| YouTube Channel

पापपुरुषः (pApapuruSaH)

 
Apte Hindi
Hindi
पापपुरुषः
पुं*
पाप-पुरुषः -
दुष्ट प्रकृति वाला मनुष्य
शब्दकल्पद्रुमः
Sanskrit
पापपुरुषः,
पुं,
(पापः पापमयः पुरुषः ।) पाप-मयाङ्गनरः यथा, --“वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् ।ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम्
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।तत्संसर्गि पदद्वन्द्वमङ्गप्रत्यङ्गपातकम्
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत्
”इति भूतशुद्धिप्रकरणे तन्त्रसारः
*
“सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् ।सर्व्वेषां दमनार्थाय सृष्टवान् पापपूरुषम्
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् ।सुवर्णस्तेयवदनं गुरुतल्पगतिश्रुतिम्
स्त्रीहत्यानासिकञ्चैव गोहत्यादोषबाहुकम् ।न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा
परस्त्रीगतिवुक्कालं सुहृल्लोकवधोदरम् ।शरणापन्नहत्यादिनाभिं गर्व्वकथाकटिम्
गुरुनिन्दासक्थिभागं कन्याविक्रयशेफसम् ।विश्वासवाक्यकथनपायुं पितृवधाङ्घ्रिकम्
उपपातकरोमाणं महाकायं भयङ्करम् ।कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम्
”इति पाद्मे क्रियायोगसारे २१ अध्यायः