| YouTube Channel

पितृहूः (pitRhUH)

 
शब्दकल्पद्रुमः
Sanskrit
पितृहूः,
पुं,
(पितॄनाह्वयत्यनेनेति पितृ + ह्वे +करणे क्विप् ।) दक्षिणकर्णः यथा, श्रीभाग-वते २५ ५० ।“पितॄहूर्नृपपुर्य्या द्बार्दक्षिणेन पुरञ्जनः
”“शास्त्रे प्रथमं श्रोतव्यं कर्म्मकाण्डं इत्येता-वता सामान्येन प्रवृत्तसंज्ञकस्य कर्म्मकाण्डस्यदक्षिणकर्णेन श्रवणमिष्यते ततस्तदर्थमनुष्ठायपितृभिराहूतः पितृलोकप्रापकं पितृयानं प्रप-द्यते तदनेन प्रकारेण पितॄणामाह्वानमनेनभवति पितृहूर्दाक्षंणः कर्णः एवं तद्वैवरीत्येनउत्तरकर्णो देवहूः तथा व्याख्यास्वति ।पितृहूर्दक्षिणः कर्णः उत्तरो देवहूः स्मृतः ।प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञितम्
”इति तट्टीकायां श्रीधरस्वामी