पारद (pArada)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishपारदः [pāradḥ], quick-silver
पारदः पारतः सूतो हरबीजं रसश्चलः Abh. Chin. 15
निदर्शनं पारदो$त्र रसः 1.82
पारदं हरितालं च Śiva B.3.19
संसारस्य परं पारं दत्ते$सौ पारदः स्मृतः Raseśvaradarśanam. -दाः (pl. ) of a barbarous tribe
see 1.44
* 2.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiपारदः
- पारं ददाति- पार + दा + क
पारा
Shabdartha Kaustubha
Kannadaपारत(द)
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಾದರಸ
निष्पत्तिः - > तनु (विसतारे) - "डः" (वा० ३-२-१०२) - पृषो०, डुदाञ् (दाने) - "कः" (३-२-३) वा
व्युत्पत्तिः - > पानं तनोति, पारं ददाति
पारद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಾದರಸ /ರಸಧಾತು
निष्पत्तिः - > डुदाञ् (दाने) - "कः" (३-२-३)
व्युत्पत्तिः - > पारं ददाति
प्रयोगाः - > "पारदः सक्लरोगनाशकः षड्रसो निखिलयोगवाहकः"
Anekartha-Dvani-Manjari
Sanskritरस
पु
रस, जल, हर्ष, शृङ्गारादि, पुष्पादिनिर्यास, पारद, विष
रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः ।
रसः पुष्पादिनिर्यासः पारदोऽपि रसो विषम् ॥ २४ ॥
verse 1.1.1.24
page 0002
Sanskrit Tibetan
Tibetandngul chu
१) घनसार २) पारद
mchog sbyin
१) धर्म २) पारद ३) वरद ४) वरदातृ ५) वरुण
अभिधानचिन्तामणिः
Sanskritपारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० ॥
पारद (पुंक्ली), पारत (पुंक्ली), सूत (पुं), हरबीज (क्ली), रस (पुं), चल (पुं)
अभिधानरत्नमाला
Sanskritरस
रस, शृङ्गारादि, लवणादि, पारद, राग, निर्यास, वीर्य, गुण, धातु, विष, घृतादि
शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।
निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
verse 5.1.1.861
page 0098
वैजयन्तीकोषः
SanskritWord: पारदाः
Root: पारद
Gender: पुं
Number: बहु
अर्थः ⇒
Meaning(s):
⇒ Name of the country belonging to Udīcya
Shloka(s):
3|1|28|2 ► अप्यन्ये पारदाः किञ्जाः कुल्या इत्यादिनीवृतः॥ (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
➠ 3|1|28|2 ⇢ पारदाः (पारद) (पुं) ⇒ Name of the country belonging to Udīcya ⇒
Related word(s):
Mahabharata
EnglishPārada, pl. (ºāḥ), a people. § 295 (Dyūtap.): II, 51, 1832
52, 1859, 1869 (brought tribute to Yudhishṭhira).-§ 585 (Bhīshmavadhap.): VI, 87, 3853 (in the army of Duryodhana, followed Droṇa).--§ 599 (Jayadrathavadhap.): VII, 93, 3379 (attacked Arjuna)
121, 4818 (attacked Sātyaki).
पुराणम्
Englishपारद / PĀRADA. An ancient place of bhārata. Those who resided there were called Pāradas. The descendants of these people live in north Baluchistan. Pāradas gave dharmaputra many valuable presents. (Chapter 51, Sabhā Parva). They followed bhīṣma. (Chapter 87, bhīṣma parva).
शब्दकल्पद्रुमः
Sanskritपारदः, (जरामरणसङ्कटादिभ्यः पारं ददा-तीति । दा + कः ।) धातुविशेषः । पारा इतिभाषा । तत्पर्य्यायः । रसराजः २ रसनाथः३ महारसः ४ रसः ५ महातेजः ६ रसलेहः७ रसोत्तमः ८ सूतराट् ९ चपलः १० जैत्रः११ शिवबीजम् १२ शिवः १३ अमृतम् १४रसेन्द्रः १५ लोकेशः १६ दुर्द्धरः १७ प्रभुः १८रुद्रजः १९ हरतेजः २० रसधातुः २१ अचि-न्त्यजः २२ खेचरः २३ अमरः २४ देहदः २५मृत्युनाशकः २६ सूतः २७ स्कन्दः २८ स्कन्दां-शकः २९ देवः ३० दिव्यरसः ३१ रसायनश्रेष्ठः३२ यशोदः ३३ । इति राजनिर्घण्टः ॥
सूतकः३४ सिद्धधातुः ३५ पारतः ३६ । इति शब्दरत्ना-वली ॥
हरबीजम् ३७ रजस्वलः ३८ । इतिहेमचन्द्रः ॥
शिववीर्य्यम् ३९ शिवाह्वयः ४० ।इति भावप्रकाशः ॥
अस्य गुणाः । क्रमिकुष्ठ-नाशित्वम् । चक्षुष्यत्वम् । रसायनत्वञ्च । इतिराजवल्लभः ॥
अस्य भस्मनः पूर्णवीर्य्यं मासत्रय-पर्य्यन्तं तिष्ठति । इति परिभाषा ॥
* ॥
अपि च ।“पारदः सकलरोगनाशकःषड्रसो निखिलयोगवाहकः ।पञ्चभूतमय एष कीर्त्तितोदेहलोहवरसिद्धिकारकः ॥
मूर्च्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः ।सर्व्वसिद्धिकरो लीनो निरुत्थो देहसिद्धिदः ॥
विविधव्याधिभयोदयमरणजरासङ्कटेऽपिमर्त्त्येभ्यः ।पारं ददाति यस्मात्तस्मादयं पारदः कथितः ॥
”इति राजनिर्घण्टः ॥
तस्योत्पत्तिलक्षणे यथा, --“शिवाङ्गात् प्रच्युतं रेतः पतितं धरणीतले ।तद्देहसारजातत्वाच्छुक्लमच्छमभूच्च तत् ॥
अत्र भेदेन विज्ञेयं शिववीर्य्यं चतुर्व्विधम् ।श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत् क्रमात् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च खलु जातितः ।श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने ॥
धातुवादे तु तत् पीतं खे गतौ कृष्णमेव च ॥
पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः ।योगवाही महावृष्यः सदा दृष्टिबलप्रदः ॥
सर्व्वामयहरः प्रोक्तो विशेषात् सर्व्वकुष्ठनुत् ।स्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयो जनार्द्दनः ।रञ्जितः क्रामितश्चापि साक्षाद्देवो महेश्वरः ॥
मूर्च्छित्वा हरति रुजं बन्धनमनुभूय खे गतिंकुरुते ।अजरीकरोति हि मृतः कोऽन्यः करुणाकरःसूतात् ॥
”रसामृते ।“यस्य रोगस्य यो योगस्तेनैव सह योजितः ।रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥
”तस्य दोषा यथा, --“मलं विषं वह्निगिरित्वचापलंनैसर्गिकं दोषमुषन्ति पारदे ।उपाधिजौ द्वौ त्रिपुनागयोगजौदोषौ रसेन्द्रे कथितौ मुनीश्वरैः ॥
मलेन मूर्च्छा मरणं विषेणदाहोऽग्निना कष्टतरः शरीरे ।देहस्य जाड्यं गिरिणा सदा स्या-च्चाञ्चल्यतो वीर्य्यहृतिश्च पुंसाम् ॥
वङ्गेन कुष्ठं भुजगेन गण्डोभवेदतोऽसौ परिशोधनीयः ॥
वह्निर्व्विषं मलञ्चेति मुख्या दोषास्त्रयो रसे ।एते कुर्व्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात् ॥
अन्येऽपि दोषाः कथिता भिषग्भिः पारदे यदि ।तथाप्येते त्रयो दोषा हरणीया विशेषतः ॥
संस्कारहीनं खलु सूतराजंयः सेवते तस्य करोति बाधास् ।देहस्य नाशं विदधाति नूनंकष्टांश्च रोगान् जनयेन्नराणाम् ॥
”मारितस्य मूर्च्छितस्य तस्य गुणाः ।“पारदः कृमिकुष्ठघ्नो जयदो दृष्टिदः सरः ।मृत्युहृच्च महावीर्य्यो योगवाही जराहरः ॥
स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः ।षण्डत्वनाशनः शूरः खेचरः सिद्धिदः परः ॥
पारदः सकलरोगहा स्मृतःषड्रसो निखिलयोगवाहकः ।पञ्चभूतमय एव कीर्त्तित-स्तेन तद्गुणगणैर्व्विराजते ॥
” * ॥
अथ रसस्य शोधनविधिः । तत्र स्वेदनम् ।“नानाधान्यैर्यथा प्राप्तैस्तुषवर्जैर्जलान्वितैः ।मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥
तन्मध्ये भृङ्गराण्मण्डी विष्णुक्रान्ता पुनर्नवा ।मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकः ।समूलं कुट्टयित्वा तु यथालाभं विनिःक्षिपेत् ॥
पूर्व्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम् ।स्वेदनादिषु सर्व्वत्र रसराजस्य योजयेत् ॥
”विष्णुक्रान्ता गिरिकर्णी च अपराजितैव श्वेत-नीलपुष्पभेदात् । अत्यम्लमारनालं वा तदभावेप्रयोजयेत् । तदभावे धान्याम्लाभावे ।“त्र्युषणं लवणं राजी रजनी त्रिफलार्द्रकम् ।महाबला नागबला मेघनादः पुनर्नवा ॥
मेषशृङ्गी चित्रकञ्च नवसारं समं समम् ।एतत् समस्तं व्यस्तं वा पूर्व्वाम्लेनैव पेषयेत् ॥
प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् ।तन्मध्ये निःक्षिपेत् सूतं बद्ध्वा तत्त्रिदिनं पचेत् ॥
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥
”मेघनादः चवराइ शाकविशेषः । मेषशृङ्गी मेढा-शृङ्गी । तदलाभे कर्कटशृङ्गी ग्राह्या । नवसारंनौसादर । अन्यच्च ।“सूलकानलसिन्धूत्थत्र्युषणार्द्रकराजिकाः ।रसस्य षोडशांशेन द्रव्यं युञ्ज्यात् पृथक् पृथक् ॥
द्रव्येष्वनुक्तमानेषु मतं मानमिदं बुधैः ।पटावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके ॥
स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान् ।स्वेदात्तीव्रो भवेत् सूतो मर्द्दनाच्च सुनिर्म्मलः ॥
”मूलकंमुरै । अनलश्चित्रकम् । त्र्युषणं त्रिकटु ।राजिका राइ ॥
* ॥
अथ मर्द्दनम् ।“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः ।दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥
”अन्यच्च ।“कुमारिकाचित्रकरक्तसर्षपैःकृतैः कषायैर्बृहतीविमिश्रितैः ।फलत्रिकेणापि विमर्द्दितो रसोदिनत्रयं सर्व्वमलैर्विमुच्यते ॥
” * ॥
अथ मूर्च्छनम् ।“त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्राद्बयान्वितैः ।चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः ॥
सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् ।इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान् ॥
”बन्ध्याकन्दः वाझखखसाकन्दः । क्षुद्राद्वयं छोटी-कटैया वडोकटैया । ऊर्णा ऊर्णामेषका । निशाहरिद्रा । क्षारः यवक्षारः । कन्या कुमारिका ।अर्कः अर्कपत्ररसः । कनकः धत्तूरपत्ररसः ॥
* ॥
अथोर्द्ध्वपातनम् ।“मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च ।यन्त्रे विद्याधरे कुर्य्याद्रसेन्द्रस्योर्द्ध्वपातनम् ॥
सूतः स्यादूर्द्ध्वपातेन सर्व्वदोषविवर्ज्जितः ॥
”मयूरग्रीवा तुतिया । ताप्यः सुवर्णमाषी । नष्ट-पिष्टीकृतस्य कुमारिकाद्रवयोगेन तावन्मर्द्दनंकर्त्तव्यं यावत् पारदः पृथङ्न दृश्यते इत्यर्थः ।विद्याधरयन्त्रे डमरुयन्त्रे ॥
* ॥
अथाधःपातनम् ।“त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः ।नष्टपिष्टं रसं कृत्वा लेपयेदूर्द्ध्वभाजनम् ॥
ततो दीप्तैरधःपातमुपलैस्तस्य कारयेत् ।यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्यति ॥
स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत् ।तदा कार्य्याणि कुरुते प्रयोज्यः सर्व्वकर्म्मसु ॥
”अथ मुख्यदोषहरशोधनविधिः ।“गृहकन्या हरति मलं त्रिफलाग्निं चित्रकोविषं हन्ति ।तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत् सप्त ॥
” * ॥
अथ सर्व्वदोषहरः संक्षिप्तः शोधनविधिः ।“कुमारिकाचित्रकरक्तसर्षपैःकृतैः कषायैर्बृहतीविमिश्रितैः ।फलत्रिकेणापि विमर्द्दितो रसोदिनत्रयं सर्व्वमलैर्विमुच्यते ॥
”एवं कदर्थितः सूतः षण्डो भवति निश्चितम् ।बह्वौषधीकषायेण स्वेदितः स बली भवेत् ॥
सर्पाक्षीचिञ्चिकाबन्ध्याभृङ्गाब्दैः स्वेदितो बली ।ततः स पारकद्रावैः स्विन्नः स्यादतिदीप्तिमान् ॥
”सर्पाक्षी नागफणी । चिञ्चिका अम्बिली । बन्ध्यावाँझखखसा । भृङ्गः भृङ्गराजः । अब्दो मुस्ता ।पावकः चित्रकः ॥
* ॥
अथ रसस्य मारणविधिः ।“धूमसारं रसं तोरीं गन्धकं नवसादरम् ।यामैकं मर्द्दयेदम्लैर्भागं कृत्वा समं समम् ॥
काचकूप्यां विनिः क्षिप्य ताञ्च मृद्वस्त्रमुद्रया ।विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत् ॥
अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् ।पिठरीं बालुकापूरैर्भृत्वा वा कूपिकागलम् ॥
निवेश्य चुल्ल्यां तदधो वह्निं कुर्य्याच्छनैः शनैः ।तस्मादप्यधिकं किञ्चित् पावकं ज्वालयेत् क्रमात् ॥
एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः ।स्फोटयेत् स्वाङ्गशीतं तमूर्द्ध्वगं गन्धकं त्यजेत् ॥
अधःस्थञ्च मृतं सूतं गृह्णीयात्तन्तु मात्रया ।यथोचितानुपानेन सर्व्वकर्म्मसु योजयेत् ॥
” * ॥
अथान्यप्रकारः ।“अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् ।तत् संपुटे क्षिपेत् सूतं मलपूदुग्धमिश्रितम् ॥
”मलपूः काष्ठोदुम्बरिका ।“द्रोणपुष्पीप्रसूनानि विडङ्गमिरिमेदकः ।एतच्चूर्णमधश्चोर्द्ध्वं दत्त्वा मुद्रां प्रदीपयेत् ॥
तद्गोलमाधमेत् सम्यक् मृन्मूषासंपुटे सुधीः ।मुद्रां दत्त्वा शोषयित्वा ततो गजपुटे पचेत् ॥
एकेनैव पुटेनैव सूतकं भस्म जायते ।तत् प्रयोज्यं यथास्थाने यथामात्रं यथाविधि ॥
”अथान्यप्रकारः ।“काष्ठोडुम्बरिकादुग्धै रसं किञ्चिद्बिमर्द्दयेत् ।तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् ॥
क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रां प्रदीपयेत् ।धृत्वा तद्गोलकं प्राज्ञो मृन्मूषासंपुटेऽधिके ॥
पचेद्गजपुटे तेन सूतकं याति भस्मताम् ॥
”अन्यः प्रकारः ।“नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः ।मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥
”इति भावप्रकाशे पूर्व्वखण्डे २ भागे ॥
अथ पारदशिवलिङ्गनिर्म्माणविधिः ।“पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ! ।अतएव महेशानि ! शान्तिस्वस्त्ययनं चरेत् ॥
पारदं शिवबीजं हि ताडनं नहि कारयेत् ।ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ॥
ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् ।द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः ।पट्टादिसूत्रनिर्म्माणरचितं शुक्लमेव वा ॥
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥
भोगयोग्यं प्रदातव्यं मधुपर्कं कुलेश्वरि ! ।अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे ॥
पूजयेद्बहुयत्नेन विल्वपत्रेण पार्व्वति ! ।तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ॥
आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् ।पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् ॥
दक्षिणान्तं समाचर्य्य हविष्याशी जितेन्द्रियः ।ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन ।अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥
होमयेत् परमेशानि ! दशांशं वा शतांशकम् ।होमस्य दक्षिणा कार्य्या तदा विघ्नैर्न लिप्यते ॥
ततः परस्मिन् दिवसे पारदं आनयेत् सुधीः ।तस्योपरि जपेन्मन्त्रं सर्व्वबन्धं नवात्मकम् ॥
व्योमबीजं शिवार्णञ्च वर्णाद्यं बिन्दुमस्तकम् ।वायुबीजं चेन्दुयुतं त्रितयं त्र्यम्बकं प्रिये ! ॥
इमं मन्त्रं महेशानि ! प्रजपेदौषधोपरि ॥
पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि ।तदैवौषधयोगेन बद्धो भवति नान्यथा ॥
ततः परस्मिन् दिवसे शृणु यत् प्राणवल्लभे ! ।वरयेत् सर्व्वकर्त्तारं यथोक्तविभवावधि ॥
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेशयेत् ।चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥
हस्तद्वये महेशानि ! दद्याद्वलययुग्मकम् ।वलयं शुक्लवर्णञ्च अङ्गुरीयं तथैव च ॥
ऊर्म्मीं दद्यात् पीतवर्णां क्षौमवस्त्रयुगं शिवे ! ।एवं कृत्वा महेशानि ! शिवरूपं विचिन्तयेत् ॥
अथातः संप्रवक्ष्यामि विधानं शृणु पार्व्वति ! ।प्रस्तरे चैव संस्थाप्य झिण्टीपत्ररसेन च ।प्रणवेन समालोड्य कुर्य्यात् कर्द्दमवन् प्रिये ! ॥
निर्म्माणयोग्यं तद्द्रव्यं यदि स्यात् सुरसुन्दरि ! ।तदा निर्म्माय तल्लिङ्गं पुनर्दृढतरञ्चरेत् ॥
खपुष्पसंयुते वस्त्रे अङ्गारे च करीषके ।किञ्चिदुष्णं प्रकर्त्तव्यं यतो दृढतरं भवेत् ॥
”इति मातृकाभेदतन्त्रे ८ पटलः ॥
* ॥
सगरराजकृतमुक्तकेशम्लेच्छजातिविशेषः ॥
(यथा, महाभारते । २ । ५१ । १३ ।“कैराता दरदा दर्व्वाः शूरा वैयामकास्तथा ।औदुम्बरादुर्विभागा पारदाः सह वाह्लिकैः ॥
”)अस्य विवरणं पह्नवशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritपार(द)त पॄ--णिच्--तन्, पृषो० तस्य दो वा । १ रसभेदे(पारा) । पारं ददाति दा--क । २ पारदायिनि हेमच०“रसायनार्थिमिर्लोकैः पारदो रस्यते यतः । ततो रसइति प्रोक्तः स च धातुरपि स्मृतः” । अथ पारदस्योत्-पत्तिर्लक्षणनामगुणाः “शिवाङ्गात् प्रच्युतं रेतः प-तितं धरणीतले । तद्देहसारजतित्वाच्छुक्लमच्छमभूच्चतत् । क्षेत्रभेदेन विज्ञेयं शिववीर्य्यञ्चतुर्बिधम् । श्वेतंरक्तन्तथा पीतं कृष्णं तत्तु भवेत् क्रमात् । ब्राह्मणः क्ष-त्रियो वैश्य शूद्रश्च खलु जातितः । श्वेतं शस्तं रुजांनाशे रक्तङ्किलरसायनम् । धातुवादे तु तत्पीतं खेगतौकृष्णमेव च । पारदो रसधातुश्च रसेन्द्रश्च महारसः ।चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः । पारदःषडसः स्निग्धस्त्रिदोषघ्नो रसायनः । योगवाहो महावृष्यः सदा दृष्टिबलप्रदः । सर्वामयहरः प्रोक्तो विशे-षात्सर्वकुष्ठनुत् । स्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयोजनार्दनः । रञ्जितः कामितश्चापि साक्षाद्देवमहेश्वरः ।मूर्च्छिती हरति रुजं बन्धनमनुभूय खेगतिं कुरुते ।अजरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ।असाध्यो यो भवेद्रोगो यस्य नास्ति चिकित्सितम् । र०सेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् । मलं विषंवह्निगिरी च वापलन्नैसर्गिकन्दोषमुशन्ति पारदे ।उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौमुनीश्वरैः । मलेन मूर्च्छा, मरणं विषेण दा होऽग्निनाकष्टतरः शरीरे । देहस्य जाड्यङ्गिरिणा सदा स्यात् चा-ञ्चल्यतो वीर्य्यहृतिश्च पुंसाम् । वङ्गेन कुष्ठम्भुजगेनषण्डो भवेदतोऽसौ परिशोधनीयः । वह्निर्विषं मल-ञ्चेति मुख्यादोषास्त्रयो रसे । एते कुर्वन्ति सन्तापंमृतिं मूर्च्छां नृणां क्रमात् । अन्येऽपि कथिता दोषाभिषग्भिः पारदे यदि । तथाप्येते त्रयो दोषा हर-णीया विशेषतः । संस्कारहीनं खलु सूतराजं यःसेवते तस्य करोति बाधाम् । देहस्य नाशं विदधाति नूनंकष्टांश्च रोगान् जनयेन्नराणाम्” । तस्य शोधनादिविधिःतत्स्वेदनञ्च “नानाधान्यैर्यथाप्राप्तैस्तुषवज्रैर्जलान्वितैः ।मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात् । तन्मध्येभृङ्गरा मुण्डी विष्णुक्रान्ता पुनर्णवा । मीनाक्षीचैव सर्पाक्षी सहदेवी शतावरी । त्रिफला गिरिकर्णीच हंसपदी च चित्रकम् । समूलं कुट्टयित्वा तु यथा-लाभं विनिःक्षिपेत् । पूर्वाम्लभाण्डभध्ये तु धान्याम्ल-कमिदं स्मृतम् । स्वेदनादिषु सर्वत्र रसराजस्य योज-येत्” विष्णुक्रान्ता गिरिकर्णी च अपराजितैव नीलश्वे-तपुष्पभेदात् । “अत्यम्लमारनालं वा तदभावे प्रयोजयेत्”तदभावे धान्याम्लाभावे “त्र्यूषणं लवणं राजी रजनीत्रिफर्लाद्रकम् । महाबला नागबला मेघनादः पुन-र्णवा । मेषशृङ्गी चित्रकञ्च नवसारं समं समम् ।एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् । प्रलिम्पेत्तेनकल्केन वस्त्रमङ्गुलमात्रकम् । तन्मध्ये निक्षिपेत्सूतंबद्ध्वा तत्त्रिदिनं पचेत् । दोलायन्त्रेऽम्लसंयुक्ते जायतेस्वेदितो रसः” मेघनादः (चवराई)शाकविशेषः । मेषशृङ्गी (मेढाशृङ्गी) । तदलाभे कर्कटशृङ्गी ग्राह्या । नव-सारं नवसादरम् । अन्यच्च “मूलकानलसिन्धूत्थत्र्यू-पणार्द्रकराजिका । रसस्य षोडशांशेन द्रव्यं युञ्ज्यात्पृथक् पृथक् । द्रवेष्वनुक्तमानेषु मतं मानमिदं बुधैः ।पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके । स्वेदयेद्दिन-मेकञ्च दोलायन्त्रेण बुद्धिमान् । स्वेदात्तीव्री भवेत्-सृतो मर्दनाच्च सुनिर्मलः” । मूलकम् (मुरै) अनलश्चित्र-कम् । त्र्यूषणं त्रिकटु राजिका (राई) । अथ मर्दनम्“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्योरसस्ततः । दघ्ना गुडेनसिन्धूत्थराजिकागृहधूमकैः” । अन्यच्च “कुमारिकाचि-त्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः । फल-त्रिकेणापि विमर्द्दितो रलो दिवत्रयं सर्वमलैर्विमुच्यते” ।अथ मूर्च्छनम् “त्र्यूषणं त्रिफलाबन्ध्याकन्दैः क्षुद्राद्वया-न्वितैः । चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः । सूतंकृतेन यूषेण वारान् सप्ताभिमर्द्दयेत् । इत्थं सम्मू-र्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान्” । बन्ध्याकन्दः (वान्दु-स्वेखसाकन्द) क्षुद्राद्वयं (छीटीकटाई वडीकटाई) उर्णाउर्णमेषका । निशा हरिद्रा क्षारः यवक्षारः । कन्याकुमारिका अर्कस्तत्पत्ररसः कनकघूत्तूरपत्ररसः । अथो-र्द्धपातनम् “मयूरग्रीवताप्याभ्यान्नष्टपिष्टीकृतस्य च ।यन्त्रे विद्याधरे कुर्य्याद्रसेन्द्रस्योर्द्धपातनम्” । ताप्यम् सु-वर्णमाक्षी । नष्टपिष्टीकृतस्य । कुमारिकाद्रवयोगेनतावन्मर्द्दनं कर्त्तव्यं यावत्पारदः पृथक् न दृश्यत इत्यर्थः ।विद्याधरयन्त्रे डमरुयन्त्रे । अथाःधपातनम् “त्रिफ-लाशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसंकृत्वा लेपयेदूर्द्धभाजनम् । ततो दीप्वैरधःपातः सुपलै-स्तस्य कारयेत् । यन्त्रे भूधरसंज्ञे तु ततः सूतो विशु-ध्यति । स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा म-वेत् । तदा कार्य्याणि कुरुते प्रयोज्यः सर्वकर्मसु” । अथमुख्यदोषहरः शोधनविधिः “गृहकन्या हरति मलन्त्रिफलाऽग्निञ्चित्रको विमं हन्ति । “तस्मादेभिर्मिश्रैर्वारान्संमूर्च्छयेत् सप्त” । अथ सर्वदोषहरः शोधनविधिः “कुमा-रिकाचित्रकरक्तसर्षपैः कृतः कषायैर्वृहतीविमिश्रितैः ।फलत्रिकेणापि विमर्द्दितो रसो दिनत्रयं सर्वमलैर्विमु-च्यते । कुमार्य्या च निशाचूर्णैर्दिनं सूतं विमर्द्दयेत् ।एवं कदर्थितः सूतो षण्डो भवति निश्चितम् । वह्वौ-षधीकषायेण स्वेदितः स बली भवेत् । सर्पाक्षीचि-ञ्चिकाबन्ध्यामृद्वव्दैः स्वेदितो बली । ततः स पाव-कद्रावैः स्विन्नः स्यादतिदीप्तिमान्” । सर्पाक्षी (नागफणी)चिञ्चिका (अम्बिली) बन्ध्या (वाङ्खखेखसा) भृङ्गःभृङ्गराजः । अव्दो मुस्ता पावकः चित्रकम् । अथरसस्य मारणविधिः “धूमासारं रसं तोरीगन्धकंनवसादरम् । यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ।काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्रया । विलिप्यपरितो वक्त्रे मुद्रां दत्त्वा विशोधयेत् । अधःसच्छिद्रपि-ठरीमध्ये कूपीं निवेशयेत् । पिठरीं बालुकापूरैर्भृत्वाच कूपिकागलम् । निवेश्य चुल्यां तदधो वह्निं कुर्य्या-च्छमैः शनैः । तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत् क्र-मात् । एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः । स्फोट-येत् स्वाङ्गशीतं तमूर्द्धगङ्गन्धकं त्यजेत् । अधस्थञ्चमृतं सूतं गृह्णीयात्तन्तु मात्रया । यथोचितानुपानेन सर्व-कर्मसु योजयेत्” भावप्र० । सर्व० सं० रसेश्वरदर्शने तनिरुक्तिः“संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः” इति ।रसार्णवेऽपि “पारदो गदितो यस्मात् पारार्थं साधको-त्तमैः । गुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः ।मम देहरसो यस्माद्रसस्तेनायमुच्यते” इति “कर्मयोगेनदेवेशि! प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेतिकर्मयोगो द्विधा स्मृतः । मूर्च्छितो हरति व्याधीन्मृतो जीवयति स्वयम् । वद्धः खेचरतां कुर्य्याद्रसो वायुश्चभैरवि!” इति । मूर्च्छितस्वरूपमप्युक्तम् “नानावर्णो भवेत्सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि । आर्द्रत्वञ्च घनत्वञ्च तेजो गौरवचापलम् । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूत-कम्” इति । अन्यत्र बद्धस्वरूपमप्यभ्यधायि “अक्षतश्चलघुद्रावी तेजस्वी निर्मलो गुरुः । स्फोटनं पुनरावृत्तौवद्धसूतस्य लक्षणम्” इति । “ननु हरगौरीसृष्टिसिद्धौपिण्डस्थैर्यमास्थातुं पार्य्यते तत्सिद्धिरेव कथमितिचेन्न अष्टादशसंस्कारवशात्तदुपपत्तेः तदुक्तमाचार्य्यैः“तस्य हि साधनविधौ सुधियां प्रतिकर्मनिर्मलाः प्रथ-मम् । अष्टादशसंस्काराविज्ञातव्याः पयत्नेनेति” । ते चसंस्कारानिरूपिताः “स्वेदनमर्द्दनमूर्च्छनस्थापनपातननि-रोधनियमाश्च । दीपनगगनग्रासप्रमाणमथ जारणापिधा-नम् । गर्भद्रुतिबाह्यद्रुतिक्षारणसरागमारणाश्चैव क्रमेणवेधो भक्षणमष्टाशधेति रसकर्मेति” । रसेश्वरशब्दे विवृतिः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
