| YouTube Channel

पिण्डः (piNDaH)

 
Apte Hindi
Hindi
पिण्डः
पुं*
- पिण्ड् + अच्
"पिंडी, गोला, गोलक"
पिण्डः
पुं*
- पिण्ड् + अच्
"लौंदा, ढेला (मिट्टी का)"
पिण्डः
पुं*
- पिण्ड् + अच्
"कौर, ग्रास, मुंहभर कवल"
पिण्डः
पुं*
- पिण्ड् + अच्
श्राद्ध में पितरों को दिया जाने वाला चावलों का पिंड
पिण्डः
पुं*
- पिण्ड् + अच्
भोजन
पिण्डः
पुं*
- पिण्ड् + अच्
"जीविका, वृत्ति, निर्वाह"
पिण्डः
पुं*
- पिण्ड् + अच्
दान
पिण्डः
पुं*
- पिण्ड् + अच्
"मांस, आमिष"
पिण्डः
पुं*
- पिण्ड् + अच्
गर्भधारण को आरंभिक अवस्था का गर्भ
पिण्डः
पुं*
- पिण्ड् + अच्
"शरीर, शारीरिक ढांचा"
पिण्डः
पुं*
- पिण्ड् + अच्
"ढेर, संग्रहम् समुच्चय"
पिण्डः
पुं*
- पिण्ड् + अच्
टांग की पिंडली
पिण्डः
पुं*
- पिण्ड् + अच्
हाथी का कुंभस्थल
पिण्डः
पुं*
- पिण्ड् + अच्
मकान के आगे का निकाला हुआ छज्जा
पिण्डः
पुं*
- पिण्ड् + अच्
"धूप, या गंध द्रव्य"
पिण्डः
पुं*
- पिण्ड् + अच्
"जोड़, कुलयोग"
पिण्डः
पुं*
- पिण्ड् + अच्
घनत्व
Wordnet
Sanskrit
Synonyms:
पिण्डः
noun
कोऽपि घनगोलः।
"खगोलशास्त्रज्ञः खगोलीयस्य पिण्डस्य अध्ययनं करोति।"
Synonyms:
पिण्डः
noun
कोऽपि वर्तुलाकारः खण्डः।
"श्रमिकः पाषाणस्य लघुन् पिण्डान् संकलयति।"
Synonyms:
गर्भः, भ्रूणः, पिण्डः, कललम्, कललनम्
noun
गर्भस्थस्य जीवस्य विकसिता अवस्था यस्यां सः जीवः परिपक्वताम् आपन्नः दृश्यते।
"गर्भस्य हननम् अपराधः अस्ति।"
Synonyms:
पिण्डः, गुटिका, गुल्मः
noun
कोऽपि घनीभूतः द्रवः।
"दुर्घटनायाः स्थले स्थाने स्थाने रुधिरस्य पिण्डाः सन्ति।"
Synonyms:
पिण्डः, लोष्टम्
noun
मृदाशिलादीनां घनः खण्डः।
"बालकः पिण्डेन आम्रान् छिनत्ति।"
Synonyms:
पिण्डिका, पिण्डः, पिण्डम्, पिचण्डिका, इन्द्रवस्तिः, पिच्छा, जङ्घापिण्डी
noun
जानुनोऽधोमांसलप्रदेशः।
"मम पिण्डिकायां पीडा अजायत।"
Synonyms:
क्षुद्रपिण्डः, पिण्डः, क्षुद्रखण्डः, निषेकः
noun
आर्द्रद्रव्यलघ्वाघातः।
"मह्यं पटे तैलस्य क्षुद्रपिण्डः पतितः।"
Synonyms:
पिण्डः
noun
एकः पुरुषः
"पिण्डः नडादिगणे परिगणितः"
शब्दकल्पद्रुमः
Sanskrit
पिण्डः,
पुं,
(पिडि संहतौ + अच् ।) वोलः ।(अस्य पर्य्यायो यथा, वद्यकरत्नमालायाम् ।“विद्वान् गोलः पिण्डकश्च पिण्डो वोलो रसोरसः
)बलम् सान्द्रम् देहैकदेशः (यथा, महा-भारते ११२ ।“द्वौ चास्य पिण्डावधरेण कण्ठा-दजातरोमौ सुमनोहरौ
”)अगारैकदेशः देहमात्रम् (यथा, रघुः ।२ ५७ ।“एकान्तविध्वंसिषु मद्विधानांपिण्डेष्वनास्था खलु भौतिकेषु
”)निवापः (यथा, मनुः २१५ ।“त्रींस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा समा-हितः ।औदकेनैव विधिना निर्व्वपेद्दक्षिणामुखः
”)गोलः सिह्लकः ओड्रपुष्पम् इति मेदिनी ।डे, १९
बृन्दम् कवलः इति हेमचन्द्रः
(यथा, मनुः ११ २१७ ।“एकैकं ह्नासयेत् पिण्डं कृष्णे शुक्ले वर्द्धयेत्
”)गजकुम्भः इत्यमरः ३७
मदनवृक्षः ।इति राजनिर्घण्टः
(यथा, भावप्रकाशे पूर्व्व-खण्डे प्रथमे भागे ।“मदनश्छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा ।करहाटो मरुवकः शल्यको विषपुष्पकः
”किलाटः यथा, वैद्यकरत्नमालायाम् ।“किलाटः कुर्च्चिका पिण्डः --
”)निवापस्य पितृदेयस्य विधिर्यथा, --“यावदन्नमुपादाय हविषोऽर्भकमर्भकम् ।चरुणा सह सन्नीय पिण्डदानमुपक्रमेत्
श्राद्धार्थाद्धविषोऽन्नादेः सकाशात् यावद्भक्ष्य-मोदनव्यञ्जनादि ततोऽल्पाल्पं गृहीत्वा यदग्नौकरणशेषेण सह सन्नीय मिश्रीकृत्य पिण्डदान-मारभेतेत्यर्थः ।मध्वाज्यतिलसंयुक्तं सर्व्वव्यञ्जनसंयुतम् ।उष्णमादाय पिण्डन्तु कृत्वा विल्वफलोपमम् ।दद्यात् पितामहादिभ्यो दर्भमूलाद्यथाक्रमम्
अत्र पितामहपदं पितृपरं वचनान्तरैकवाक्य-त्वात् ।सपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ।पितामहाय चैवाथ तत्पित्रे ततः परम्
दर्भमूले लेपभुजस्तर्पयेल्लेपघर्षणैः ।पिण्डैर्मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः
प्रीणयित्वा द्विजाग्र्याणां दद्यादाचमनन्ततः
”इति श्राद्धतत्त्वम्
*
अन्नाद्यभावे फलादिनापि तस्य कर्त्तव्यत्वंयथा, --“ऐङ्गुदं वदरोन्मिश्रं पिण्याकं दर्भसंस्तरे ।न्यूप्य पिण्डं सतो राम इदं वचनमब्रवीत्
इदं भुङ्क्ष्व महाराज ! प्रीतो यदशना वयम् ।यदन्नाः पुरुषा राजंस्तदन्नाः पितृदेवताः
”इत्ययोध्याकाण्डम्
*
पूरकपिण्डविधिर्यथा, --“ततश्चोत्तरपूर्व्वस्यामग्निं प्रज्वालयेद्दिशि ।तण्डुलप्रसूतिं तत्र प्रक्षाल्य द्बिः पचेत् स्वयम्
सपवित्रैस्तिलैर्म्मिश्रां केशकीटविवर्जिताम् ।द्वारोपान्ते ततः क्षिप्त्वा शुद्धां वा गौरमृत्तिकाम्
तत्पृष्ठे प्रस्तरेद्दर्भान् याम्याग्रान् देशसम्भवान् ।ततोऽवनेजनन्दद्यात् संस्मरन् गोत्रनामनी
तिलसर्पिर्मधुक्षीरैः सञ्चितं तप्तमेव हि ।दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुखस्थितः
फलमूलगुडक्षीरतिलमिश्रन्तु कुत्रचित् ।अर्घ्यैः पुष्पैस्तथा दीपैर्धूपैस्तोयैः सुशीतलैः
ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिण्डमर्च्चयेत् ।प्रयाति यावदाकाशं पिण्डाद्वास्पमयी शिखा
तावत्तु संमुखस्तिष्ठेत् सर्व्वं तोये ततः क्षिपेत् ।दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु
सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा ।त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि
द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि ।एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते
द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा ।पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव
अष्टमेऽष्टौ नवमे नवैव दशमे दश ।येन स्युः पञ्चपञ्चाशत्तोयस्याञ्जलयः क्रमात्
तोयपात्राणि तावन्ति संयुक्तानि जलादिभिः
”इति शुद्धितत्त्वम्
*
गयायामात्मपिण्डदानप्रमाणं यथा, --“स्वकर्म्मधर्म्मयोगेन धनमुच्चावचं बहु ।उपार्जयित्वा प्रययौ गयातीर्थमनुत्तमम्
पिण्डनिर्व्वपणं तत्र प्रेतानामनुपूर्व्वशः ।चकार स्वपितॄणाञ्च दायादानामनन्तरम्
आत्मनश्च महाबुद्धिर्महावेद्यां तिलैर्विना ।पिण्डनिर्व्वपणं चक्रे तथान्येषाञ्च गोत्रिणाम्
एवं प्रदत्तेष्वथ वै पिण्डेषुं प्रेतभावतः ।विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः
”इति वामने ७६ अध्यायः