारकः ॥
लौहस्तूच्चाटने सार्व्वः सर्व्वकर्म्मसु युज्यते ।त्रपुसीसकरङ्गाद्याः शत्रुक्षयफलप्रदाः ॥
”इति धातुपीठाः ।अथ शिलापीठाः ।“राजपीठो वज्रपाणेरेव नान्यस्य दृश्यते ।पद्मरागो दिनेशस्य चान्द्रकान्तो विधोरपि ॥
राहोर्मारकतः पीठः शनेर्नीलसमुद्भवः ।गोमेदकस्तु सौम्यस्य स्फाटिकस्तु बृहस्पतेः ॥
शुक्रस्य वैदूर्य्यभवः प्रावालो मङ्गलस्य हि ॥
”इत्थं पुराणवार्त्ता ॥
* ॥
“यो यस्य हि दशाजातः पीठस्तस्य हि तन्मयः ।स्फाटिकस्तु महीन्द्राणां सर्व्वेषामेव युज्यते ॥
अभिषेके च यात्रायामुत्सवे जयकर्म्मणि ।अयस्कान्तोपघटितः संग्रामे पीठ इष्यते ॥
गरुडोद्गाररचिते वर्षासु नृपतिर्व्वसेत् ।शुद्धरत्नमयं पीठं भजते घनगर्ज्जिते ॥
सामान्यः प्रास्तरः पीठो विलासाय मही-भुजाम् ।एषां मानं गुणाश्चापि विज्ञेया धातुपीठवत् ॥
”अथ काष्ठपीठाः ।तद्यथा, मानं पूर्व्ववदेव ।“सम्पत्तिसुखवृद्ध्यर्थं गाम्भारीजनितो जयः ।जारको रोगनाशाय सुखः शत्रुविनाशनः ॥
सिद्धिः सर्व्वार्थसंसिद्ध्यै विजयाय च वैरिणाम् ।शुभः स्यादभिषेके च सम्पद्वैरिनिवारणः ॥
पानसो राजकः पीठः सुखसम्पत्तिकारकः ।जयः स्यादभिषेके च शुभः शत्रुविनाशनः ॥
सुखो रोगविनाशाय सिद्धिः सर्व्वार्थदायिका ।सम्पदुच्चाटनविधौ विज्ञेयं पीठलक्षणम् ॥
चान्दनस्तु सुखः पीठो अभिषेके महीभुजाम् ।जयः स्याद्रोगनाशाय शुभः सौख्यं प्रयच्छति ॥
जारको ग्रहतुष्ट्यर्थं अन्ये तु रतिदुष्कराः ।यज्ञतो निर्म्मितास्ते तु साम्राज्यफलदायकाः ॥
कालेयको यावको हि भूभुजामभिषेचने ।पीठानगुरुकादीनामन्ये चन्दनवद्विदुः ॥
वाकुलस्तु शुभः पीठो भूभुजामभिषेचने ।जयो रोगविनाशाय सुखसम्पत्तिकारकः ॥
सिद्धिः सिद्धिप्रदा सम्पत् संग्रामे विजयप्रदः ।जारको जारणाय स्यादिति भोजस्य सम्मतम् ॥
एवं सुगन्धिकुसुमाः ससारा ये च पादपाः ।वाकुलेन समः कार्य्य एवं पीठस्य निर्णयः ॥
ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा ।गाम्भारीसदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥
फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः ।तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥
” * ॥
अथ निषेधः ।“विज्ञेयो निन्दितः पीठो लौहोत्थः सर्व्वधातुजे ।शिलोत्थः शार्करो वर्ज्यः कर्करश्च विशेषतः ॥
काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥
”तथाहि ।“आम्रजम्बुकदम्बानामासनं वंशनाशनम् ॥
”भोजस्त्वाह ।“गुरुः पीठो गौरवाय लघुर्लाघवकारकः ॥
”पराशरस्तु ।“नाग्रन्थिर्नातिग्रन्थिश्च नागुरुर्नासमाकृतिः ।पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो न वामनः ॥
ये चान्ये पीठसदृशा दृश्याः शिल्पिविनिर्म्मिताः ।गुणान्दोषांश्च मानञ्च तेषां पीठवदादिशेत् ॥
विचार्य्यानेन विधिना यः शुद्धं पीठमाचरेत् ।तस्य लक्ष्मीरियं वेश्म कदाचिन्न विमुञ्चति ॥
अज्ञानादथवा मोहाद्योऽन्यथा पीठमाचरेत् ।एतानि तस्य नश्यन्ति लक्ष्मीरायुर्ब्बलं कुलम् ॥
”इति युक्तिकल्पतरौ पीठोद्देशः ॥
* ॥
कृतयुगे दक्षक्रतौ शिवनिन्दां श्रुत्वा प्राणां-स्त्यक्तवत्याः सत्याः शरीरं शिरसि धृत्वा भ्रमतिशिवे विष्णुना चक्रेण छिन्नास्तस्या अवयवा यत्रयत्र पतितास्त एव देशा एकपञ्चाशन्महापीठाअभवन् ॥
इति पौराणिकी वार्त्ता ॥
* ॥
तेषां निरूपणं यथा, --ईश्वर उवाच ।“मातः परापरे ! देवि ! सर्व्वज्ञानमयीश्वरि ! ।कथ्यतां मे सर्व्वपीठं शक्तिर्भैरवदेवता ॥
देव्युवाच ।शृणु वत्स ! प्रवक्ष्यामि दयालो ! भक्तवत्सल ! ।याभिर्विना न सिध्यन्ति जपसाधनतत्क्रियाः ॥
पञ्चाशदेकपीठानि एवं भैरवदेवताः ।अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च ॥
ममान्यवपुषो देव ! हिताय त्वयि कथ्यते ।ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ॥
कोट्टरीसा महामाया त्रिगुणा या दिगम्बरी ॥
१शर्करारे त्रिनेत्रं मे देवी महिषमर्द्दिनी ।क्रोधीशो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥
२ ॥
सुगन्धायां नासिका मे देवस्त्र्यम्बकभैरवः ।सुन्दरी सा महादेवी सुनन्दा तत्र देवता ॥
३ ॥
काश्मीरे कण्ठदेशश्च त्रिसन्ध्येश्वरभैरवः ।महामाया भगवती गुणातीता वरप्रदा ॥
४ ॥
ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः ।अम्बिका सिद्धिदानाम्नी ५ स्तनं जालन्धरे मम ।भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी ॥
६ ॥
हार्द्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ।देवता जयदुर्गाख्या ७ नेपाले जानुनी मम ।कपाली भैरवः श्रीमान् महामाया च देवता ॥
८ ॥
मानसे दक्षहस्तो मे देवी दाक्षायणी हर ।अमरो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥
९ ॥
उत्कले नाभिदेशश्च विरजाक्षेत्रमुच्यते ।विमला सा महादेवी जगन्नाथस्तु भैरवः ॥
१० ॥
गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः ।तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः ॥
११ ॥
बहुलायां वामबाहुर्ब्बहुलाख्या च देवता ।भीरुको भैरवो देवः सर्व्वसिद्धिप्रदायकः ॥
१२ ॥
उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः ।भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका ॥
१३ ॥
चट्टले दक्षबाहुर्मे भैवरश्चन्द्रशेखरः ।व्यक्तरूपा भगवती भवानी तत्र देवता ॥
विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥
१४ ॥
त्रिपुरायां दक्षपादो देवता त्रिपुरा मता ।भैरवत्रिपुरेशश्च सर्व्वाभीष्टफलप्रदः ॥
१५ ॥
त्रिसोतायां वामपादो भ्रामरी भैरवोऽम्बरः ॥
१६ ॥
योनिपीठं कामगिरौ कामाख्या तत्र देवता ।यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ।यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः ॥
सर्व्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः ।तत्र श्रीभैरवी देवी तत्र नक्षत्रदेवता ॥
प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुराम्बिका ।वगला कमला तत्र भुवनेशी सुधूमिनी ॥
एतानि वरपीठानि शंसन्ति वरभैरव ! ।एवं ता देवताः सर्व्वा एवन्ते दश भैरवाः ॥
सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे ।गौरीशिखरमारुह्य पुनर्जन्म न विद्यते ॥
१७ ॥
करतोयां समासाद्य यावत् शिखरवासिनीम् ।शतयोजनविस्तीर्णं त्रिकोणं सर्व्वसिद्धिदम् ॥
देवा मरणमिच्छन्ति किं पुनर्म्मानवादयः ।भूतधात्री महामाया भैरवः क्षीरखण्डकः ॥
युगाद्यायां महादेव ! दक्षाङ्गुष्ठं पदो मम ॥
१८ ॥
नकुलीशः कालिपीठे दक्षपादाङ्गुलीषु च ।सर्व्वसिद्धिकरीदेवी कालिका तत्र देवता ॥
१९ ॥
अङ्गुलीषु च हस्तस्य प्रयागे ललिता भवः ॥
२० ॥
जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः ॥
२१ ॥
भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः ।देवता विमला नाम्नी सम्बर्त्तो भैरवस्तथा ॥
२२ ॥
वाराणस्यां विशालाक्षी देवता कालभैरवः ।मणिकर्णीति विख्याता कुण्डलञ्च मम श्रुतेः ॥
२३ ॥
कन्याश्रमे च पृष्ठं मे निमिषो भैरवस्तथा ।सर्व्वाणी देवता तत्र २४ कुरुक्षेत्रे च गुल्फतः ॥
स्थाणुर्नाम्ना च सावित्री देवता २५ मणि-वेदके ।मणिबन्धे च गायत्री सर्व्वानन्दस्तु भैरवः ॥
२६ ॥
श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता ।भैरवः शम्बरानन्दो देशे देशे व्यवस्थितः ॥
२७ ॥
काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः ।देवता देवगर्भाख्या २८ नितम्बः कालमाधवे ॥
भैरवश्चासिताङ्गश्च देवी काली च मुक्तिदा ।दृष्ट्वा दृष्ट्वा महादेव ! मन्त्रसिद्धिमवाप्नुयात् ॥
कुजवारे भूततिथौ निशार्द्धे यस्तु साधकः ।नत्वा प्रदक्षिणीकृत्य मन्त्रसिद्धिमवाप्नुयात् ॥
२९ ॥
शोणाख्या भद्रसेनस्तु नर्म्मदाख्ये नितम्बकः ॥
३० ॥
रामगिरौ स्तनान्यञ्च शिवानी चण्डभैरवः ॥
३१ ॥
वृन्दावने केशजाले उमानाम्नी च देवता ।भूतेशो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥
३२ ॥
संहाराख्य ऊर्द्ध्वदन्ते देवी नारायणी शुचौ ।अधोदन्ते महारुद्रो वाराही पञ्चसागरे ॥
३३ ॥
करतोयातटे तल्पं वामे वामनभैरवः ।अपर्णा देवता तत्र ब्रह्मरूपा करोद्भवा ॥
३४ ॥
श्रीपर्व्वते देक्षतल्पं तत्र श्रीसुन्दरी परा ।सर्व्वसिद्धिकरी सर्व्वा सुन्दरानन्दभैरवः ॥
३५ ॥
कपालिनी भीमरूपा वामगुल्फो विभाषके ॥
३६ ॥
उदरञ्च प्रभाषे मे चन्द्रभागा यशस्विनी ।वक्रतुण्डो भैरव-३७ श्चोर्द्ध्वोष्ठो भैरवपर्व्वते ।अवन्ती च महादेवी लम्बकणुस्तु भैरवः ॥
३८ ॥
चिवुके भ्रामरी देवी विकृताक्षो जले स्थले ॥
३९ ॥
गण्डो गोदावरीतीरे विश्वेशी विश्वमातृका ।दण्डपाणिर्भैरवस्तु वामगण्डे तु राकिणी ॥
अमायी भैरवो वत्स ! सर्व्वशैलात्मकोपरि ॥
४० ॥
रत्नावल्यां दक्षस्कन्धः कुमारी भैरवः शिवः ॥
४१ ॥
मिथिलायां उमा देवी वामस्कन्धो महोदरः ॥
४२ ॥
नलाहाट्यां नलापातो योगेशो भैरवस्तथा ।तत्र सा कालिका देवी सर्व्वसिद्धिप्रदायिका ॥
४३ ॥
कर्णाटे चैव कर्णं मे अभीरुर्नाम भैरवः ।देवता जयदुर्गाख्या नानाभोगप्रदायिनी ॥
४४ ॥
वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः ।नदी पापहरा तत्र देवी महिषमर्द्दिनी ॥
४५ ॥
यशोरे पाणिपद्मञ्च देवता यशरेश्वरी ।चण्डश्च भैरवो यत्र तत्र सिद्धिमवाप्नुयात् ॥
४६ ॥
अट्टहासे चोष्ठपातो देवी सा फुल्लरा स्मृता ।विश्वेशो भैरवस्तत्र सर्व्वाभीष्टप्रदायकः ॥
४७ ॥
हारपातो नन्दिपुरे भैरवो नन्दिकेश्वरः ।नन्दिनी सा महादेवी तत्र सिद्धिर्न संशयः ॥
४८ ॥
लङ्कायां नूपुरञ्चैव भैरवो राक्षसेश्वरः ।इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा ॥
४९ ॥
विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् ।भैरवश्चामृताक्षश्च देवी तत्राम्बिका स्मृता ॥
५० ॥
मागघे दक्षजङ्घा मे व्योमकेशस्तु भैरवः ।सर्व्वानन्दकरी देवी सर्व्वकामफलप्रदा ॥
५१ ॥
एतास्ते कथिताः पुत्त्र ! पीठनाथाधिदेवताः ॥
क्षेत्राधीशं विना देवं पूजयेत् पीठदेवताम् ।भैरवैर्ह्नियते सर्व्वं जपपूजादिसाधनम् ॥
अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर ! ।प्राणनाथ ! न सिध्येत कल्पकोटिजपादिभिः ॥
न देयं परशिष्येभ्यो निन्दकाय दुरात्मने ।शठाय वञ्चकायेदं दत्त्वा मृत्युमवाप्नुयात् ॥
दद्यात् शान्ताय शिष्याय नैष्ठिकाय शुचौ प्रियेसाधकाय कुलीनाय मन्त्री मन्त्रार्थसिद्धये ॥
”)इति तन्त्रचूडामणौ शिवपार्व्वतीसंवादे एक-पञ्चाशद्विद्योत्पत्तौ पीठनिर्णयः समाप्तः ॥
* ॥
(देवीभागवतोक्ताष्टाधिकशतपीठनामानि यथा, तत्रैव । ७ । ३० । ४४ -- ९५ ।“अपश्यत्तां सतीं वह्नौ दह्यमानान्तु चित्कलाम् ।स्कन्धेऽप्यारोपयामास हा ! सतीति वदन् मुहुः ॥
बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः ।तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥
विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः ।चिच्छेदावयवान् सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥
तत्तत् स्थानेषु तत्रासीन्नानामूर्त्तिधरो हरः ।उवाच च ततो देवान् स्थानेष्वेतेषु ये शिवाम् ॥
भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् ।नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥
स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्म्मिणः ।तेषां मन्त्राः प्रसिध्यन्ति मायाबीजं विशेषतः ॥
इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः ।कालं निन्ये नृपश्रेष्ठ ! जपध्यानसमाधिभिः ॥
जनमेजय उवाच ।कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ ! ।कतिसंख्यानि नामानि कानि तेषाञ्च मे वद ॥
तत्र स्थितानां देवीनां नामानि च कृपाकर ! ।कृतार्थोऽहं भवे येन तद्बदाशु महामुने ! ॥
व्यास उवाच ।शृणु राजन् ! प्रवक्ष्यामि देवीपीठानि सांप्रतम् ।येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः ।भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी ।क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ।मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥
विश्वकामा भगवती विश्वकामप्रपूरिणी ।गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥
एकाम्रपीठे संप्रोक्ता देवी सा कीर्त्तिमत्यपि ।विश्वे विश्वेश्वरीं प्राहुः पुरुहूताञ्च पुष्करे ॥
केदारपीठे संप्रोक्ता देवी सन्मार्गदायिनी ।मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥
स्थानेश्वरी भवानी तु बिल्वके बिल्वपत्रिका ।श्रीशेले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥
वराहशैले तु जया कमला कमलालये ।रुद्राणी रुद्रकोट्यान्तु काली कालञ्जरे तथा ॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥
मायापुर्य्यां कुमारी स्यात्मन्ताने ललिताम्बिका ।गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।विपाशायाममोघाक्षी पाडला पुण्ड्रवर्द्धने ॥
नारायणी मुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ।विपुले विपुला देवी कल्याणी मलयाचले ॥
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।रमणा रामतीर्थे तु यमुनायां मृगावती ॥
कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ।गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥
शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ।रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥
देवकी मथुरायान्तु पाताले परमेश्वरी ।चित्रकूटे तथा सीता विन्ध्ये बिन्ध्याधिवासिनी ॥
करवीरे महालक्ष्मीरुमादेवी विनायके ।आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥
अभयेत्युष्णतीर्थेषु नितम्बा बिन्ध्यपर्व्वते ।माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥
छगलण्डे प्रचण्डा तु चण्डिकामरकण्टके ।सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥
देवमाता सरस्वत्यां पारावारा तटे स्मृता ।महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥
सिंहिका कृतशौचे तु कार्त्तिके त्वतिशाङ्करी ।उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे ॥
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ।जालन्धरे विश्वमुखी तारा किष्किन्धपर्व्वते ॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।भीमादेवी हिमाद्रौ तु तुष्टिर्व्विश्वेश्वरी तथा ॥
कपालमोचने शुद्धिर्माता कायावरोहणे ।शङ्खोद्धारे धरा नाम घृतिः पिण्डारके तथा ॥
कला तु चन्द्रभागायामच्छोदे शिवधारिणी ।वेणायाममृता नाम वदर्य्यामुर्व्वशी तथा ॥
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रणालये ।गायत्री वेदवदने पार्व्वती शिवसन्निधौ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा ।चित्ते ब्रह्मकला नाम शक्तिः सर्व्वशरीरिणाम् ॥
इमान्यष्टशतानि स्युः पीठानि जनमेजय ! ।तत्संख्याकास्तदीशान्यो देव्यश्च परिकीर्त्तिताः ॥
सतीदेव्यङ्गभूतानि पीठानि कथितानि च ।अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥
यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् ।सर्व्वपापविनिर्म्मु क्तो देवीलोकं परं व्रजेत् ॥
एतेषु सर्व्वपीठेषु गच्छेद् यात्राविधानतः ।सन्तर्पयेच्च पित्रादीन् श्राद्धादीनि विधाय च ॥
कुर्य्याच्च महतीं पूजां भगवत्या विधानतः ।क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥
कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय ! ।भक्ष्यभोज्यादिभिः सर्व्वान् ब्राह्मणान् भोजये-त्ततः ॥
सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप ! ।तस्मिन् क्षेत्रे स्थिता ये तु चाण्डालाद्या अपिप्रभो ! ॥
देवीरूपाः स्मृताः सर्व्वे पूजनीयास्ततो हि ते ।प्रतिग्रहादिकं सर्व्वं तेषु क्षेत्रेषु वर्ज्जयेत् ॥
यथाशक्तिपुरश्चर्य्यां कुर्य्यान्मन्त्रस्य सत्तमः ।मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥
पूजयेदनिशं राजन् ! पुरश्चरणकृद्भवेत् ।वित्तशाठ्यं न कुर्व्वीत देवीभक्तिपरो नरः ॥
य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः ।सहस्रकल्पपर्य्यन्तं ब्रह्मलोके महत्तरे ॥
वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा ।अन्ते लब्ध्ना परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥
”)अन्यानि पीठादीनि कालीपुराणे १८ । ५० । ६१अध्यायेषु द्रष्टव्यानि ॥
* ॥
पीठन्यासस्तु न्यास-शब्दे द्रष्टव्यः । पीठदेवतापूजनं न्यासक्रमेणैव ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
