| YouTube Channel

पिष्टं (piSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
पिष्टं,
क्ली,
(पिष्यते स्मेति पिष + क्तः ।) सीस-कम् इति रत्नमाला
पिष्टकः यथा, --“अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ।घृतादष्टगुणं तैलं मर्द्दनान्न भक्षणात्
*
अस्य गुणाः ।“पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्ज्जरम् ।शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः ।वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः
सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः ।भक्ष्या बल्याश्च हृद्याश्च गुरवो बृंहणाः परम्
सस्नेहाः स्नेहसिक्ताश्च भक्ष्या गोधूमसम्भवाः ।गुरवस्तर्पणा हृद्या बलोपचयवर्द्धनाः
मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः ।अवग्राह्य घृते पक्त्वा घृतपूरोऽयमुच्यते
घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः ।रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः
”गोधूमचूर्णं समिता ।“समिता मधुदुग्धेन खण्डैलामरिचादिभिः ।घृते पक्त्वा क्षिपेत् खण्डे संयावो बृंहणो गुरुः
समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता ।मधुमस्तकमुद्दिष्टं तद्वृष्यं गुरु दुर्जरम्
”इति राजवल्लभः
पर्पटशस्कुलीफेनकवटलड्डुकानां गुणास्तत्त-च्छब्दे द्रष्टव्याः
*
चूर्णीकृते, त्रि
(यथा, कथासरित्सागरे ४१ ।“कृत्वा तांश्चणकान् पिष्टान् गृहीत्वा जल-कुम्भिकाम् ।अतिष्ठं चत्वरे गत्वा छायायां नगराद् बहिः
”)