पानात्यय (pAnAtyaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritपानात्यय सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख पा-नदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा“मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव । रूक्ष-माशुकरञ्चैव व्यवायि च विकाशि च । औष्ण्याच्छीतो-पचारं तत्तैष्ण्याद्धन्ति मनोगतिम् । विशत्यवयवान्सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् । मारुतं कीपयेद्रौक्ष्या-दाशुत्वादाशुकर्मकृत् । हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि-सर्पति । तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् ।केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि । स्निग्धै-स्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् । भवेदायुःप्रकर्षायबलायोपचयाय च । काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजो-ऽतिविक्रमः । विधिवत्सेव्यमाने तु मद्ये सन्निहितागुणाः । तदेवानन्नमज्ञेन सेव्यमानममात्रया । काया-ग्निनाह्यग्निशमं समेत्य कुरुते मदम् । मदेन करणा-नान्तु भावान्यत्वे कृते सति । निगूढमपि भावं स्वम्प्र-काशी कुरुतेऽवशः । त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्यो-ऽथ पश्चिमः । पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्ध-नम् । प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां ।विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः । श्लैष्मिकान-ल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः । पानं न बाधतेऽत्यर्थंविपरीतांस्तु वाधते । निर्भक्तमेकान्तत एव मद्यं निषे-व्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान्विका-रानासादयेच्चापि शरीरभेदम् । क्रुद्धेन भीतेन पिपा-सितेन शोकाभितप्तेन बुभुक्षितेन । व्यायामभाराध्वपरि-क्षतेन वेगावरोधाभिहतेन चापि । अत्यम्लभक्ष्यावततो-दरेण साजीर्णभुक्तेन तथा बलेन । उष्णाभितप्तेन चसेव्यमानं करोति मद्यं विविधान्विकारान् । पानात्ययंपरमदम्पानाजीर्णमथापि वा । पानविभ्रममुग्रञ्च तेषांवक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाःपानात्ययेऽनिलकृते शिरसो रुजश्च । स्वेदप्रलापमुख-शोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च । श्ले-षात्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविका-रसम्बत् । ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधि-कत्वमरुचिर्मलमूत्रभङ्गः । लिङ्गं परस्य तु मदस्य व-दन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः ।आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनि-तस्य वदन्ति लिङ्गम् । ज्ञेयानि तत्र भिषजा सुविनि-श्चितानि पित्तप्रकोपजनितानि च कारणानि । हृद्गात्र-तोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः ।द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्य-खिलेन धीराः । हीनोत्तरौष्ठमतिशीतममन्ददाहं तैल-प्रभास्यमतिमानहतं विजह्यात् । जिह्वौष्ठदन्तमसितंत्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च ।हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि चपानहतं मजन्ते” । परममदपानाजीणेपानविभ्रमाअपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
