पानीयं (pAnIyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपानीयं, (पीयते इति । पा + अनीयर् ।)जलम् । इत्यमरः । १ । १० । ४ ॥
पातव्ये रक्ष-णीये च त्रि ॥
पानार्हद्रव्यविशेषः । पाना इतिवङ्गभाषा । शरवत् इति पारस्यभाषा । तत्रअम्लिकापानीयं पित्तवमिनाशकम् । मिष्ट-दाडिमीपानीयं प्रतिश्यायकाशनाशकम् । अम्ल-दाडिमीपानीयं उदरविकारे धारकं क्षुधावृद्धि-कारकञ्च । निम्बूपानीयं छर्दिहृल्लासपित्तज्वर-निवारकं सकलाहारपाचकञ्च । नागरङ्ग-पानीयं कासपित्तविनाशकं अन्तःकरणप्राशस्त्य-जनकञ्च । सेवचन्दनपानीयं बलकारकं उन्माद-मूर्च्छारोगशान्तिकारकं रतिशक्तिवर्द्धकं उदर-विकारोपकारकञ्च । इति पाकराजेश्वरः ॥
(अन्यत् पानकशब्दे द्रष्टव्यम् ॥
* ॥
) जल-दानविधिर्यथा, --यम उवाच ।“एतत्ते कथितं विप्र ! मम लोके तु दुर्लभम् ।पानीयं सन्ततन्तस्माद्दातव्यं सुखमिच्छता ॥
अतोऽर्द्धं कारयेत् कूपं वापीं वा बहुपल्वलम् ।बहुलोकाकुले देशे सर्व्वसत्त्वोपजीवितम् ॥
”इत्यग्निपुराणम् ॥
तद्दानानन्तरं पाठ्यमन्त्रो यथा, --“पानीयं प्राणिनः प्राणाः पानीयं पावनं महत् ।पानीयस्य प्रदानेन तृप्तिभवति शाश्वती ॥
”इति स्मृतिः ॥
तत्पर्य्यायः ।“पानीयजीवनवनामृतपुष्कराम्भः-पाथोऽम्बुशम्बरपथःसलिलोदकानि ।आपः कवारुणकबन्धजलानि नीरंकीलालवारिकमलानि विषार्णसी च ॥
भुवनं दहनारातिर्वास्तोयं सर्व्वतोमुखम् ।क्षीरं घनरसं निम्नगं मेघप्रसवो रसः ॥
”अस्य साधारणगुणाः ।“पानीयं मधुरं हिमञ्च रुचिदं तृष्णाविशोषापहंमोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिंपराम् ।निद्रालस्यनिरासनं विषहरं श्रान्तार्त्तिसन्तर्पनंनॄणां धीबलवीर्य्यवृद्धिजननं नष्टाङ्गपुष्टिप्रदम् ॥
”सद्यो वृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् ।चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥
”देशभूमिविशेषजलगुणाः ।“जातं ताम्रमृदस्तदेव सलिलं वातादिदोषप्रदंदेशाज्जाड्यकरञ्च दुर्ज्जरतरं दोषावहं धूसरात् ।वातघ्नञ्च शिलाशिरोत्थममलं पथ्यं लघु स्वादुकंश्रेष्ठं श्याममृदस्त्रिदोषशमनं सर्व्वामयघ्नंजलम् ॥
”इति राजनिर्घण्टः ॥
“पिच्छिलं कृमिलं क्लिन्नं पर्णशैवालकर्द्दमैः ।विवर्णं विरसं सान्द्रं दुर्गन्धि न हितं जलम् ॥
चन्द्रार्ककरसंजुष्टं वायुना स्फालितं मुहुः ।पर्व्वतोपरि यद्वारि समं पौरन्दरेण तत् ॥
तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ।लेखनं दीपनं रूक्षं किञ्चिद्बातप्रकोपणम् ॥
”इति राजवल्लभः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
