| YouTube Channel

पिप्पलः (pippalaH)

 
Apte
English
पिप्पलः [pippalḥ], 1 The holy fig-tree (Mar. पिंपळ)
Y.*
1.32.
A nipple.
The sleeve of a jacket or coat.
A bird kept free (not confined in a cage).
लम् A berry in general.
A berry of the holy fig-tree.
Sensual enjoyment
Bhāg.*
3.4.8.
Water.
The effect arising from acts (कर्मजन्यफल)
Muṇḍa. 3.1.1
एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नो$पि बलेन भूयान्
Bhāg.*
11. 11.6.
Comp.
-अद, -अशन
a.
eating the fruit of the Pippala tree.
given to sensual pleasures.
Apte 1890
English
पिप्पलः 1 The holy fig-tree
Y. 1. 302.
2 A nipple.
3 The sleeve of a jacket or coat.
4 A bird kept free (not confined in a cage).
लं 1 A berry in general.
2 A berry of the holy fig-tree.
3 Sensual enjoyment.
4 Water.
Apte Hindi
Hindi
पिप्पलः
पुं*
- "पा + अलच्, पृषो* "
पीपल का पेड़
पिप्पलः
पुं*
- "पा + अलच्, पृषो* "
चूचुक
पिप्पलः
पुं*
- "पा + अलच्, पृषो* "
जाकेट या कोट की आस्तीन
पिप्पलः
पुं*
- -
पिप्पल नाम का वृक्ष
पिप्पलः
पुं*
- -
"कर्मजन्य फल, कर्म का फल"
Wordnet
Sanskrit
Synonyms:
पिप्पलः, कलहप्रिया, कलहाकुला, कुञ्जरः, कुञ्जराशनः, कृष्णावासः, गजभक्षकः, गुह्यपत्रः, चलदलः, तत्पदः, तारायणः, महाद्रुमः, नागबन्धुः, केशवालयः
noun
बृहद्वृक्षः यः हिन्दूनां कृते पवित्रः अस्ति।
"स्नानादनन्तरं सः पिप्पलाय जलं ददाति।"
Synonyms:
मेचकः, पिप्पलः, पिप्पलकः
noun
शिशूनां दुग्धपात्रस्य सः भागः यः मुखे गृहीत्वा शिशुः दुग्धं चूषति।
"मेचकं दृष्ट्वा रोदितः बालकः शान्तः जातः।"
Synonyms:
पिप्पलः
noun
वेदस्य एका शाखा
"पिप्पल इति अथर्ववेदस्य शाखा अस्ति"
Synonyms:
पिप्पलः
noun
एकः पुरुषः
"पिप्पलः रेवतिमित्रयोः पुत्रः अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: पिप्पलः
Root: पिप्पल
Gender: पुं
Number: all
अर्थः पिप्पलवृक्षः
Meaning(s):
Holy fig-tree
Tamil Araśu
Shloka(s):
3|3|27|2 श्रीवृक्षे पिप्पलोऽश्वत्थः प्लक्षश्चलदलोऽङ्गुलः॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|27|2 श्रीवृक्षः (श्रीवृक्ष) (पुं) Holy fig tree
Tamil Araśu पिप्पलवृक्षः
3|3|27|2 पिप्पलः (पिप्पल) (पुं) Holy fig-tree
Tamil Araśu पिप्पलवृक्षः
3|3|27|2 अश्वत्थः (अश्वत्थ) (पुं) Holy fig-tree पिप्पलवृक्षः
3|3|27|2 प्लक्षः (प्लक्ष) (पुं) Holy fig tree
Tamil Araśu पिप्पलवृक्षः
3|3|27|2 चलदलः (चलदल) (पुं) Holy fig tree पिप्पलवृक्षः
3|3|27|2 अङ्गुलः (अङ्गुल) (पुं) Holy fig-tree
Tamil Araśu पिप्पलवृक्षः
Related word(s):
परा_अपरासंबन्धः वृक्षः
Tamil
Tamil
பிப்பல: : அரசமரம், முலைக் காம்பு.
शब्दकल्पद्रुमः
Sanskrit
पिप्पलः,
पुं,
(पिप्पलं जलं सिच्यमानत्वेनास्त्यस्यमूलावच्छेदे इति पिप्पल + “अर्शआदिभ्यो-ऽच् ।” १२७ इत्यच् ।) अश्वत्थवृक्षः ।(यथा, महाभारते २१ ।“वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः ।लोध्राणाञ्च शुभाः पार्थ ! गौतमौकःसमी-पजाः
”)निरंशुकः पक्षिभेदः इति मेदिनी ले, ११२
*
अश्वत्थस्वरूपं यथा, --नारद उवाच ।“अनायासेन यन्मर्त्त्यः सर्व्वान् कामानवाप्नुयात् ।सर्व्वदेवात्मकञ्चैव तन्मे ब्रूहि पितामह !
ब्रह्मोवाच ।शृणु नारद ! यत्नेन शुद्धं सर्व्वात्मकं गुरुम् ।प्रदक्षिणीकृत्य नित्यं नराणां सर्व्वकामदम्
पूजयेत् परया भक्त्या सर्व्वसिद्भियुतो भवेत् ।अश्वत्थं पूजयेद्विप्र ! सर्व्वसिद्धिविधायकम्
*
अश्वत्थदक्षिणे रुद्रः पश्चिमे विष्णुरेव ।ब्रह्मा चोत्तरतस्तस्य पूर्व्वे चेन्द्रादिदेवताः
स्कन्धे स्कन्धे पत्रेषु ब्राह्मणा ऋषयः स्मृताः ।तस्य मूले सर्व्ववेदाः श्रद्धा तस्य द्रुमाश्रिता
नदीनदाः सागराद्याः पूर्व्वस्यान्दिशि संस्थिताः ।लोकधर्म्मान् समाश्रित्य तस्मात्तं सेवयेन्नरः
पुराणस्मृतिमन्त्रेभ्यः सारसुद्धृत्य सञ्चितम् ।निष्ठाप्रतिष्ठितं सम्यगश्वथं सेवयेन्नरः
त्वं क्षीरी फलितश्चैव शीतलश्च वनस्पते ! ।त्वामाराध्य नरो हन्यात् दैहिकाधिष्ठितं मलम्
अश्वत्थ ! यस्मात् त्वयि वृक्षराज !नारायणस्तिष्ठति सर्व्वकारणम् ।अतः शुचिस्त्वं सततं तरूणांविशेषतोऽरिष्टविनाशनोऽसि
क्षीरोदमथने चैव यथा श्रीस्त्वामुपासते ।सत्येन तेन वृक्षेन्द्र ! आशीर्मयि निषेवतु
एकादशोऽसि रुद्राणां वसूनाञ्चाष्टमस्तथा ।नारायणोऽसि देवानां वृक्षाणामसि पिप्पलः
अग्निगर्भस्त्वमश्वत्थ ! देवगर्भः प्रजापतिः ।हरिर्यथैव श्रीगर्भो यज्ञगर्भ ! नमोऽस्तु ते
अरातेरग्निरश्वत्थ ! परापर ! नमोऽस्तु ते ।निर्वाते त्वभिवर्षन्तु स्वस्ति तेऽस्तु नमोऽस्तु ते
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्निरीक्षितम् ।शत्रूणाञ्च समुत्थानमश्वत्थ ! शमयाशु मे
यं स्पृष्ट्वा मुच्यते रोगैः सर्व्वपापैः प्रमुच्यते ।समाश्लिष्य दीर्घायुस्तमश्वत्थं नमाम्यहम्
अश्वत्थ ! सुमहाभाग ! सर्व्वदा प्रियदर्शन ! ।दिव्यान्नभोजनं देहि शत्रूणाञ्च पराजयम्
आयुः प्रजां धनं धान्यं सौभाग्यं सर्व्वदासुखम् ।देहि देव महावृक्ष ! त्वामहञ्चाभिवादये
अश्वत्थ ! देवमूलस्त्वमृषिभिः प्रोच्यते सदा
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।आवृत्य दशलक्षन्तु शुद्धः पापातिगो भवेत्
ब्रह्मचारी हविष्याशी अधःशायी जितेन्द्रियः ।पापापहन्ता मर्त्यस्तु व्रतमेतत् समाचरेत्
एकहस्तं द्विहस्तं वा कुर्य्याद्गोमयलेपनम् ।अश्वत्थे स्थापिते यस्तु मूले स्नपनमाचरेत्
धनायुःसन्ततैर्वृद्धो नरकात्तारयेत् पितॄन्
अश्वत्थमूलमासाद्य शाकेनान्नोदकेन वा ।एकं वा भोजयेद्विप्रं कोटि कोटि फलं भवेत्
अश्वत्थमूलमासाद्य तपो होमः सुरार्च्चनम् ।अक्षयं मुनिशार्दूल ! ब्रह्मणो वचनं यथा
एवं समर्च्चितोऽश्वत्थः सर्व्वसौख्यप्रदो भवेत् ।यज्ञार्थं छेदितोऽश्वत्थः सर्व्वारोग्यप्रदो भवेत्
अश्वत्थः पूजितो येन पूजिताः सर्व्वदेवताः ।अश्वत्थश्छेदितो येन छेदिताः सर्व्वदेवताः
अन्तःशुद्धः सुसन्तुष्टोऽश्वत्थो देवमयो गुरुः ।स सेव्यः पूजनीयश्च गुणत्रयविनाशकः
भृग्वर्कवारे भौमे मध्याह्ने निशि सन्ध्ययोः ।अश्वत्थदर्शनं कार्य्यं कुलक्षयभयात्मभिः
*
अश्वत्थस्य जले यस्य छाया तिष्ठति कुत्रचित् ।तत् प्रयागसमं तीर्थं तत्र सन्निहितो हरिः
तस्मात् कार्त्तिकमासेऽत्र पूर्व्वोक्तविधिना मुने ! ।अश्वत्थं सेचयेद्विद्वान् संप्रदक्षिणमादिशेत्
पापोपहतमर्त्यानां पापनाशो भवेद्ध्रुवम् ।सकामो लभते कामं निष्कामो मोक्षमाप्नुयात्
यः पठेत् शृणुयाद्वापि अश्वत्थस्य समीपतः ।सर्व्वान् कामानवाप्नोति विष्णुसायुज्यमाप्नुयात्
”इति पाद्मोत्तरखण्डे १२६ अध्यायः
ऋषय ऊचुः ।“कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ
सूत उवाच ।अश्वत्थरूपो भगवान् विष्णुरेव संशयः ।रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक्
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।दुःखापद्ब्याधिदुष्टानां विनाशकारिणो ध्रुवम्
ऋषय उचुः ।कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः
सूत उवाच ।पार्व्वतीशिवयोर्द्देवैः सुरतं कुर्व्वतोः किल ।अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नः कृतः पुरा
ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः ।रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा
पार्व्वत्युवाच ।क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् ।तस्मान्मम सुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ
सूत उवाच ।एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा ।तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः
तस्मादिमौ विष्णुमहेश्वरावुभौबभूवतुर्ब्बोधिवटौ मुनीश्वराः ! ।बोधिस्त्वयं चार्किदिनं विनैवनस्पृश्यतामर्कजवारयोगात्
ऋषय ऊचुः ।अस्पृश्यत्वं कथं यातः सूत ! बोधितरुः स्वयम् ।स्पृश्यत्वञ्च कथं प्राप्तस्तथायं शनिवासरे
सूत उवाच ।समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।तावत् विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम्
लक्ष्मीरुवाच ।असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते ।तस्मात्त्वमग्रजामेतामलक्ष्मीं मधुसूदन !
विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः ।तस्माद्धर्म्मव्यतिक्रामं कुर्य्या मधुसूदन !
सूत उवाच ।इति तद्वचनं श्रुत्वा विष्णुर्लोकभावनः ।उद्दालकाय मुनये सुदीर्घतपसे तदा ।आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् ।सवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम्
मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।वेदध्वनिसमायुक्तमानयामास धर्म्मवित्
होमधूमसुगन्धाढ्यं वेदघोषेण नादितम् ।आश्रमन्तं विलोक्याथ व्यथिता साब्रवीदिदम्
ज्येष्ठोवाच ।नहि वासोऽनुरूपोऽयं वेदध्वनियुतो मम ।नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम्
उद्दालक उवाच ।कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।तव योग्या वसतिः का भवेत्तद्वदस्व माम्
ज्येष्ठोवाच ।वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् ।यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम्
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम्
दानशौचे विद्येते परद्रव्यापहारिणः ।परदाररता यत्र तत्र स्थाने रतिर्म्मम
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम्
सूत उवाच ।इति तद्बचनं श्रुत्वा विषण्णवदनोऽभवत् ।उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच
उद्दालक उवाच ।अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि ! श्राम्यतां क्षणम् ।आश्रमस्थानमालोक्य यावदायाम्यहं पुनः
सूत उवाच ।इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।प्रतीक्षन्ती चिरं तत्र यदा तं ददर्श सा
तदा रुरोदे करुणं भर्त्तुस्त्यागेन दुःखिता
तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ।तदा विज्ञापयामास विष्णुमुद्विग्नमानसा
लक्ष्मीरुवाच ।स्वामिन् ! मद्भगिनी ज्येष्ठा स्वामित्यागेनदुःखिता ।तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया
सूत उवाच ।लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत्
विष्णुरुवाच ।अश्वत्थवृक्षमासाद्य सदालक्ष्मि ! स्थिरा भव ।ममांशसम्भवो ह्येष आवासस्ते मया कृतः
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल
प्रत्यब्दमर्च्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्म्मिणः ।तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया
”इति पाद्मोत्तरखण्डे १६० -- १६१ अध्यायौ
(रेवत्यां जातो मित्रस्य पुत्त्रविशेषः यथा, भागवते १८ ।“रेतः सिषिचतुः कुम्भे उर्व्वश्याः सन्निधौ द्रुतम् ।रेवत्यां मित्र उत्सर्गमरिष्ठं पिप्पलं व्यधात्
”)